Skip to main content
पडताळणी प्रलंबित

सुभगोदय स्तुतिः

भवानि त्वां वन्दे भवमहिषि सच्चित्सुखवपुः

पराकारां देवीममृतलहरीमैन्दवकलाम् ।

महाकालातीतां कलितसरणीकल्पिततनुं

सुधासिन्धोरन्तर्वसतिमनिशं वासरमयीम् ॥ १ ॥

मनस्तत्त्वं जित्वा नयनमथ नासाग्रघटितं

पुनर्व्यावृत्ताक्षः स्वयमपि यदा पश्यति पराम् ।

तदानीमेवास्य स्फुरति बहिरन्तर्भगवती

परानन्दाकारा परशिवपरा काचिदपरा ॥ २ ॥

मनोमार्गं जित्वा मरुत इह नाडीगणजुषो

निरुध्यार्कं सेन्दुं दहनमपि सञ्ज्वाल्य शिखया ।

सुषुम्णां सम्योज्य श्लथयति च षड्ग्रन्थिशशिनं

तवाज्ञाचक्रस्थं विलयति महायोगिसमयी ॥ ३ ॥

यदा तौ चन्द्रार्कौ निजसदनसंरोधनवशा-

-दशक्तौ पीयूषस्रवणहरणे सा च भुजगी ।

प्रबुद्धा क्षुत्क्रुद्धा दशति शशिनं बैन्दवगतं

सुधाधारासारैः स्नपयसि तनुं बैन्दवकले ॥ ४ ॥

पृथिव्यापस्तेजः पवनगगने तत्प्रकृतयः

स्थितास्तन्मात्रास्ता विषयदशकं मानसमिति ।

ततो माया विद्या तदनु च महेशः शिव इतः

परं तत्त्वातीतं मिलितवपुरिन्दोः परकला ॥ ५ ॥

कुमारी यन्मन्द्रं ध्वनति च ततो योषिदपरा

कुलं त्यक्त्वा रौति स्फुटति च महाकालभुजगी ।

ततः पातिव्रत्यं भजति दहराकाशकमले

सुखासीना योषा भवसि भवसीत्काररसिका ॥ ६ ॥

त्रिकोणं ते कौलाः कुलगृहमिति प्राहुरपरे

चतुष्कोणं प्राहुः समयिन इमे बैन्दवमिति ।

सुधासिन्धौ तस्मिन् सुरमणिगृहे सूर्यशशिनो-

-रगम्ये रश्मीनां समयसहिते त्वं विहरसे ॥ ७ ॥

त्रिखण्डं ते चक्रं शुचिरविशशाङ्कात्मकतया

मयूखैः षट्त्रिंशद्दशयुततया खण्डकलितैः ।

पृथिव्यादौ तत्त्वे पृथगुदितवद्भिः परिवृतं

भवेन्मूलाधारात्प्रभृति तव षट्चक्रसदनम् ॥ ८ ॥

शतं चाष्टौ वह्नेः शतमपि कलाः षोडश रवेः

शतं षट् च त्रिंशत्सितमयमयूखाश्चरणजाः ।

य एते षष्टिश्च त्रिशतमभवंस्त्वच्चरणजा

महाकौलेस्तस्मान्न हि तव शिवे कालकलना ॥ ९ ॥

त्रिकोणं चाधारं त्रिपुरतनु तेऽष्टारमनघे

भवेत् स्वाधिष्ठानं पुनरपि दशारं मणिपुरम् ।

दशारं ते संवित्कमलमथ मन्वश्रकमुमे

विशुद्धं स्यादाज्ञा शिव इति ततो बैन्दवगृहम् ॥ १० ॥

त्रिकोणे ते वृत्तत्रितयमिभकोणे वसुदलं

कलाश्रं मिश्रेरे भवति भुवनाश्रे च भुवनम् ।

