Skip to main content
पडताळणी प्रलंबित

श्री शिवाष्टोत्तरशतनाम स्तोत्रम्

श्री शिव अष्टोत्तर शतनामावली >>

शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ।

वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १ ॥

शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।

शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ २ ॥

भवः शर्वस्त्रिलोकेशः शितिकण्ठः शिवाप्रियः ।

उग्रः कपाली कामारिः अन्धकासुरसूदनः ॥ ३ ॥

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।

भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ४ ॥

कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।

वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥ ५ ॥

सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ।

सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ ६ ॥

हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः ।

विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ ७ ॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।

भुजङ्गभूषणो भर्गो गिरिधन्वी गिरिप्रियः ॥ ८ ॥

कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः ।

मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ ९ ॥

व्योमकेशो महासेनजनकश्चारुविक्रमः ।

रुद्रो भूतपतिः स्थाणुरहिर्भुध्न्यो दिगम्बरः ॥ १० ॥

अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः ।

शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥ ११ ॥

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ।

पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥ १२ ॥

भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् ।

अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ १३ ॥

एवं श्री शम्भुदेवस्य नाम्नामष्टोत्तरंशतम् ॥

sri shiva ashtottara satanama stotra in hindi