Skip to main content
पडताळणी प्रलंबित

श्री गणेश प्रातः स्मरणम्

प्रातः स्मरामि गणनाथमनाथबन्धुं

सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।

उद्दण्डविघ्नपरिखण्डनचण्डदण्डं

आखण्डलादिसुरनायकबृन्दवन्द्यम् ॥ १ ॥

प्रातर्नमामि चतुराननवन्द्यमानं

इच्छानुकूलमखिलं च वरं ददानम् ।

तं तुन्दिलं द्विरसनाधिप यज्ञसूत्रं

पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २ ॥

प्रातर्भजाम्यभयदं खलु भक्तशोक-

-दावानलं गणविभुं वरकुञ्जरास्यम् ।

अज्ञानकाननविनाशनहव्यवाहं

उत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३ ॥

श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् ।

प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४ ॥

इति श्री गणेश प्रातःस्मरण स्तोत्रम् ।

ganesha pratah smarana stotram