चतुश्चक्रं शैवं निवसति भगे शाक्तिकमुमे

प्रधानैक्यं षोढा भवति च तयोः शक्तिशिवयोः ॥ ११ ॥

कलायां बिन्द्वैक्यं तदनु च तयोर्नादविभवे

तयोर्नादेनैक्यं तदनु च कलायामपि तयोः ।

तयोर्बिन्दावैक्यं त्रितयविभवैक्यं परशिवे

तदेवं षोढैक्यं भवति हि सपर्या समयिनाम् ॥ १२ ॥

कला नादो बिन्दुः क्रमश इह वर्णाश्च चरणं

षडब्जं चाधारप्रभृतिकममीषां च मिलनम् ।

तदेवं षोढैक्यं भवति खलु येषां समयिनां

चतुर्धैक्यं तेषां भवति हि सपर्या समयिनाम् ॥ १३ ॥

तडिल्लेखामध्ये स्फुरति मणिपूरे भगवती

चतुर्धैक्यं तेषां भवति च चतुर्बाहुरुदिता ।

धनुर्बाणानिक्षूद्भवकुसुमजानङ्कुशवरं

तथा पाशं बिभ्रत्युदितरविबिम्बाकृतिरुचिः ॥ १४ ॥

भवत्यैक्यं षोढा भवति भगवत्याः समयिनां

मरुत्वत्कोदण्डद्युतिनियुतभासा समरुचिः ।

भवत्पाणिव्रातो दशविध इतीदं मणिपुरे

भवानि प्रत्यक्षं तव वपुरुपास्ते न हि परम् ॥ १५ ॥

इत्यैक्यनिरूपणम् ॥

भवानि श्रीहस्तैर्वहसि फणिपाशं सृणिमथो

धनुः पौण्ड्रं पौष्पं शरमथ जपस्रक्छुकवरौ ।

अथ द्वाभ्यां मुद्रामभयवरदानैकरसिकां

क्वणद्वीणां द्वाभ्यां त्वमुरसि कराभ्यां च बिभृषे ॥ १६ ॥

त्रिकोणैरष्टारं त्रिभिरपि दशारं समुदभू-

-द्दशारं भूगेहादपि च भुवनाश्रं समभवत् ।

ततोऽभून्नागारं नृपतिदलमस्मात् त्रिवलयं

चतुर्द्वाःप्राकारत्रितयमिदमेवाम्ब शरणम् ॥ १७ ॥

चतुःषष्टिस्तन्त्राण्यपि कुलमतं निन्दितमभू-

-द्यदेतन्मिश्राख्यं मतमपि भवेन्निन्दितमिह ।

शुभाख्याः पञ्चैताः श्रुतिसरणिसिद्धाः प्रकृतयो

महाविद्यास्तासां भवति परमार्थो भगवती ॥ १८ ॥

स्मरो मारो मारः स्मर इति परो मारमदनः

स्मरानङ्गाश्चेति स्मरमदनमाराः स्मर इति ।

त्रिखण्डः खण्डान्ते कलितभुवनेश्यक्षरयुत-

-श्चतुः पञ्चार्णास्ते त्रय इति च पञ्चाक्षरमनुः ॥ १९ ॥

त्रिखण्डे त्वन्मन्त्रे शशिसवितृवह्न्यात्मकतया

स्वराश्चन्द्रे लीनाः सवितरि कलाः कादय इह ।

यकाराद्या वह्नावथ कषयुगं बैन्दवगृहे

निलीनं सादाख्ये शिवयुवति नित्यैन्दवकले ॥ २० ॥

ककाराकाराभ्यां स्वरगणमवष्टभ्य निखिलं

कलाप्रत्याहारात् सकलमभवद्व्यञ्जनगणः ।

त्रिखण्डे स्यात् प्रत्याहरणमिदमन्वक्कषयुगं

क्षकारश्चाकाशेऽक्षरतनुतया चाक्षरमिति ॥ २१ ॥

