Skip to main content
पडताळणी प्रलंबित

श्री त्रिपुरसुन्दरी मानसपूजा स्तोत्रम्

मम न भजनशक्तिः पादयोस्ते न भक्ति-

-र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः ।

इति मनसि सदाहं चिन्तयन्नाद्यशक्ते

रुचिरवचनपुष्पैरर्चनं सञ्चिनोमि ॥ १ ॥

व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः

पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।

आरक्तामृतसिन्धुमुद्धुरचलद्विचीचयव्याकुल-

-व्योमानं परिचिन्त्य सन्ततमहो चेतः कृतार्थीभव ॥ २ ॥

तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं

कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः ।

उच्चैःशृङ्गनिषण्णदिव्यवनिताबृन्दाननप्रोल्लस-

-द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥ ३ ॥

जातीचम्पकपाटलादिसुमनःसौरभ्यसम्भावितं

ह्रीङ्कारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् ।

आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं

चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥ ४ ॥

परिपतितपरागैः पाटलक्षोणिभागो

विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः ।

अलिशुकपिकराजीकूजितैः श्रोत्रहारी

स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५ ॥

रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ

स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते ।

क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद

प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६ ॥

उद्यत्कान्तिकलापकल्पितनभःस्फूर्जद्वितानप्रभः

सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।

सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं

सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥ ७ ॥

क्वापि प्रोद्भटपद्मरागकिरणव्रातेन सन्ध्यायितं

कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् ।

मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-

-न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥ ८ ॥

उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-

-न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया ।

नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-

-र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥

मणिसदनसमुद्यत्कान्तिधारानुरक्ते

वियति चरमसन्ध्याशङ्किनो भानुरथ्याः ।

शिथिलितगतकुप्यत्सूतहुङ्कारनादैः

कथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥ १० ॥

भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना

किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।

आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते

शम्भौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥ ११ ॥

विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै-

-र्निबद्धहस्तसम्पुटैः प्रयत्नसम्यतेन्द्रियैः ।

विरिञ्चिविष्णुशङ्करादिभिर्मुदा तवाम्बिके

प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥ १२ ॥

ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः

प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः ।

प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो

मुदे ममास्तु सन्ततं त्वदीयरत्नमण्डपः ॥ १३ ॥

प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै-

-र्बहिःस्थितामरावलीविधीयमानभक्तिभिः ।

विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः

सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥

सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-

-र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः ।

असङ्ख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो

मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥ १५ ॥

इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा-

-न्योषिद्रूपधरान्स्वदिक्षु निहितान्सञ्चिन्त्य हृत्पङ्कजे ।

शङ्खे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर-

-न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥ १६ ॥

गायन्तीः कलवीणयातिमधुरं हुङ्कारमातन्वती-

-र्द्वाराभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन् ।

द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां

मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥

कस्तूरिकाश्यामलकोमलाङ्गीं

कादम्बरीपानमदालसाङ्गीम् ।

वामस्तनालिङ्गितरत्नवीणां

मातङ्गकन्यां मनसा स्मरामि ॥ १८ ॥

विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे

मदाकुलितलोचने विमलभूषणोद्भासिनि ।

तिरस्करिणि तावकं चरणपङ्कजं चिन्तय-

-न्करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम् ॥ १९ ॥

प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः

