Skip to main content
पडताळणी प्रलंबित

श्री गजानन स्तोत्रम् (देवर्षि कृतम्)

देवर्षय ऊचुः ।

विदेहरूपं भवबन्धहारं

सदा स्वनिष्ठं स्वसुखप्रदं तम् ।

अमेयसाङ्ख्येन च लभ्यमीशं

गजाननं भक्तियुता भजामः ॥ १ ॥

मुनीन्द्रवन्द्यं विधिबोधहीनं

सुबुद्धिदं बुद्धिधरं प्रशान्तम् ।

विकालहीनं सकलान्तगं वै

गजाननं भक्तियुता भजामः ॥ २ ॥

अमेयरूपं हृदि संस्थितं तं

ब्रह्माहमेकं भ्रमनाशकारम् ।

अनादिमध्यान्तमपाररूपं

गजाननं भक्तियुता भजामः ॥ ३ ॥

जगत्प्रमाणं जगदीशमेव-

-मगम्यमाद्यं जगदादिहीनम् ।

अनात्मनां मोहप्रदं पुराणं

गजाननं भक्तियुता भजामः ॥ ४ ॥

न भूर्न रूपं न जलं प्रकाशं

न तेजसिस्थं न समीरणस्थम् ।

न खे गतं पञ्चविभूतिहीनं

गजाननं भक्तियुता भजामः ॥ ५ ॥

न विश्वगं तैजसगं न प्राज्ञं

समष्टिव्यष्टिस्थमनन्तगं न ।

गुणैर्विहीनं परमार्थभूतं

गजाननं भक्तियुता भजामः ॥ ६ ॥

गुणेशगं नैव च बिन्दुसंस्थं

न देहिनं बोधमयं न ढुण्ढिम् ।

सम्योगहीनाः प्रवदन्ति तत्स्थं

गजाननं भक्तियुता भजामः ॥ ७ ॥

अनागतं नैव गतं गणेशं

कथं तदाकारमयं वदामः ।

तथापि सर्वं प्रभुदेहसंस्थं

गजाननं भक्तियुता भजामः ॥ ८ ॥

यदि त्वया नाथ कृतं न किञ्चि-

-त्तदा कथं सर्वमिदं विभाति ।

अतो महात्मानमचिन्त्यमेव

गजाननं भक्तियुता भजामः ॥ ९ ॥

सुसिद्धिदं भक्तजनस्य देवं

स कामिकानामिह सौख्यदं तम् ।

अकामिकानां भवबन्धहारं

गजाननं भक्तियुता भजामः ॥ १० ॥

सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं

समानभावेन विराजयन्तम् ।

अनन्तवाहं मुषकध्वजं तं

गजाननं भक्तियुता भजामः ॥ ११ ॥

सदा सुखानन्दमये जले च

समुद्रजे चेक्षुरसे निवासम् ।

द्वन्द्वस्य पानेन च नाशरूपे

गजाननं भक्तियुता भजामः ॥ १२ ॥

चतुःपदार्था विविधप्रकाशा-

-स्त एव हस्ताः स चतुर्भुजं तम् ।

अनाथनाथं च महोदरं वै

गजाननं भक्तियुता भजामः ॥ १३ ॥

महाखुमारूढमकालकालं

विदेहयोगेन च लभ्यमानम् ।

अमायिनं मायिकमोहदं तं

गजाननं भक्तियुता भजामः ॥ १४ ॥

रविस्वरूपं रविभासहीनं

हरिस्वरूपं हरिबोधहीनम् ।

शिवस्वरूपं शिवभासनाशं

गजाननं भक्तियुता भजामः ॥ १५ ॥

महेश्वरीस्थं च सुशक्तिहीनं

प्रभुं परेशं परवन्द्यमेवम् ।

अचालकं चालकबीजभूतं

गजाननं भक्तियुता भजामः ॥ १६ ॥

शिवादिदेवैश्च खगैः सुवन्द्यं

नरैर्लतावृक्षपशुप्रभूभिः ।

चराचरैर्लोकविहीनमेवं

गजाननं भक्तियुता भजामः ॥ १७ ॥

मनोवचोहीनतया सुसंस्थं

निवृत्तिमात्रं ह्यजमव्ययं तम् ।

तथापि देवं पुर आस्थितं तं

गजाननं भक्तियुता भजामः ॥ १८ ॥

वयं सुधन्या गणपस्तवेन

तथैव नत्यार्चनतस्तवैव ।

गणेशरूपाश्च कृतास्त्वया तं

गजाननं भक्तियुता भजामः ॥ १९ ॥

गजाख्यबीजं प्रवदन्ति वेदा-

-स्तदेव चिह्नेन च योगिनस्त्वाम् ।

गच्छन्ति तेनैव गजाननस्त्वं

गजाननं भक्तियुता भजामः ॥ २० ॥

पुराणवेदाः शिवविष्णुकाद्या-

-ऽमराः शुकाद्या गणपस्तवे वै ।

विकुण्ठिताः किं च वयं स्तवाम

गजाननं भक्तियुता भजामः ॥ २१ ॥

मुद्गल उवाच ।

एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः ।

तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २२ ॥

गजानन उवाच ।

वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।

स्तोत्रेण प्रीतिसम्युक्तः परं दास्यामि वाञ्छितम् ॥ २३ ॥

गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।

जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥ २४ ॥

देवर्षय ऊचुः ।

गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः ।

तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २५ ॥

लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा ।

तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥ २६ ॥

अधुना देवदेवेश कर्मयुक्ता द्विजादयः ।

भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २७ ॥

स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया ।

अतःपरं वरं याचामहे ढुण्ढे कमप्यहो ॥ २८ ॥

यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो ।

तदा सङ्कटहीनान् वै कुरु त्वं नो गजानन ॥ २९ ॥

एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् ।

स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥ ३० ॥

गजानन उवाच ।

यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा ।

भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३१ ॥

भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् ।

भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥ ३२ ॥

पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् ।

सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३३ ॥

मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः ।

परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३४ ॥

सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम् ।

शत्रूच्चाटनकाद्येषु प्रशस्तं तद्भविष्यति ॥ ३५ ॥

कारागृहगतस्यैव बन्धनाशकरं भवेत् ।

असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३६ ॥

एकविंशतिवारं चैकविंशति दिनावधिम् ।

प्रयोगं यः करोत्येव स भवेत् सर्वसिद्धिभाक् ॥ ३७ ॥

धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य दायकम् ।

भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ।

एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ॥ ३८ ॥

इति श्रीमन्मुद्गलपुराणे गजाननचरिते त्रिचत्वारिंशोऽध्याये देवमुनिकृत गजाननस्तोत्रं सम्पूर्णम् ।

devarshi kruta gajanana stotram