विदेहेन्द्रापत्यं श्रुत इह ऋषिर्यस्य च मनो-

-रयं चार्थः सम्यक् श्रुतिशिरसि तैत्तिर्यकऋचि ।

ऋषिं हित्वा चास्या हृदयकमले नैतमृषिमि-

-त्यृचाभ्युक्तः पूजाविधिरिह भवत्याः समयिनाम् ॥ २२ ॥

त्रिखण्डस्त्वन्मन्त्रस्तव च सरघायां निविशते

श्रियो देव्याः शेषो यत इह समस्ताः शशिकलाः ।

त्रिखण्डे त्रैखण्ड्यं निवसति समन्त्रे च सुभगे

षडब्जारण्यानी त्रितययुतखण्डे निवसति ॥ २३ ॥

त्रयं चैतत् स्वान्ते परमशिवपर्यङ्कनिलये

परे सादाख्येऽस्मिन्निवसति चतुर्धैक्यकलनात् ।

स्वरास्ते लीनास्ते भगवति कलाश्रे च सकलाः

ककाराद्या वृत्ते तदनु चतुरश्रे च यमुखाः ॥ २४ ॥

हलो बिन्दुर्वर्गाष्टकमिभदलं शाम्भववपु-

-श्चतुश्चक्रं शक्रस्थितमनुभयं शक्तिशिवयोः ।

निशाद्या दर्शाद्याः श्रुतिनिगदिताः पञ्चदशधा

भवेयुर्नित्यास्तास्तव जननि मन्त्राक्षरगणाः ॥ २५ ॥

इमास्ताः षोडश्यास्तव च सरघायां शशिकला-

-स्वरूपायां लीना निवसति तव श्रीशशिकला ।

अयं प्रत्याहारः श्रुत इह कलाव्यञ्जनगणः

ककारेणाकारः स्वरगणमशेषं कथयति ॥ २६ ॥

क्षकारः पञ्चाशत्कल इति हलो बैन्दवगृहं

ककारादूर्ध्वं स्याज्जननि तव नामाक्षरमिति ।

भवेत्पूजाकाले मणिखचितभूषाभिरभितः

प्रभाभिर्व्यालीढं भवति मणिपूरं सरसिजम् ॥ २७ ॥

वदन्त्येके वृद्धा मणिरिति जलं तेन निबिडं

परे तु त्वद्रूपं मणिधनुरितीदं समयिनः ।

अनाहत्या नादः प्रभवति सुषुम्णाध्वजनित-

-स्तदा वायोस्तत्र प्रभव इदमाहुः समयिनः ॥ २८ ॥

तदेतत्ते संवित्कमलमिति सञ्ज्ञान्तरमुमे

भवेत्संवित्पूजा भवति कमलेऽस्मिन् समयिनाम् ।

विशुद्ध्याख्ये चक्रे वियदुदितमाहुः समयिनः

सदापूर्वो देवः शिव इति हिमानीसमतनुः ॥ २९ ॥

त्वदीयैरुद्द्योतैर्भवति च विशुद्ध्याख्यसदनं

भवेत्पूजा देव्या हिमकरकलाभिः समयिनाम् ।

सहस्रारे चक्रे निवसति कलापञ्चदशकं

तदेतन्नित्याख्यं भ्रमति सितपक्षे समयिनाम् ॥ ३० ॥

अतः शुक्ले पक्षे प्रतिदिनमिह त्वां भगवतीं

निशायां सेवन्ते निशि चरमभागे समयिनः ।

शुचिः स्वाधिष्ठाने रविरुपरि संवित्सरसिजे

शशी चाज्ञाचक्रे हरिहरविधिग्रन्थय इमे ॥ ३१ ॥

कलायाः षोडश्याः प्रतिफलितबिम्बेन सहितं

तदीयैः पीयूषैः पुनरधिकमाप्लाविततनुः ।

