Skip to main content
पडताळणी प्रलंबित

अर्धनारीश्वराष्टकम्

अम्भोधरश्यामलकुन्तलायै

तटित्प्रभाताम्रजटाधराय ।

निरीश्वरायै निखिलेश्वराय

नमः शिवायै च नमः शिवाय ॥ १ ॥

प्रदीप्तरत्नोज्ज्वलकुण्डलायै

स्फुरन्महापन्नगभूषणाय ।

शिवप्रियायै च शिवप्रियाय

नमः शिवायै च नमः शिवाय ॥ २ ॥

मन्दारमालाकलितालकायै

कपालमालाङ्कितकन्धराय ।

दिव्याम्बरायै च दिगम्बराय

नमः शिवायै च नमः शिवाय ॥ ३ ॥

कस्तूरिकाकुङ्कुमलेपनायै

श्मशानभस्माङ्गविलेपनाय ।

कृतस्मरायै विकृतस्मराय

नमः शिवायै च नमः शिवाय ॥ ४ ॥

पादारविन्दार्पितहंसकायै

पादाब्जराजत्फणिनूपुराय ।

कलामयायै विकलामयाय

नमः शिवायै च नमः शिवाय ॥ ५ ॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै

समस्तसंहारकताण्डवाय ।

समेक्षणायै विषमेक्षणाय

नमः शिवायै च नमः शिवाय ॥ ६ ॥

प्रफुल्लनीलोत्पललोचनायै

विकासपङ्केरुहलोचनाय ।

जगज्जनन्यै जगदेकपित्रे

नमः शिवायै च नमः शिवाय ॥ ७ ॥

अन्तर्बहिश्चोर्ध्वमधश्च मध्ये

पुरश्च पश्चाच्च विदिक्षु दिक्षु ।

सर्वं गतायै सकलं गताय

नमः शिवायै च नमः शिवाय ॥ ८ ॥

उपमन्युकृतं स्तोत्रमर्धनारीश्वराह्वयम् ।

यः पठेच्छृणुयाद्वापि शिवलोके महीयते ॥ ९ ॥

इति श्रीउपमन्युविरचितं अर्धनारीश्वराष्टकम् ॥

ardhanarishvara ashtakam