Skip to main content
पडताळणी प्रलंबित

त्रिपुरसुन्दर्यष्टकम्

कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं

नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।

नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां

त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥

कदम्बवनवासिनीं कनकवल्लकीधारिणीं

महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।

दयाविभवकारिणीं विशदरोचनाचारिणीं

त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥

कदम्बवनशालया कुचभरोल्लसन्मालया

कुचोपमितशैलया गुरुकृपालसद्वेलया ।

मदारुणकपोलया मधुरगीतवाचालया

कयापि घननीलया कवचिता वयं लीलया ॥ ३ ॥

कदम्बवनमध्यगां कनकमण्डलोपस्थितां

षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।

विडम्बितजपारुचिं विकचचन्द्रचूडामणिं

त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालङ्कृतां

कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।

मदारुणविलोचनां मनसिजारिसम्मोहिनीं

मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥

स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां

गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।

घनस्तनभरोन्नतां गलितचूलिकां श्यामलां

त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥

सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां

समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां

जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥

पुरन्दरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां

पितामहपतिव्रतापटुपटीरचर्चारताम् ।

मुकुन्दरमणीमणीलसदलङ्क्रियाकारिणीं

भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ त्रिपुरसुन्दर्यष्टकम् ।

tripurasundari ashtakam