Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम्

ऋषय ऊचुः ।

सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।

वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥ १ ॥

ज्ञानदानेन संसारसागरात्तारयस्व नः ।

कलौ कलुषचित्ता ये नराः पापरताः सदा ॥ २ ॥

केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनात् ।

इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥ ३ ॥

सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ।

श्रीसूत उवाच ।

शृणुध्वं ऋषयः सर्वे नैमिशारण्यवासिनः ॥ ४ ॥

तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः ।

स्वयम्भुवा पुरा प्रोक्तं नारदाय महात्मने ॥ ५ ॥

तदहं सम्प्रवक्ष्यामि श्रोतुं कौतूहलं यदि ।

ऋषय ऊचुः ।

किमाह भगवान्ब्रह्मा नारदाय महात्मने ॥ ६ ॥

सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् ।

श्रीसूत उवाच ।

दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् ॥ ७ ॥

साष्टाङ्गं प्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् ।

नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः ॥ ८ ॥

नारद उवाच ।

लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर ।

षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् ॥ ९ ॥

हे धातः पुत्रवात्सल्यात्तद्वद प्रणताय मे ।

उपदिश्य तु मामेवं रक्ष रक्ष कृपानिधे ॥ १० ॥

ब्रह्मोवाच ।

शृणु वक्ष्यामि देवर्षे स्तवराजमिदं परम् ।

मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥ ११ ॥

सहस्राणि च नामानि षण्मुखस्य महात्मनः ।

यानि नामानि दिव्यानि दुःखरोगहराणि च ॥ १२ ॥

तानि नामानि वक्ष्यामि कृपया त्वयि नारद ।

जपमात्रेण सिद्ध्यन्ति मनसा चिन्तितान्यपि ॥ १३ ॥

इहामुत्र परं भोगं लभते नात्र संशयः ।

इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् ।

सन्देहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ॥ १४ ॥

ओं अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः सुब्रह्मण्यो देवता शरजन्माक्षय इति बीजं शक्तिधरोऽक्षय कार्तिकेय इति शक्तिः क्रौञ्चधर इति कीलकं शिखिवाहन इति कवचं षण्मुखाय इति ध्यानम् श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः –

ओं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अङ्गुष्ठाभ्यां नमः ।

ओं रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः ।

ओं वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।

ओं णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः ।

ओं भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः ।

ओं वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –

ओं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः ।

ओं रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा ।

ओं वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् ।

ओं णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् ।

ओं भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् ।

ओं वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।

ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं

बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ।

कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं

काञ्चीकङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम् ॥ १ ॥

ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं

खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ।

वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं

देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ २ ॥

स्तोत्रम् ।

अचिन्त्यशक्तिरनघस्त्वक्षोभ्यस्त्वपराजितः ।

अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः ॥ १ ॥

अत्युदारो ह्यघहरस्त्वग्रगण्योऽद्रिजासुतः ।

अनन्तमहिमाऽपारोऽनन्तसौख्यप्रदोऽव्ययः ॥ २ ॥

अनन्तमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः ।

अकल्मषोऽभिरामोऽग्रधुर्यश्चामितविक्रमः ॥ ३ ॥

[* अतुलश्चामृतोऽघोरो ह्यनन्तोऽनन्तविक्रमः *]

अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ।

अरिन्दमोऽखिलाधारस्त्वणिमादिगुणोऽग्रणीः ॥ ४ ॥

अचञ्चलोऽमरस्तुत्यो ह्यकलङ्कोऽमिताशनः ।

अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः ॥ ५ ॥

अतीन्द्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ।

आपद्विनाशकस्त्वार्य आढ्य आगमसंस्तुतः ॥ ६ ॥

आर्तसंरक्षणस्त्वाद्य आनन्दस्त्वार्यसेवितः ।

आश्रितेष्टार्थवरद आनन्द्यार्तफलप्रदः ॥ ७ ॥

आश्चर्यरूप आनन्द आपन्नार्तिविनाशनः ।

इभवक्त्रानुजस्त्विष्ट इभासुरहरात्मजः ॥ ८ ॥

इतिहासश्रुतिस्तुत्य इन्द्रभोगफलप्रदः ।

इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ॥ ९ ॥

इहामुत्रेष्टफलद इष्टदस्त्विन्द्रवन्दितः ।

ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः ॥ १० ॥

ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः ।

उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः ॥ ११ ॥

उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ।

उज्जृम्भ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः ॥ १२ ॥

उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः ।

उरुप्रभावश्चोदीर्ण उमापुत्र उदारधीः ॥ १३ ॥

ऊर्ध्वरेतःसुतस्तूर्ध्वगतिदस्तूर्जपालकः ।

ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः ॥ १४ ॥

ऊर्जावानूर्जितोदार ऊर्जितोर्जितशासनः ।

ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः ॥ १५ ॥

ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शनः ।

ऋतम्भरो ह्यृजुप्रीत ऋषभस्त्वृद्धिदस्त्वृतः ॥ १६ ॥

लुलितोद्धारको लूतभवपाशप्रभञ्जनः ।

एणाङ्कधरसत्पुत्र एक एनोविनाशनः ॥ १७ ॥

ऐश्वर्यदश्चैन्द्रभोगी चैतिह्यश्चैन्द्रवन्दितः ।

ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥ १८ ॥

औदार्यशील औमेय औग्र औन्नत्यदायकः ।

औदार्य औषधकर औषधं चौषधाकरः ॥ १९ ॥

अंशुमानंशुमालीड्य अम्बिकातनयोऽन्नदः ।

अन्धकारिसुतोऽन्धत्वहारी चाम्बुजलोचनः ॥ २० ॥

अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः ।

अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः ॥ २१ ॥

कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः ।

कामदः कारणं काम्यः कमनीयः कृपाकरः ॥ २२ ॥

काञ्चनाभः कान्तियुक्तः कामी कामप्रदः कविः ।

कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः ॥ २३ ॥

कुङ्कुमाङ्गः क्लमहरः कुशलः कुक्कुटध्वजः ।

कुशानुसम्भवः क्रूरः क्रूरघ्नः कलितापहृत् ॥ २४ ॥

कामरूपः कल्पतरुः कान्तः कामितदायकः ।

कल्याणकृत्क्लेशनाशः कृपालुः करुणाकरः ॥ २५ ॥

कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृती ।

कोमलाङ्गः कुशप्रीतः कुत्सितघ्नः कलाधरः ॥ २६ ॥

ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः ।

ख्यातिप्रदः खेचरेशः ख्यातेहः खेचरस्तुतः ॥ २७ ॥

खरतापहरः स्वस्थः खेचरः खेचराश्रयः ।

खण्डेन्दुमौलितनयः खेलः खेचरपालकः ॥ २८ ॥

खस्थलः खण्डितार्कश्च खेचरीजनपूजितः ।

गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥ २९ ॥

गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः ।

गतिप्रदो गुणनिधिः गम्भीरो गिरिजात्मजः ॥ ३० ॥

गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः ।

गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः ॥ ३१ ॥

गुह्यो गुणज्ञो गीतिज्ञो गतातङ्को गुणाश्रयः ।

गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः ॥ ३२ ॥

गणनीयचरित्रश्च गतक्लेशो गुणार्णवः ।

घूर्णिताक्षो घृणिनिधिः घनगम्भीरघोषणः ॥ ३३ ॥

घण्टानादप्रियो घोषो घोराघौघविनाशनः ।

घनानन्दो घर्महन्ता घृणावान् घृष्टिपातकः ॥ ३४ ॥

घृणी घृणाकरो घोरो घोरदैत्यप्रहारकः ।

घटितैश्वर्यसन्दोहो घनार्थो घनसङ्क्रमः ॥ ३५ ॥

चित्रकृच्चित्रवर्णश्च चञ्चलश्चपलद्युतिः ।

चिन्मयश्चित्स्वरूपश्च चिरानन्दश्चिरन्तनः ॥ ३६ ॥

चित्रकेलिश्चित्रतरश्चिन्तनीयश्चमत्कृतिः ।

चोरघ्नश्चतुरश्चारुश्चामीकरविभूषणः ॥ ३७ ॥

चन्द्रार्ककोटिसदृशश्चन्द्रमौलितनूभवः ।

छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः ॥ ३८ ॥

छेदीकृततमःक्लेशश्छत्रीकृतमहायशाः ।

छादिताशेषसन्तापश्छुरितामृतसागरः ॥ ३९ ॥

छन्नत्रैगुण्यरूपश्च छातेहश्छिन्नसंशयः ।

छन्दोमयश्छन्दगामी छिन्नपाशश्छविश्छदः ॥ ४० ॥

जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः ।

जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥ ४१ ॥

जयी जितेन्द्रियो जैत्रो जरामरणवर्जितः ।

ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥ ४२ ॥

जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः ।

जम्भारिवन्द्यो जयदो जगज्जनमनोहरः ॥ ४३ ॥

जगदानन्दजनको जनजाड्यापहारकः ।

जपाकुसुमसङ्काशो जनलोचनशोभनः ॥ ४४ ॥

जनेश्वरो जितक्रोधो जनजन्मनिबर्हणः ।

जयदो जन्तुतापघ्नो जितदैत्यमहाव्रजः ॥ ४५ ॥

जितमायो जितक्रोधो जितसङ्गो जनप्रियः ।

झञ्झानिलमहावेगो झरिताशेषपातकः ॥ ४६ ॥

झर्झरीकृतदैत्यौघो झल्लरीवाद्यसम्प्रियः ।

ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥ ४७ ॥

टङ्कारनृत्तविभवः टङ्कवज्रध्वजाङ्कितः ।

टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ ४८ ॥

डम्बरप्रभवो डम्भो डम्बो डमरुकप्रियः । [डमड्ड]

