Skip to main content
पडताळणी प्रलंबित

श्री वाग्देवी स्तवः

वादे शक्तिप्रदात्री प्रणतजनततेः सन्ततं सत्सभायां

प्रश्नानां दुस्तराणामपि लघु सुसमाधानमाश्वेव वक्तुम् ।

वागीशाद्यैः सुराग्र्यैर्विविधफलकृते सन्ततं पूज्यमाना

वाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥ १ ॥

व्याख्यामुद्राक्षमालाकलशसुलिखितै राजदम्भोजपाणिः

काव्यालङ्कारमुख्येष्वपि निशितधियं सर्वशास्त्रेषु तूर्णम् ।

मूकेभ्योऽप्यार्द्रचित्ता दिशति करुणया या जवात्सा कृपाब्धि-

-र्वाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥ २ ॥

जाड्यध्वान्तार्कपङ्क्तिस्तनुजितरजनीकान्तगर्वागमानां

शीर्षैः संस्तूयमाना मुनिवरनिकरैः सन्ततं भक्तिनम्रैः ।

कारुण्यापारवारांनिधिरगतनयासिन्धुकन्याभिवाद्या

वाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥ ३ ॥

इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितः श्री वाग्देवी स्तवः ॥

sri vagdevi stava