Skip to main content
पडताळणी प्रलंबित

श्री दुर्गा स्तोत्रम् (महादेव कृतम्)

महादेव उवाच ।

रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि ।

मां भक्तमनुरक्तं च शत्रुग्रस्तं कृपामयि ॥ १ ॥

विष्णुमाये महाभागे नारायणि सनातनि ।

ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणी ॥ २ ॥

त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके ।

त्वं साकारे च गुणतो निराकारे च निर्गुणात् ॥ ३ ॥

मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् ।

तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि ॥ ४ ॥

वेदानां जननी त्वं च सावित्री च परात्परा ।

वैकुण्ठे च महालक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥ ५ ॥

मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिनः ।

स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले ॥ ६ ॥

नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता ।

सर्वसस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी ॥ ७ ॥

रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती ।

प्राणानामधिदेवी त्वं कृष्णस्य परमात्मनः ॥ ८ ॥

गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि ।

गोलोकाधिष्ठिता देवी वृन्दा वृन्दावने वने ॥ ९ ॥

श्रीरासमण्डले रम्या वृन्दावनविनोदिनी ।

शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति च ॥ १० ॥

दक्षकन्या कुत्रकल्पे कुत्रकल्पे च शैलजा ।

देवमाताऽदितिस्त्वं च सर्वाधारा वसुन्धरा ॥ ११ ॥

त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती ।

त्वदंशांशांशकलया सर्वदेवादियोषितः ॥ १२ ॥

स्त्रीरूपं चापि पुरुषं देवि त्वं च नपुंसकम् ।

वृक्षाणां वृक्षरूपा त्वं सृष्टा चाङ्कुररूपिणी ॥ १३ ॥

वह्नौ च दाहिका शक्तिर्जले शैत्यस्वरूपिणी ।

सूर्ये तेजःस्वरूपा च प्रभारूपा च सन्ततम् ॥ १४ ॥

गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी ।

शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम् ॥ १५ ॥

सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका ।

महामारी च संहारे जले च जलरूपिणी ॥ १६ ॥

क्षुत् त्वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी ।

तुष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धास्त्वं च क्षमा स्वयम् ॥ १७ ॥

शान्तिस्त्वं च स्वयं भ्रान्तिः कान्तिस्त्वं कीर्तिरेव च ।

लज्जा त्वं च तथा माया भुक्तिमुक्तिस्वरूपिणी ॥ १८ ॥

सर्वशक्तिस्वरूपा त्वं सर्वसम्पत्प्रदायिनी ।

वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन ॥ १९ ॥

सहस्रवक्त्रस्त्वां स्तोतुं न शक्तः सुरेश्वरि ।

वेदा न शक्ताः को विद्वान् न च शक्ता सरस्वती ॥ २० ॥

स्वयं विधाता शक्तो न न च विष्णुः सनातनः ।

किं स्तौमि पञ्चवक्त्रैस्तु रणत्रस्तो महेश्वरि ।

कृपां कुरु महामाये मम शत्रुक्षयं कुरु ॥ २१ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारदनारायणसंवादे अष्टाशीतितमोऽध्याये महादेव कृत श्री दुर्गा स्तोत्रम् ।

mahadeva kruta durga stotram