सिते पक्षे सर्वास्तिथय इह कृष्णेऽपि च समा

यदा चामावास्या भवति न हि पूजा समयिनाम् ॥ ३२ ॥

इडायां पिङ्गल्यां चरत इह तौ सूर्यशशिनौ

तमस्याधारे तौ यदि तु मिलितौ सा तिथिरमा ।

तदाज्ञाचक्रस्थं शिशिरकरबिम्बे रविनिभं

दृढव्यालीढं सद्विगलितसुधासारविसरम् ॥ ३३ ॥

महाव्योमस्थेन्दोरमृतलहरीप्लाविततनुः

प्रशुष्यद्वै नाडीप्रकरमनिशं प्लावयति तत् ।

यदाज्ञायां विद्युन्नियुतनियुताभाक्षरमयी

स्थिता विद्युल्लेखा भगवति विधिग्रन्थिमभिनत् ॥ ३४ ॥

ततो गत्वा ज्योत्स्नामयसमयलोकं समयिनां

पराख्या सादाख्या जयति शिवतत्त्वेन मिलिता ।

सहस्रारे पद्मे शिशिरमहसां बिम्बमपरं

तदेव श्रीचक्रं सरघमिति तद्बैन्दवमिति ॥ ३५ ॥

वदन्त्येके सन्तः परशिवपदे तत्त्वमिलिते

ततस्त्वं षड्विंशी भवसि शिवयोर्मेलनवपुः ।

त्रिखण्डेऽस्मिन् स्वान्ते परमपदपर्यङ्कसदने

परे सादाख्येऽस्मिन्निवसति चतुर्धैक्यकलनात् ॥ ३६ ॥

क्षितौ वह्निर्वह्नौ वसुदलजले दिङ्मरुति दिक्-

-कलाश्रे मन्वश्रं दृशि वसुरथो राजकमले ।

प्रतिद्वैतग्रन्थिस्तदुपरि चतुर्द्वारसहितं

महीचक्रं चैकं भवति भगकोणैक्यकलनात् ॥ ३७ ॥

इति मन्त्रचक्रैक्यम् ॥

षडब्जारण्ये त्वां समयिन इमे पञ्चकसमां

यदा संविद्रूपां विदधति च षोढैक्यकलिताम् ।

मनो जित्वा चाज्ञासरसिज इह प्रादुरभवत्

तडिल्लेखा नित्या भगवति तवाधारसदनात् ॥ ३८ ॥

भवत्साम्यं केचित् त्रितयमिति कौलप्रभृतयः

परं तत्त्वाख्यं चेत्यपरमिदमाहुः समयिनः ।

क्रियावस्थारूपं प्रकृतिरभिधापञ्चकसमं

तदेषां साम्यं स्यादवनिषु च यो वेत्ति स मुनिः ॥ ३९ ॥

इत्यैक्यनिरूपणम् ॥

वशिन्याद्या अष्टावकचटतपाद्याः प्रकृतयः

स्ववर्गस्थाः स्वस्वायुधकलितहस्ताः स्वविषयाः ।

यथावर्गं वर्णप्रचुरतनवो याभिरभवं-

-स्तव प्रस्तारास्ते त्रय इति जगुस्ते समयिनः ॥ ४० ॥

इमा नित्या वर्णास्तव चरणसम्मेलनवशा-

-न्महामेरुस्थाः स्युर्मनुमिलनकैलासवपुषः ।

वशिन्याद्या एता अपि तव सबिन्द्वात्मकतया

महीप्रस्तारोऽयं क्रम इति रहस्यं समयिनाम् ॥ ४१ ॥

इति प्रस्तारत्रयनिरूपणम् ॥

भवेन्मूलाधारं तदुपरितनं चक्रमपि त-

-द्द्वयं तामिस्राख्यं शिखिकिरणसम्मेलनवशात् ।

तदेतत्कौलानां प्रतिदिनमनुष्ठेयमुदितं