प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः ।

उपोढकज्जलच्छविच्छटाविराजिविग्रहाः

कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः ॥ २० ॥

स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरः स्थापितै-

-र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना ।

स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया

युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१ ॥

आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं

दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् ।

धूपोद्गारिसुगन्धिसम्भ्रममिलद्भृङ्गावलीगुञ्जितं

कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥ २२ ॥

कनकरचिते पञ्चप्रेतासनेन विराजिते

मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे ।

कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे

हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥ २३ ॥

सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां

जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् ।

सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा

सम्पश्यन्परदेवतां परमहो मन्ये कृतार्थं जनुः ॥ २४ ॥

उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते

भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।

नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां

प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥ २५ ॥

पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः

सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय ।

तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं

साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थी कुरु ॥ २६ ॥

मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे

देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् ।

सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोञ्छनं

द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥ २७ ॥

निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना-

-लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् ।

महेशि करुणानिधे तव दृगन्तपातोत्सुका-

-न्विलोकय मनागमूनुभयसंस्थितान्दैवतान् ॥ २८ ॥

हेमरत्नवरणेन वेष्टितं

विस्तृतारुणवितानशोभितम् ।

सज्जसर्वपरिचारिकाजनं

पश्य मज्जनगृहं मनो मम ॥ २९ ॥

कनककलशजालस्फाटिकस्नानपीठा-

-द्युपकरणविशालं गन्धमत्तालिमालम् ।

स्फुरदरुणवितानं मञ्जुगन्धर्वगानं

परमशिवमहेले मज्जनागारमेहि ॥ ३० ॥

पीनोत्तुङ्गपयोधराः परिलसत्सम्पूर्णचन्द्रानना

रत्नस्वर्णविनिर्मिताः परिलसत्सूक्ष्माम्बरप्रावृताः ।

हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं

तैलं कङ्कतिकं करेषु दधतीर्वन्देऽम्ब ते दासिकाः ॥ ३१ ॥

तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालङ्कृति-

-र्नीचैरुज्झितकञ्चुकोपरिहितारक्तोत्तरीयाम्बरा ।

वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना-

-क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥ ३२ ॥

अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन सम्पादितं

काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय ।

गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते

नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ॥ ३३ ॥

कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या

मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः ।

सुरभिसलिलनिर्यद्गन्धलुब्धालिमालाः

सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥ ३४ ॥

उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा

स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि ।

पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः

स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु ॥ ३५ ॥

प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण सम्प्रोञ्छनं

कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितम् ।

आलीबृन्दविनिर्मितां यवनिकामास्थाप्य रत्नप्रभं

भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् ॥ ३६ ॥

पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके

सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम् ।

मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभास्वरं

नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥ ३७ ॥

विलुलितचिकुरेण च्छादितांसप्रदेशे

मणिनिकरविराजत्पादुकान्यस्तपादे ।

सुललितमवलम्ब्य द्राक्सखीमंसदेशे

गिरिशगृहिणि भूषामण्टपाय प्रयाहि ॥ ३८ ॥

लसत्कनककुट्‍टिमस्फुरदमन्दमुक्तावली-

-समुल्लसितकान्तिभिः कलितशक्रचापव्रजे ।

