Skip to main content
पडताळणी प्रलंबित

श्री वराहमुखी स्तवः

कुवलयनिभा कौशेयार्धोरुका मुकुटोज्ज्वला

हलमुसलिनी सद्भक्तेभ्यो वराभयदायिनी ।

कपिलनयना मध्ये क्षामा कठोरघनस्तनी

जयति जगतां मातः सा ते वराहमुखी तनुः ॥ १ ॥

तरति विपदो घोरा दूरात्परिह्रियते भयं

स्खलितमतिभिर्भूतप्रेतैः स्वयं व्रियते श्रिया ।

क्षपयति रिपूनीष्टे वाचां रणे लभते जयं

वशयति जगत्सर्वं वाराहि यस्त्वयि भक्तिमान् ॥ २ ॥

स्तिमितगतयः सीदद्वाचः परिच्युतहेतयः

क्षुभितहृदयाः सद्यो नश्यद्दृशो गलितौजसः ।

भयपरवशा भग्नोत्साहाः पराहतपौरुषाः

भगवति पुरस्त्वद्भक्तानां भवन्ति विरोधिनः ॥ ३ ॥

किसलयमृदुर्हस्तः क्लिश्येत कन्दुकलीलया

भगवति महाभारः क्रीडासरोरुहमेव ते ।

तदपि मुसलं धत्से हस्ते हलं समयद्रुहां

हरसि च तदाघातैः प्राणानहो तव साहसम् ॥ ४ ॥

जननि नियतस्थाने त्वद्वामदक्षिणपार्श्वयो-

-र्मृदुभुजलतामन्दोक्षेपप्रवातितचामरे ।

सततमुदिते गुह्याचारद्रुहां रुधिरासवै-

-रुपशमयतां शत्रून् सर्वानुभे मम दैवते ॥ ५ ॥

हरतु दुरितं क्षेत्राधीशः स्वशासनविद्विषां

रुधिरमदिरामत्तः प्राणोपहारबलिप्रियः ।

अविरतचटत्कुर्वद्दंष्ट्रास्थिकोटिरटन्मुखो

भगवति स ते चण्डोच्चण्डः सदा पुरतः स्थितः ॥ ६ ॥

क्षुभितमकरैर्वीचीहस्तोपरुद्धपरस्परै-

-श्चतुरुदधिभिः क्रान्ता कल्पान्तदुर्ललितोदकैः ।

जननि कथमुत्तिष्ठेत् पातालसर्पबिलादिला

तव तु कुटिले दंष्ट्राकोटी न चेदवलम्बनम् ॥ ७ ॥

तमसि बहुले शून्याटव्यां पिशाचनिशाचर-

-प्रमथकलहे चोरव्याघ्रोरगद्विपसङ्कटे ।

क्षुभितमनसः क्षुद्रस्यैकाकिनोऽपि कुतो भयं

सकृदपि मुखे मातस्त्वन्नाम सन्निहितं यदि ॥ ८ ॥

विदितविभवं हृद्यैः पद्यैर्वराहमुखीस्तवं

सकलफलदं पूर्णं मन्त्राक्षरैरिममेव यः ।

पठति स पटुः प्राप्नोत्यायुश्चिरं कवितां प्रियां

सुतसुखधनारोग्यं कीर्तिं श्रियं जयमुर्वराम् ॥ ९ ॥

इति श्री वराहमुखी स्तवः ।

sri varahamukhi stava