भवत्या वामाख्यं मतमपि परित्याज्यमुभयम् ॥ ४२ ॥

अमीषां कौलानां भगवति भवेत्पूजनविधि-

-स्तव स्वाधिष्ठाने तदनु च भवेन्मूलसदने ।

अतो बाह्या पूजा भवति भगरूपेण च ततो

निषिद्धाचारोऽयं निगमविरहोऽनिन्द्यचरिते ॥ ४३ ॥

नवव्यूहं कौलप्रभृतिकमतं तेन स विभु-

-र्नवात्मा देवोऽयं जगदुदयकृद्भैरववपुः ।

नवात्मा वामादिप्रभृतिभिरिदं भैरववपु-

-र्महादेवी ताभ्यां जनकजननीमज्जगदिदम् ॥ ४४ ॥

भवेदेतच्चक्रद्वितयमतिदूरं समयिनां

विसृज्यैतद्युग्मं तदनु मणिपूराख्यसदने ।

त्वया सृष्टैर्वारिप्रतिफलितसूर्येन्दुकिरणै-

-र्द्विधा लोके पूजां विदधति भवत्याः समयिनः ॥ ४५ ॥

अधिष्ठानाधारद्वितयमिदमेवं दशदलं

सहस्राराज्जातं मणिपुरमतोऽभूद्दशदलम् ।

हृदम्भोजान्मूलान्नृपदलमभूत् स्वान्तकमलं

तदेवैको बिन्दुर्भवति जगदुत्पत्तिकृदयम् ॥ ४६ ॥

सहस्रारं बिन्दुर्भवति च ततो बैन्दवगृहं

तदेतस्माज्जातं जगदिदमशेषं सकरणम् ।

ततो मूलाधाराद्द्वितयमभवत् तद्दशदलं

सहस्राराज्जातं तदिति दशधा बिन्दुरभवत् ॥ ४७ ॥

तदेतद्बिन्दोर्यद्दशकमभवत्तत्प्रकृतिकं

दशारं सूर्यारं नृपदलमभूत् स्वान्तकमलम् ।

रहस्यं कौलानां द्वितयमभवन्मूलसदनं

तथाधिष्ठानं च प्रकृतिमिह सेवन्त इह ते ॥ ४८ ॥

अतस्ते कौलास्ते भगवति दृढप्राकृतजना

इति प्राहुः प्राज्ञाः कुलसमयमार्गद्वयविदः ।

महान्तः सेवन्ते सकलजननीं बैन्दवगृहे

शिवाकारां नित्याममृतझरिकामैन्दवकलाम् ॥ ४९ ॥

इदं कालोत्पत्तिस्थितिलयकरं पद्मनिकरं

त्रिखण्डं श्रीचक्रं मनुरपि च तेषां च मिलनम् ।

तदैक्यं षोढा वा भवति च चतुर्धेति च तथा

तयोः साम्यं पञ्चप्रकृतिकमिदं शास्त्रमुदितम् ॥ ५० ॥

उपास्तेरेतस्याः फलमपि च सर्वाधिकमभू-

-त्तदेतत्कौलानां फलमिह हि चैतत् समयिनाम् ।

सहस्रारे पद्मे सुभगसुभगोदेति सुभगे

परं सौभाग्यं यत्तदिह तव सायुज्यपदवी ॥ ५१ ॥

अतोऽस्याः संसिद्धौ सुभगसुभगाख्या गुरुकृपा-

-कटाक्षव्यासङ्गात् स्रवदमृतनिष्यन्दसुलभा ।

तया विद्धो योगी विचरति निशायामपि दिवा

दिवा भानू रात्रौ विधुरिव कृतार्थीकृतमतिः ॥ ५२ ॥

इति परमपूज्य श्रीगौडपादाचर्य विरचिता सुभगोदय स्तुतिः ॥

subhagodaya stuti gaudapadacharya virachitam