Skip to main content
पडताळणी प्रलंबित

अभिलाषाष्टकम्

एकं ब्रह्मैवऽऽद्वितीयं समस्तं

सत्यं सत्यं नेह नानास्ति किञ्चित् ।

एको रुद्रो न द्वितीयोव तस्थे

तस्मादेकं त्वां प्रपद्ये महेशं ॥ १ ॥

कर्ता हर्ता त्वं हि सर्वस्य शम्भो

नाना रूपेषु एकरूपोपि अरूपः ।

यद्वत् प्रत्यक् धर्म एकोऽपि अनेकः

तस्मात् नान्यं त्वां विनेशं प्रपद्ये ॥ २ ॥

रज्जौ सर्पः शुक्तिकायां च रौप्यं

नीरैः पूरः तन्मृगाख्ये मरीचौ ।

यद्वत् तद्वत् विष्वक् एषः प्रपञ्चः

यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ॥ ३ ॥

तोये शैत्यं दाहकत्वं च वह्नौ

तापो भानौ शीत भानौ प्रसादः ।

पुष्पे गन्धः दुग्ध मध्येऽपि सर्पिः

यत्तत् शम्भो त्वं ततः त्वां प्रपद्ये ॥ ४ ॥

शब्दं गृह्णासि अश्रवाः त्वं हि जिघ्रेः

अग्राणः त्वं व्यङ्घ्रिः आयासि दूरात् ।

व्यक्षः पश्येः त्वं रसज्ञोऽपि अजिह्वः

कः त्वां सम्यक् वेत्ति अतः त्वां प्रपद्ये ॥ ५ ॥

नो वेद त्वां ईश साक्षात् विवेद

नो वा विष्णुः नो विधाताऽखिलस्य ।

नो योगीन्द्राः नेन्द्र मुख्याश्च देवाः

भक्तो वेदत्वां अतस्त्वां प्रपद्ये ॥ ६ ॥

नो ते गोत्रं नेश जन्मापि नाख्या

नो वा रूपं नैव शीलं न तेजः ।

इत्थं भूतोपि ईश्वरः त्वं त्रिलोक्याः

सर्वान् कामान् पूरयेः तत् भजे त्वाम् ॥ ७ ॥

त्वत्तः सर्वं त्वं हि सर्वं स्मरारे

त्वं गौरीशः त्वं च नग्नः अतिशान्तः ।

त्वं वै वृद्धः त्वं युवा त्वं च बालः

तत्वं यत्किं नासि अतः त्वां नतोऽहम् ॥ ८ ॥

abhilashaashtakam in hindi