Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्त्यष्टकम् – ३ (नृसिंहभारती कृतम्)

पायय जनमिमममृतं

दुर्लभमितरस्य लोकस्य ।

नतजनपालनदीक्षित

मेधाधीदक्षिणामूर्ते ॥ १ ॥

स्तोतुं वा नन्तुं वा

जडविषयासक्तहृन्न शक्नोमि ।

नैसर्गिकीं कुरु कृपां

मयि वटतटवास दक्षिणामूर्ते ॥ २ ॥

स्फुरतु मम हृदि तनुस्ते

पुस्तकमुद्राक्षमालिकाकुम्भान् ।

दधती चन्द्रार्धलस-

-च्छीर्षा श्रीदक्षिणामूर्ते ॥ ३ ॥

सहमान दक्षिणानन

सहमानविहीनमत्कमन्तुततीः ।

सहमानत्वं त्यज वा

युक्तं कुर्वत्र यद्विभाति तव ॥ ४ ॥

मेधाप्रज्ञे जन्ममूकोऽपि लोकः

प्राप्नोत्यङ्घ्रिं पूजयन्यस्य लोके ।

तं पादाम्भोजातनम्रामरालिं

मेधाप्रज्ञादक्षिणामूर्तिमीडे ॥ ५ ॥

गङ्गानिर्झरिणी हिमाद्रिकुहराद्यद्वत्सुधांशोः प्रभा

निर्गच्छत्यतिवेगतः कमपि च त्यक्त्वा प्रयत्नं मुहुः ।

तद्वद्यत्पदभक्तवक्त्रकुहराद्वाणी जवान्निःसरेत्

तं वन्दे मुनिबृन्दवन्द्यचरणं श्रीदक्षिणास्यं मुदा ॥ ६ ॥

अप्पित्तार्कशशाङ्कनेत्रमगजासंलिङ्गिताङ्गं कृपा-

-वाराशिं विधिविष्णुमुख्यदिविजैः संसेविताङ्घ्रिं मुदा ।

नन्दीशप्रमुखैर्गणैः परिवृतं नागास्यषड्वक्त्रयु-

-क्पार्श्वं नीलगलं नमामि वटभूरुण्मूलवासं शिवम् ॥ ७ ॥

शीतांशुप्रतिमानकान्तिवपुषं पीताम्बुराश्यादिभि-

-र्मौनीन्द्रैः परिचिन्त्यमानमनिशं मोदाद्धृदम्भोरुहे ।

शान्तानङ्गकटाक्षिभासिनिटिलं कान्तार्धकायं विभुं

वन्दे चित्रचरित्रमिन्दुमुकुटं न्यग्रोधमूलाश्रयम् ॥ ८ ॥

इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणामूर्त्यष्टकम् ॥

sri dakshinamurthy ashtakam 3 narasimha bharati krutam