महाभरणमण्डपे निहितहेमसिंहासनं

सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥ ३९ ॥

स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं

सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम् ।

मुक्ताभिर्ग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं

प्रान्ते मौक्तिकगुच्छकोपलतिकां ग्रथ्नामि वेणीमिमाम् ॥ ४० ॥

विलम्बिवेणीभुजगोत्तमाङ्ग-

-स्फुरन्मणिभ्रान्तिमुपानयन्तम् ।

स्वरोचिषोल्लासितकेशपाशं

महेशि चूडामणिमर्पयामि ॥ ४१ ॥

त्वामाश्रयद्भिः कबरीतमिस्रै-

-र्बन्दीकृतं द्रागिव भानुबिम्बम् ।

मृडानि चूडामणिमादधानं

वन्दामहे तावकमुत्तमाङ्गम् ॥ ४२ ॥

स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं

विलम्बिमौक्तिकच्छटाविराजितं समन्ततः ।

निबद्धलक्षचक्षुषा भवेन भूरि भावितं

समर्पयामि भास्वरं भवानि फालभूषणम् ॥ ४३ ॥

मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके

कुर्वाणे किल कामवैरिमनसः कन्दर्पबाणप्रभाम् ।

माध्वीपानमदारुणेऽतिचपले दीर्घे दृगम्भोरुहे

देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ॥ ४४ ॥

मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां

दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् ।

उत्सिक्ताधरबिम्बकान्तिविसरैर्भौमीभवन्मौक्तिकां

मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥ ४५ ॥

उडुकृतपरिवेषस्पर्धया शीतभानो-

-रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् ।

अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं

श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥ ४६ ॥

मरकतवरपद्मरागहीरो-

-त्थितगुलिकात्रितयावनद्धमध्यम् ।

विततविमलमौक्तिकं च

कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७ ॥

नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल-

-व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालङ्कृताम् ।

मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल-

-व्रातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय ॥ ४८ ॥

अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः

कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी ।

मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै-

-र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥ ४९ ॥

करसरसिजनाले विस्फुरत्कान्तिजाले

विलसदमलशोभे चञ्चदीशाक्षिलोभे ।

विविधमणिमयूखोद्भासितं देवि दुर्गे

कनककटकयुग्मं बाहुयुग्मे निधेहि ॥ ५० ॥

व्यालम्बमानसितपट्‍टकगुच्छशोभि

स्फूर्जन्मणीघटितहारविरोचमानम् ।

मातर्महेशमहिले तव बाहुमूले

केयूरकद्वयमिदं विनिवेशयामि ॥ ५१ ॥

विततनिजमयूखैर्निर्मितामिन्द्रनीलै-

-र्विजितकमलनालालीनमत्तालिमालाम् ।

मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां

कलय वलयराजीं हस्तमूले महेशि ॥ ५२ ॥

नीलपट्‍टमृदुगुच्छशोभिता-

-बद्धनैकमणिजालमञ्जुलाम् ।

अर्पयामि वलयात्पुरःसरे

विस्फुरत्कनकतैतृपालिकाम् ॥ ५३ ॥

आलवालमिव पुष्पधन्वना

बालविद्रुमलतासु निर्मितम् ।

अङ्गुलीषु विनिधीयतां शनै-

-रङ्गुलीयकमिदं मदर्पितम् ॥ ५४ ॥

विजितहरमनोभूमत्तमातङ्गकुम्भ-

-स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् ।

अविरतकलनदैरीशचेतो हरन्तीं

विविधमणिनिबद्धां मेखलामर्पयामि ॥ ५५ ॥

व्यालम्बमानवरमौक्तिकगुच्छशोभि

विभ्राजिहाटकपुटद्वयरोचमानम् ।

हेम्ना विनिर्मितमनेकमणिप्रबन्धं

नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६ ॥

विनिहतनवलाक्षापङ्कबालातपौघे

मरकतमणिराजीमञ्जुमञ्जीरघोषे ।

अरुणमणिसमुद्यत्कान्तिधाराविचित्र-

-स्तव चरणसरोजे हंसकः प्रीतिमेतु ॥ ५७ ॥

निबद्धशितिपट्‍टकप्रवरगुच्छसंशोभितां

कलक्वणितमञ्जुलां गिरिशचित्तसंमोहनीम् ।

अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां

निधेहि पदपङ्कजे कनकघुङ्घुरूमम्बिके ॥ ५८ ॥

विस्फुरत्सहजरागरञ्जिते

शिञ्जितेन कलितां सखीजनैः ।

पद्मरागमणिनूपुरद्वयी-

-मर्पयामि तव पादपङ्कजे ॥ ५९ ॥

पदाम्बुजमुपासितुं परिगतेन शीतांशुना

कृतां तनुपरम्परामिव दिनान्तरागारुणाम् ।

महेशि नवयावकद्रवभरेण शोणीकृतां

नमामि नखमण्डलीं चरणपङ्कजस्थां तव ॥ ६० ॥

आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्‍टसूत्रै-

-र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्यधूपैः ।

उद्यद्गन्धान्धपुष्पन्धयनिवहसमारब्धझाङ्कारगीतां

चञ्चत्कह्लारमालां परशिवरसिके कण्ठपीठेऽर्पयामि ॥ ६१ ॥

गृहाण परमामृतं कनकपात्रसंस्थापितं

समर्पय मुखाम्बुजे विमलवीटिकामम्बिके ।

विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले

निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ॥ ६२ ॥

आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता

कूजन्मन्दमरालमञ्जुलगतिप्रोल्लासिभूषाम्बरा ।

आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा

मच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम् ॥ ६३ ॥

चलन्त्यामम्बायां प्रचलति समस्ते परिजने

सवेगं सम्याते कनकलतिकालङ्कृतिभरे ।

समन्तादुत्तालस्फुरितपदसम्पातजनितै-

-र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् ॥ ६४ ॥

चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो-

-यान्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते ।

रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं

वन्दे नन्दितशम्भु निर्मलचिदानन्दैकरूपं महः ॥ ६५ ॥

वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः

शम्भुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय ।

इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती

दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम ॥ ६६ ॥

मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठया

नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् ।

वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै-

-र्दित्सन्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया ॥ ६७ ॥

अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता

आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे ।

संमर्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः

कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥ ६८ ॥

अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै-

-रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः ।

कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्याङ्गना

गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः ॥ ६९ ॥

कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा-

-देकस्मै भवनिःस्पृहाय परमानन्दस्वरूपां गतिम् ।

अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं

द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम् ॥ ७० ॥

नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने

मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये ।

नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं

व्याचक्षाणमुदग्रकान्ति कलये यत्किञ्चिदाद्यं महः ॥ ७१ ॥

तव दहनसदृक्षैरीक्षणैरेव चक्षु-

-र्निखिलपशुजनानां भीषयद्भीषणास्यम् ।

कृतवसति परेशप्रेयसि द्वारि नित्यं

शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि ॥ ७२ ॥

कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां

रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् ।

कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं

श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम् ॥ ७३ ॥

स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं

नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् ।

चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं

नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् ॥ ७४ ॥

वदद्भिरभितो मुदा जय जयेति बृन्दारकैः

कृताञ्जलिपरम्परा विदधति कृतार्था दृशा ।

अमन्दमणिमण्डलीखचितहेमसिंहासनं

सखीजनसमावृतं समधितिष्ठ दाक्षायणि ॥ ७५ ॥

कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकं

ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् ।

विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित-

-स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥ ७६ ॥

त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः

स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् ।

मुहुरपि च विधूते चामरग्राहिणीभिः

सितकरकरशुभ्रे चामरे चालयामि ॥ ७७ ॥

प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं

चञ्चन्महामणिविचित्रितहेमदण्डम् ।

उद्यत्सहस्रकरमण्डलचारु हेम-

-च्छत्रं महेशमहिले विनिवेशयामि ॥ ७८ ॥

उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा-

-शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि ।

दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर-

-व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥ ७९ ॥

सन्तुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां

पुष्पौघैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा ।

स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः

श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥ ८० ॥

आधारशक्त्यादिकमाकलय्य

मध्ये समस्ताधिकयोगिनीं च ।

मित्रेशनाथादिकमत्र नाथ-

-चतुष्टयं शैलसुते नतोऽस्मि ॥ ८१ ॥

त्रिपुरासुधार्णवासन-

-मारभ्य त्रिपुरमालिनी यावत् ।

आवरणाष्टकसंस्थित-

-मासनषट्कं नमामि परमेशि ॥ ८२ ॥

ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं

वायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितम् ।

नैरृत्ये महिषासुरप्रमथिनीं दुर्गां च सम्पूजय-

-न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥ ८३ ॥

उड्यानजालन्धरकामरूप-

-पीठानिमान्पूर्णगिरिप्रसक्तान् ।

त्रिकोणदक्षाग्रिमसव्यभाग-

-मध्यस्थितान्सिद्धिकरान्नमामि ॥ ८४ ॥

लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु-

-स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः ।

आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता-

-नेतांश्चक्रबहिःस्थितान्सुरगणान्वन्दामहे सादरम् ॥ ८५ ॥

तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं

त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् ।

रत्नालङ्कृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं

नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे ॥ ८६ ॥

हृदि भावितदैवतं प्रयत्ना-

-भ्युपदेशानुगृहीतभक्तसङ्घम् ।

स्वगुरुक्रमसञ्ज्ञचक्रराज-

-स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना ॥ ८७ ॥

हृदयमथ शिरः शिखाखिलाद्ये

कवचमथो नयनत्रयं च देवि ।

मुनिजनपरिचिन्तितं तथास्त्रं

स्फुरतु सदा हृदये षडङ्गमेतत् ॥ ८८ ॥

त्रैलोक्यमोहनमिति प्रथिते तु चक्रे

चञ्चद्विभूषणगणत्रिपुराधिवासे ।

रेखात्रये स्थितवतीरणिमादिसिद्धी-

-र्मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥ ८९ ॥

सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते

विस्फूर्जन्त्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः ।

कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा

योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः ॥ ९० ॥

महेशि वसुभिर्दलैर्लसति सर्वसङ्क्षोभणे

विभूषणगणस्फुरन्त्रिपुरसुन्दरीसद्मनि ।

अनङ्गकुसुमादयो विविधभूषणोद्भासिता

दिशन्तु मम काङ्क्षितं तनुतराश्च गुप्ताभिधाः ॥ ९१ ॥

लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे

शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे ।

स्थिता दधतु मङ्गलं सुभगसर्वसङ्क्षोभिणी-

-मुखाः सकलसिद्धयो विदितसम्प्रदायाभिधाः ॥ ९२ ॥

बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः ।

कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥ ९३ ॥

अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे

मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः ।

नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं

सर्वज्ञादिकशक्तिबृन्दमनिशं वन्दे निगर्भाभिधम् ॥ ९४ ॥

सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते ।

रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ॥ ९५ ॥

चूताशोकविकासिकेतकरजःप्रोद्भासिनीलाम्बुज-

-प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् ।

रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशं

वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥ ९६ ॥

त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे

युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी ।

तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी

करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७ ॥

सर्वानन्दमये समस्तजगतामाकाङ्क्षिते बैन्दवे

भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी ।

आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा

विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी ॥ ९८ ॥

उल्लसत्कनककान्तिभासुरं

सौरभस्फुरणवासिताम्बरम् ।

दूरतः परिहृतं मधुव्रतै-

-रर्पयामि तव देवि चम्पकम् ॥ ९९ ॥

वैरमुद्धतमपास्य शम्भुना

मस्तके विनिहितं कलाच्छलात् ।

गन्धलुब्धमधुपाश्रितं सदा

केतकीकुसुममर्पयामि ते ॥ १०० ॥

चूर्णीकृतं द्रागिव पद्मजेन

त्वदाननस्पर्धिसुधांशुबिम्बम् ।

समर्पयामि स्फुटमञ्जलिस्थं

विकासिजातीकुसुमोत्करं ते ॥ १०१ ॥

अगरुबहलधूपाजस्रसौरभ्यरम्यां

मरकतमणिराजीराजिहारिस्रगाभाम् ।

दिशि विदिशि विसर्पद्गन्धलुब्धालिमालां

वकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ॥

ईङ्कारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ

त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दं च रेखात्मकम् ।

इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-

-न्नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः ॥ १०३ ॥

धूपं तेऽगरुसम्भवं भगवति प्रोल्लासिगन्धोद्धुरं

दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् ।

रजस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं

नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥ १०४ ॥

जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं

शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतातथा सूपकाः ।

प्राज्यं माहिषमाज्यमुत्तममिदं हैयङ्गवीनं पृथ-

