Skip to main content
पडताळणी प्रलंबित

श्री कामाक्षी स्तोत्रम् २

काञ्चीनूपुररत्नकङ्कण लसत्केयूरहारोज्ज्वलां

काश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।

कल्हाराञ्चितकल्पकोज्ज्वलमुखीं कारुण्यकल्लोलिनीं

कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ १ ॥

कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितां

कन्दर्पाधिकदर्पदानविलसत्सौन्दर्यदीपाङ्कुराम् ।

कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रतां

कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ २ ॥

गन्धर्वामरसिद्धचारणवधूद्गेयापदानाञ्चितां

गौरीं कुङ्कुमपङ्कपङ्कित कुचद्वन्द्वाभिरामां शुभाम् ।

गम्भीरस्मितविभ्रमाङ्कितमुखीं गङ्गाधरालिङ्गितां

कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ३ ॥

विष्णुब्रह्ममुखामरेन्द्रपरिषत्कोटीरपीठस्थलां

लाक्षारञ्जितपादपद्मयुगलां राकेन्दुबिम्बाननाम् ।

वेदान्तागमवेद्यचिन्त्यचरितां विद्वज्जनैरादृतां

कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ४ ॥

माकन्दद्रुममूलदेशमहिते माणिक्यसिंहासने

दिव्यां दीपितहेमकान्तिनिवहावस्त्रावृतां तां शुभाम् ।

दिव्याकल्पितदिव्यदेहभरितां दृष्टिप्रमोदावहां

कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ५ ॥

आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमा-

-माकाशादिसमस्तभूतनिवहाकारामशेषात्मिकाम् ।

योगीन्द्रैरति योगिनीशतगणैराराधितामम्बिकां

कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ६ ॥

ह्रीं‍कारप्रणवात्मिकां प्रणमतां श्रीविद्यविद्यामयीं

ऐं श्रीं सौं रुचिमन्त्रमूर्ति निवहाकारामशेषात्मिकाम् ।

ब्रह्मानन्दरसानुभूतमहितां ब्रह्मप्रियंवादिनीं

कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ७ ॥

सिद्धानन्दजनस्य चिन्मयसुखाकारां महायोगिभिः

मायाविश्वविमोहिनीं मधुमतीं ध्यायेच्छुभां ब्राह्मणीम् ।

ध्येयां किन्नरसिद्धचारणवधूद्गेयां सदा योगिभिः

कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ८ ॥

कामारिकामां कमलासनस्थां

काम्यप्रदां कङ्कणचूडहस्ताम् ।

काञ्चीनिवासां कनकप्रभासां

कामाक्षिदेवीं कलयामि चित्ते ॥ ९ ॥

इति श्री कामाक्षी स्तोत्रम् ।

sri kamakshi stotram 2