Skip to main content
पडताळणी प्रलंबित

श्री विनायक अष्टोत्तरशतनाम स्तोत्रम्

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।

स्कन्दाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १ ॥

अग्निगर्वच्छिदिन्द्रश्रीप्रदो वाणीप्रदायकः ।

सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥ २ ॥

सर्वात्मकः सृष्टिकर्ता देवानीकार्चितः शिवः ।

सिद्धिबुद्धिप्रदः शान्तो ब्रह्मचारी गजाननः ॥ ३ ॥

द्वैमातुरो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।

एकदन्तश्चतुर्बाहुश्चतुरः शक्तिसम्युतः ॥ ४ ॥

लम्बोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः ।

काव्यो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५ ॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।

अकल्मषः स्वयं सिद्धः सिद्धार्चितपदाम्बुजः ॥ ६ ॥

बीजापूरफलासक्तो वरदः शाश्वतः कृती ।

द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७ ॥

श्रीदोऽज उत्पलकरः श्रीपतिस्तुतिहर्षितः ।

कुलाद्रिभेत्ता जटिलश्चन्द्रचूडोऽमरेश्वरः ॥ ८ ॥

नागयज्ञोपवीती च कलिकल्मषनाशनः ।

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः ॥ ९ ॥

स्थूलतुण्डोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ।

दूर्वाबिल्वप्रियः कान्तः पापहारी समाहितः ॥ १० ॥

आश्रितश्रीकरः सौम्यो भक्तवाञ्छितदायकः ।

शान्तोऽच्युतार्च्यः कैवल्यो सच्चिदानन्दविग्रहः ॥ ११ ॥

ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ।

प्रमत्तदैत्यभयदो व्यक्तमूर्तिरमूर्तिमान् ॥ १२ ॥

शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ।

स्वलावण्यसुधासारजितमन्मथविग्रहः ॥ १३ ॥

समस्तजगदाधारो मायी मूषकवाहनः ।

रमार्चितो विधिश्चैव श्रीकण्ठो विबुधेश्वरः ॥ १४ ॥

चिन्तामणिद्वीपपतिः परमात्मा गजाननः ।

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥ १५ ॥

अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ।

यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ १६ ॥

दूर्वादलैः बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।

सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥ १७ ॥

इति भविष्योत्तरपुराणे विनायकाष्टोत्तरशतनाम स्तोत्रम् ।

sri ganesa ashtottara satanama stotram in hindi