-क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥ १०५ ॥

शिम्बीसूरणशाकबिम्बबृहतीकूश्माण्डकोशातकी-

-वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना ।

सम्पन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता-

-न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे ॥ १०६ ॥

निम्बूकार्द्रकचूतकन्दकदलीकौशातकीकर्कटी-

-धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे ।

राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये

सन्धानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ॥ १०७ ॥

सितयाञ्चितलड्डुकव्रजा-

-न्मृदुपूपान्मृदुलाश्च पूरिकाः ।

परमान्नमिदं च पार्वति

प्रणयेन प्रतिपादयामि ते ॥ १०८ ॥

दुग्धमेतदनले सुसाधितं

चन्द्रमण्डलनिभं तथा दधि ।

फाणितं शिखरिणीं सितासितां

सर्वमम्ब विनिवेदयामि ते ॥ १०९ ॥

अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं

ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः ।

देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं

शक्तिभ्यः समुपाहारामि सकलं देवेशि शम्भुप्रिये ॥ ११० ॥

वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णां दधाना-

-मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तीम् ।

सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गीं

तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि ॥ १११ ॥

पङ्क्त्योपविष्टान्परितस्तु चक्रं

शक्त्या स्वयालिङ्गितवामभागान् ।

सर्वोपचारैः परिपूज्य भक्त्या

तवाम्बिके पारिषदान्नमामि ॥ ११२ ॥

परमामृतमत्तसुन्दरी-

-गणमध्यस्थितमर्कभासुरम् ।

परमामृतघूर्णितेक्षणं

किमपि ज्योतिरुपास्महे परम् ॥ ११३ ॥

दृश्यते तव मुखाम्बुजं शिवे

श्रूयते स्फुटमनाहतध्वनिः ।

अर्चने तव गिरामगोचरे

न प्रयाति विषयान्तरं मनः ॥ ११४ ॥

त्वन्मुखाम्बुजविलोकनोल्लस-

-त्प्रेमनिश्चलविलोचनद्वयीम् ।

उन्मनीमुपगतां सभामिमां

भावयामि परमेशि तावकीम् ॥ ११५ ॥

श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्शं समालम्बताम् ।

जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते

नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु ॥ ११६ ॥

यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं

मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् ।

यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो

यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥ ११७ ॥

गणाधिनाथं वटुकं च योगिनीः

क्षेत्राधिनाथं च विदिक्चतुष्टये ।

सर्वोपचारैः परिपूज्य भक्तितो

निवेदयामो बलिमुक्तयुक्तिभिः ॥ ११८ ॥

वीणामुपान्ते खलु वादयन्त्यै

निवेद्य शेषं खलु शेषिकायै ।

सौवर्णभृङ्गारविनिर्गतेन

जलेन शुद्धाचमनं विधेहि ॥ ११९ ॥

ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका-

-जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् ।

स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै-

-र्दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम् ॥ १२० ॥

काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी

रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव ।

कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं

नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति दृश्यन्ति च ॥ १२१ ॥

ताम्बूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै-

-श्चक्रस्थैः शक्तिसङ्घैः परिहृतविषयासङ्गमाकर्ण्यमानम् ।

गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि-

-र्वीणाझङ्कारनादं कलय परशिवानन्दसन्धानहेतोः ॥ १२२ ॥

अर्चाविधौ ज्ञानलवोऽपि दूरे

दूरे तदापादकवस्तुजातम् ।

प्रदक्षिणीकृत्य ततोऽर्चनं ते

पञ्चोपचारात्मकमर्पयामि ॥ १२३ ॥

यथेप्सितमनोगतप्रकटितोपचारार्चितां

निजावरणदेवतागणवृतां सुरेशस्थिताम् ।

कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै-

-र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२४ ॥

विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं

प्राप्तं मामिह कान्दिशीकमधुना मातर्न दूरीकुरु ।

चित्तं त्वत्पदभावने व्यभिचरेद्दृग्वाक्च मे जातु चे-

-त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥ १२५ ॥

क्वाहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतं

ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् ।

कादाचित्कमदीयचिन्तनविधौ सन्तुष्टया शर्मदं

स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥ १२६ ॥

नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया ।

निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ १२७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ त्रिपुरसुन्दरी मानसपूजा स्तोत्रम् ।

tripurasundari manasa puja stotram