Skip to main content
पडताळणी प्रलंबित

श्री दण्डपाणि पञ्चरत्नम्

चण्डपापहरपादसेवनं

गण्डशोभिवरकुण्डलद्वयम् ।

दण्डिताखिलसुरारिमण्डलं

दण्डपाणिमनिशं विभावये ॥ १ ॥

कालकालतनुजं कृपालयं

बालचन्द्रविलसज्जटाधरम् ।

चेलधूतशिशुवासरेश्वरं

दण्डपाणिमनिशं विभावये ॥ २ ॥

तारकेशसदृशाननोज्ज्वलं

तारकारिमखिलार्थदं जवात् ।

तारकं निरवधेर्भवाम्बुधे-

-र्दण्डपाणिमनिशं विभावये ॥ ३ ॥

तापहारिनिजपादसंस्तुतिं

कोपकाममुखवैरिवारकम् ।

प्रापकं निजपदस्य सत्वरं

दण्डपाणिमनिशं विभावये ॥ ४ ॥

कामनीयकविनिर्जिताङ्गजं

रामलक्ष्मणकराम्बुजार्चितम् ।

कोमलाङ्गमतिसुन्दराकृतिं

दण्डपाणिमनिशं विभावये ॥ ५ ॥

इति शृङ्गेरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्रीदण्डपाणि पञ्चरत्नम् ।

sri dandapani pancharatnam