Skip to main content
पडताळणी प्रलंबित

श्री आद्या स्तोत्रम्

ब्रह्मोवाच ।

शृणु वत्स प्रवक्ष्यामि आद्यास्तोत्रं महाफलम् ।

यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १ ॥

मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे ।

अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ २ ॥

द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि ।

मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ ३ ॥

नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् ।

लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ ४ ॥

राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता ।

ओं ह्रीम् ।

ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ ५ ॥

इन्द्राणी अमरावत्यामम्बिका वरुणालये ।

यमालये कालरूपा कुबेरभवने शुभा ॥ ६ ॥

महानन्दाग्निकोणे च वायव्यां मृगवाहिनी ।

नैरृत्यां रक्तदन्ता च ऐशान्यां शूलधारिणी ॥ ७ ॥

पाताले वैष्णवीरूपा सिंहले देवमोहिनी ।

सुरसा च मणिद्विपे लङ्कायां भद्रकालिका ॥ ८ ॥

रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे ।

विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते ॥ ९ ॥

कालिका वङ्गदेशे च अयोध्यायां महेश्वरी ।

वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥ १० ॥

कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा ।

द्वारकायां महामाया मथुरायां महेश्वरी ॥ ११ ॥

क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च ।

नवमी शुक्लपक्षस्य कृष्णस्यैकादशी परा ॥ १२ ॥

दक्षसा दुहिता देवी दक्षयज्ञविनाशिनी ।

रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥ १३ ॥

चण्डमुण्डवधे देवी रक्तबीजविनाशिनी ।

निशुम्भशुम्भमथिनी मधुकैटभघातिनी ॥ १४ ॥

विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा ।

आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः ॥ १५ ॥

सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् ।

कोटितीर्थफलं तस्य लभते नात्र संशयः ॥ १६ ॥

जया मे चाग्रतः पातु विजया पातु पृष्ठतः ।

नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥ १७ ॥

शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी ।

विशालाक्षी महामाया कौमारी शङ्खिनी शिवा ॥ १८ ॥

चक्रिणी जयदात्री च रणमत्ता रणप्रिया ।

दुर्गा जयन्ती काली च भद्रकाली महोदरी ॥ १९ ॥

नारसिंही च वाराही सिद्धिदात्री सुखप्रदा ।

भयङ्करी महारौद्री महाभयविनाशिनी ॥ २० ॥

इति श्रीब्रह्मयामले ब्रह्मनारदसंवादे श्री आद्या स्तोत्रम् ॥

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri adya stotram