Skip to main content
पडताळणी प्रलंबित

श्री कालभैरवाष्टकम् – २

अङ्गसुन्दरत्वनिन्दिताङ्गजातवैभवं

भृङ्गसर्वगर्वहारिदेहकान्तिशोभितम् ।

मङ्गलौघदानदक्षपादपद्मसंस्मृतिं

शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ १ ॥

पादनम्रमूकलोकवाक्प्रदानदीक्षितं

वेदवेद्यमीशमोदवार्धिशुभ्रदीधितिम् ।

आदरेण देवताभिरर्चिताङ्घ्रिपङ्कजं

शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ २ ॥

अम्बुजाक्षमिन्दुवक्त्रमिन्दिरेशनायकं

कम्बुकण्ठमिष्टदानधूतकल्पपादपम् ।

अम्बरादिभूतरूपमम्बरायिताम्बरं

शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ३ ॥

मन्दभाग्यमप्यरं सुरेन्द्रतुल्यवैभवं

सुन्दरं च कामतोऽपि संविधाय सन्ततम् ।

पालयन्तमात्मजातमादरात्पिता यथा

शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ४ ॥

नम्रकष्टनाशदक्षमष्टसिद्धिदायकं

कम्रहासशोभितुण्डमच्छगण्डदर्पणम् ।

कुन्दपुष्पमानचोरदन्तकान्तिभासुरं

शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ५ ॥

काशिकादिदिव्यदेशवासलोलमानसं

पाशिवायुकिन्नरेशमुख्यदिग्धवार्चितम् ।

नाशिताघवृन्दमङ्घ्रिनम्रलोकयोगदं

शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ६ ॥

सारमागमस्य तुङ्गसारमेयवाहनं

दारितान्तरान्ध्यमाशु नैजमन्त्रजापिनाम् ।

पूरिताखिलेष्टमष्टमूर्तिदेहसम्भवं

शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ७ ॥

कालभीतिवारणं कपालपाणिशोभितं

खण्डितामरारिमिन्दुबालशोभिमस्तकम् ।

चण्डबुद्धिदानदक्षमक्षतात्मशासनं

शृङ्गशैलवासिनं नमामि कालभैरवम् ॥ ८ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्री कालभैरवाष्टकम् ॥

sri kala bhairava ashtakam 2