श्री कालिका कीलक स्तोत्रम्
अस्य श्री कालिका कीलकस्य सदाशिव ऋषिः अनुष्टुप् छन्दः श्री दक्षिणकालिका देवता सर्वार्थसिद्धिसाधने कीलकन्यासे जपे विनियोगः ।
अथातः सम्प्रवक्ष्यामि कीलकं सर्वकामदम् ।
कालिकायाः परं तत्त्वं सत्यं सत्यं त्रिभिर्ममः ॥ १ ॥
दुर्वासाश्च वशिष्ठश्च दत्तात्रेयो बृहस्पतिः ।
सुरेशो धनदश्चैव अङ्गिराश्च भृगूद्वाहः ॥ २ ॥
च्यवनः कार्तवीर्यश्च कश्यपोऽथ प्रजापतिः ।
कीलकस्य प्रसादेन सर्वैश्वर्यमवाप्नुयुः ॥ ३ ॥
ओङ्कारं तु शिखाप्रान्ते लम्बिका स्थान उत्तमे ।
सहस्रारे पङ्कजे तु क्रीं क्रीं क्रीं वाग्विलासिनी ॥ ४ ॥
कूर्चबीजयुगं भाले नाभौ लज्जायुगं प्रिये ।
दक्षिणे कालिके पातु स्वनासापुटयुग्मके ॥ ५ ॥
हूङ्कारद्वन्द्वं गण्डे द्वे द्वेमाये श्रवणद्वये ।
आद्यातृतीयं विन्यस्य उत्तराधर सम् पुटे ॥ ६ ॥
स्वाहा दशनमध्ये तु सर्ववर्णन्न्यसेत् क्रमात् ।
मुण्डमाला असिकरा काली सर्वार्थसिद्धिदा ॥ ७ ॥
चतुरक्षरी महाविद्या क्रीं क्रीं हृदय पङ्कजे ।
ओं हूं ह्रीं क्रीं ततो हूं फट् स्वाहा च कण्ठकूपके ॥ ८ ॥
अष्टाक्षरी कालिकाया नाभौ विन्यस्य पार्वति ।
क्रीं दक्षिणे कालिके क्रीं स्वाहान्ते च दशाक्षरी ॥ ९ ॥
मम बाहुयुगे तिष्ठ मम कुण्डलिकुण्डले ।
हूं ह्रीं मे वह्निजाया च हूं विद्या तिष्ठ पृष्ठके ॥ १० ॥
क्रीं हूं ह्रीं वक्षदेशे च दक्षिणे कालिके सदा ।
क्रीं हूं ह्रीं वह्निजायाऽन्ते चतुर्दशाक्षरेश्वरी ॥ ११ ॥
क्रीं तिष्ठ गुह्यदेशे मे एकाक्षरी च कालिका ।
ह्रीं हूं फट् च महाकाली मूलाधारनिवासिनी ॥ १२ ॥
सर्वरोमाणि मे काली कराङ्गुल्यङ्कपालिनी ।
कुल्ला कटिं कुरुकुल्ला तिष्ठ तिष्ठ सदा मम ॥ १३ ॥
विरोधिनी जानुयुग्मे विप्रचित्ता पदद्वये ।