श्री कामकलाकाली सहस्रनाम स्तोत्रम्
देव्युवाच ।
त्वत्तः श्रुतं मया नाथ देव देव जगत्पते ।
देव्याः कामकलाकाल्या विधानं सिद्धिदायकम् ॥ १ ॥
त्रैलोक्यविजयस्यापि विशेषेण श्रुतो मया ।
तत्प्रसङ्गेन चान्यासां मन्त्रध्याने तथा श्रुते ॥ २ ॥
इदानीं जायते नाथ शुश्रूषा मम भूयसी ।
नाम्नां सहस्रे त्रिविधमहापापौघहारिणि ॥ ३ ॥
श्रुतेन येन देवेश धन्या स्यां भाग्यवत्यपि ।
श्रीमहाकाल उवाच ।
भाग्यवत्यसि धन्यासि सन्देहो नात्र भाविनि ॥ ४ ॥
सहस्रनामश्रवणे यस्मात्ते निश्चितं मनः ।
तस्या नाम्नां तु लक्षाणि विद्यन्ते चाथ कोटयः ॥ ५ ॥
तान्यल्पायुर्मतित्वेन नृभिर्धारयितुं सदा ।
अशक्यानि वरारोहे पठितुं च दिने दिने ॥ ६ ॥
तेभ्यो नामसहस्राणि साराण्युद्धृत्य शम्भुना ।
अमृतानीव दुग्धाब्धेर्भूदेवेभ्यः समर्पितम् ॥ ७ ॥
कानिचित्तत्र गौणानि गदितानि शुचिस्मिते ।
रूढाण्याकारहीनत्वाद्गौणानि गुणयोगतः ॥ ८ ॥
राहित्याद्रूढिगुणयोस्तानि साङ्केतिकान्यपि ।
त्रिविधान्यपि नामानि पठितानि दिने दिने ॥ ९ ॥
राधयन्तीप्सितानर्थान् ददत्यमृतमव्ययम् ।
क्षपयन्त्यपमृत्युं च मारयन्ति द्विषोऽखिलान् ॥ १० ॥
घ्नन्ति रोगानथोत्पातान्मङ्गलं कुर्वतेऽन्वहम् ।
किमुतान्यत् सदा सन्निधापयत्यर्थिकामपि ॥ ११ ॥
त्रिपुरघ्नोऽप्यदो नामसहस्रं पठति प्रिये ।
तदाज्ञयाप्यहमपि कीर्तयामि दिनेदिने । १२ ॥
भवत्यपीदमस्मत्तः शिक्षित्वा तु पठिष्यति ।
भविष्यति च निर्णीतं चतुर्वर्गस्य भाजनम् ॥ १३ ॥
मनोऽन्यतो निराकृत्य सावधाना निशामय ।
नाम्नां कामकलाकाल्याः सहस्रं मुक्तिदायकम् ॥ १४ ॥
अस्य श्रीकामकलाकाली सहस्रनामस्तोत्रस्य श्रीत्रिपुरघ्न ऋषिः अनुष्टुप् छन्दः त्रिजगन्मय रूपिणी भगवती श्रीकामकलाकाली देवता क्लीं बीजं स्फ्रों शक्तिः हूं कीलकं क्ष्रौं तत्त्वं श्रीकामकलाकाली सहस्रनामस्तोत्र पाठे विनियोगः ।
ओं क्लीं कामकलाकाली कालरात्रिः कपालिनी ।
कात्यायनी च कल्याणी कालाकारा करालिनी ॥ १५ ॥
उग्रमूर्तिर्महाभीमा घोररावा भयङ्करा ।
भूतिदा भयहन्त्री च भवबन्धविमोचिनी ॥ १६ ॥
भव्या भवानी भोगाढ्या भुजङ्गपतिभूषणा ।
महामाया जगद्धात्री पावनी परमेश्वरी ॥ १७ ॥
योगमाता योगगम्या योगिनी योगिपूजिता ।
गौरी दुर्गा कालिका च महाकल्पान्तनर्तकी ॥ १८ ॥
अव्यया जगदादिश्च विधात्री कालमर्दिनी ।
नित्या वरेण्या विमला देवाराध्यामितप्रभा ॥ १९ ॥
भारुण्डा कोटरी शुद्धा चञ्चला चारुहासिनी ।
अग्राह्यातीन्द्रियाऽगोत्रा चर्चरोर्ध्वशिरोरुहा ॥ २० ॥
कामुकी कमनीया च श्रीकण्ठमहिषी शिवा ।
मनोहरा माननीया मतिदा मणिभूषणा ॥ २१ ॥