Skip to main content
पडताळणी प्रलंबित

श्री शिवाष्टकम् ३ (शङ्कराचार्य कृतम्)

तस्मै नमः परमकारणकारणाय

दीप्तोज्ज्वलज्ज्वलितपिङ्गललोचनाय ।

नागेन्द्रहारकृतकुण्डलभूषणाय

ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय ॥ १ ॥

श्रीमत्प्रसन्नशशिपन्नगभूषणाय

शैलेन्द्रजावदनचुम्बितलोचनाय ।

कैलासमन्दरमहेन्द्रनिकेतनाय

लोकत्रयार्तिहरणाय नमः शिवाय ॥ २ ॥

पद्मावदातमणिकुण्डलगोवृषाय

कृष्णागरुप्रचुरचन्दनचर्चिताय ।

भस्मानुषक्तविकचोत्पलमल्लिकाय

नीलाब्जकण्ठसदृशाय नमः शिवाय ॥ ३ ॥

लम्बत्सपिङ्गलजटामुकुटोत्कटाय

दंष्ट्राकरालविकटोत्कटभैरवाय ।

व्याघ्राजिनाम्बरधराय मनोहराय

त्रैलोक्यनाथनमिताय नमः शिवाय ॥ ४ ॥

दक्षप्रजापतिमहामखनाशनाय

क्षिप्रं महात्रिपुरदानवघातनाय ।

ब्रह्मोर्जितोर्ध्वगकरोटिनिकृन्तनाय

योगाय योगनमिताय नमः शिवाय ॥ ५ ॥

संसारसृष्टिघटनापरिवर्तनाय

रक्षः पिशाचगणसिद्धसमाकुलाय ।

सिद्धोरगग्रहगणेन्द्रनिषेविताय

शार्दूलचर्मवसनाय नमः शिवाय ॥ ६ ॥

भस्माङ्गरागकृतरूपमनोहराय

सौम्यावदातवनमाश्रितमाश्रिताय ।

गौरीकटाक्षनयनार्धनिरीक्षणाय

गोक्षीरधारधवलाय नमः शिवाय ॥ ७ ॥

आदित्यसोमवरुणानिलसेविताय

यज्ञाग्निहोत्रवरधूमनिकेतनाय ।

ऋक्सामवेदमुनिभिः स्तुतिसम्युताय

गोपाय गोपनमिताय नमः शिवाय ॥ ८ ॥

इति श्रीमच्छङ्कराचार्यकृत शिवाष्टकम् ।

sri shiva ashtakam 3 shankaracharya kritam