डमरोत्कटसन्नादो डिम्भरूपस्वरूपकः ॥ ४९ ॥

ढक्कानादप्रीतिकरो ढालितासुरसङ्कुलः ।

ढौकितामरसन्दोहो ढुण्ढिविघ्नेश्वरानुजः ॥ ५० ॥

तत्त्वज्ञस्तत्वगस्तीव्रस्तपोरूपस्तपोमयः ।

त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ५१ ॥

त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः ।

तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् ॥ ५२ ॥

स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तुतिप्रियः ।

स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ ५३ ॥

स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ।

दान्तो दयापरो दाता दुरितघ्नो दुरासदः ॥ ५४ ॥

दर्शनीयो दयासारो देवदेवो दयानिधिः ।

दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ॥ ५५ ॥

दुर्धरो दानशीलश्च द्वादशाक्षो द्विषड्भुजः ।

द्विषट्कर्णो द्विषड्बाहुर्दीनसन्तापनाशनः ॥ ५६ ॥

दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः ।

दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः ॥ ५७ ॥

दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः ।

दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमण्डनः ॥ ५८ ॥

दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशां पतिः ।

दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः ॥ ५९ ॥

दम्भो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिन्तकः ।

धुरन्धरो धर्मपरो धनदो धृतिवर्धनः ॥ ६० ॥

धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ।

धनाध्यक्षो धनपतिर्धृतिमान्धूतकिल्बिषः ॥ ६१ ॥

धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद्ध्रुवः ।

धाता धीमान्धर्मचारी धन्यो धुर्यो धृतव्रतः ॥ ६२ ॥

नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः ।

निरवद्यो निराधारो निष्कलङ्को निरञ्जनः ॥ ६३ ॥

निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः ।

नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥ ६४ ॥

निरवद्यो निरीहश्च निर्दर्शो निर्मलात्मकः ।

नित्यानन्दो निर्जरेशो निःसङ्गो निगमस्तुतः ॥ ६५ ॥

निष्कण्टको निरालम्बो निष्प्रत्यूहो निरुद्भवः ।

नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥ ६६ ॥

नेता निधिर्नैकरूपो निराकारो नदीसुतः ।

पुलिन्दकन्यारमणः पुरुजित्परमप्रियः ॥ ६७ ॥

प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ।

पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः ॥ ६८ ॥

पुण्योदयः परं ज्योतिः पुण्यकृत्पुण्यवर्धनः ।

परानन्दः परतरः पुण्यकीर्तिः पुरातनः ॥ ६९ ॥

प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः ।

प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः ॥ ७० ॥

पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ।

प्रसन्नः परमस्पष्टः परः परिबृढः परः ॥ ७१ ॥

परमात्मा परब्रह्म परार्थः प्रियदर्शनः ।

पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः ॥ ७२ ॥

पापहारी पाशधरः प्रमत्तासुरशिक्षकः ।

पावनः पावकः पूज्यः पूर्णानन्दः परात्परः ॥ ७३ ॥

पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः ।

प्राणदः प्राणिजनकः प्रदिष्टः पावकोद्भवः ॥ ७४ ॥

परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् ।

परर्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् ॥ ७५ ॥

प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ।

फणीश्वरः फणिवरः फणामणिविभूषणः ॥ ७६ ॥

फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः ।

फडुच्चाटितपापौघः फणिलोकविभूषणः ॥ ७७ ॥

बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बली ।

ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः ॥ ७८ ॥

बालरूपो ब्रह्मगर्भो ब्रह्मचारी बुधप्रियः ।

बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ७९ ॥

बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।

बृहद्भानुतनूद्भूतो बृहत्सेनो बिलेशयः ॥ ८० ॥

बहुबाहुर्बलश्रीमान् बहुदैत्यविनाशकः ।

बिलद्वारान्तरालस्थो बृहच्छक्तिधनुर्धरः ॥ ८१ ॥

बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः ।

भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥ ८२ ॥

भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः ।

भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः ॥ ८३ ॥

भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः ।

भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ॥ ८४ ॥

भावको भीकरो भीष्मो भावकेष्टो भवोद्भवः ।

भवतापप्रशमनो भोगवान् भूतभावनः ॥ ८५ ॥

भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः ।

भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ॥ ८६ ॥

महासेनो महोदारो महाशक्तिर्महाद्युतिः ।

महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ॥ ८७ ॥

महाभोगी महामायी मेधावी मेखली महान् ।

मुनिस्तुतो महामान्यो महानन्दो महायशाः ॥ ८८ ॥

महोर्जितो माननिधिर्मनोरथफलप्रदः ।

महोदयो महापुण्यो महाबलपराक्रमः ॥ ८९ ॥

मानदो मतिदो माली मुक्तामालाविभूषणः ।

मनोहरो महामुख्यो महर्धिर्मूर्तिमान्मुनिः ॥ ९० ॥

महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः ।

मुदाकरो मुक्तिदाता महाभोगो महोरगः ॥ ९१ ॥

यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः ।

यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ॥ ९२ ॥

यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ।

यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रवाहकः ॥ ९३ ॥

यातनारहितो योगी योगीशो योगिनां वरः ।

रमणीयो रम्यरूपो रसज्ञो रसभावनः ॥ ९४ ॥

रञ्जनो रञ्जितो रागी रुचिरो रुद्रसम्भवः ।

रणप्रियो रणोदारो रागद्वेषविनाशनः ॥ ९५ ॥

रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः ।

रत्नाङ्गदधरो रत्नभूषणो रमणीयकः ॥ ९६ ॥

रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः ।

राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥ ९७ ॥

राजद्वेदागमस्तुत्यो रजःसत्त्वगुणान्वितः ।

रजनीशकलारम्यो रत्नकुण्डलमण्डितः ॥ ९८ ॥

रत्नसन्मौलिशोभाढ्यो रणन्मञ्जीरभूषणः ।

लोकैकनाथो लोकेशो ललितो लोकनायकः ॥ ९९ ॥

लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ।

लोकबन्धुर्लोकधाता लोकत्रयमहाहितः ॥ १०० ॥

लोकचूडामणिर्लोकवन्द्यो लावण्यविग्रहः ।

लोकाध्यक्षस्तु लीलावान्लोकोत्तरगुणान्वितः ॥ १०१ ॥

वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः ।

विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः ॥ १०२ ॥

विपाशो विगतातङ्को विचित्राङ्गो विरोचनः ।

विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥ १०३ ॥

वचस्करो व्यापकश्च विज्ञानी विनयान्वितः ।

विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् ॥ १०४ ॥

वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः ।

विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥ १०५ ॥

वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् ।

विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥ १०६ ॥

वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वरासनः ।

विशाखो विमलो वाग्मी विद्वान्वेदधरो वटुः ॥ १०७ ॥

वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः ।

विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥ १०८ ॥

वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी ।

वरशीलो वरगुणो विशोको वज्रधारकः ॥ १०९ ॥

शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः ।

श्रीमान् शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः ॥ ११० ॥

शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः ।

शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः ॥ १११ ॥

शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः ।

षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसम्युतः ॥ ११२ ॥

षट्चक्रस्थः षडूर्मिघ्नः षडङ्गश्रुतिपारगः ।

षड्भावरहितः षट्कः षट्छास्त्रस्मृतिपारगः ॥ ११३ ॥

षड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः ।

षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः ॥ ११४ ॥

षट्कोणमध्यनिलयः षण्डत्वपरिहारकः ।

सेनानीः सुभगः स्कन्दः सुरानन्दः सतां गतिः ॥ ११५ ॥

सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी ।

सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः ॥ ११६ ॥

सिद्धार्थः सिद्धसङ्कल्पः सिद्धसाधुः सुरेश्वरः ।

सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः ॥ ११७ ॥

सुधापतिः स्वयञ्ज्योतिः स्वयम्भूः सर्वतोमुखः ।

समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥ ११८ ॥

सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः ।

सम्भाव्यः सुमनाः सेव्यः सकलागमपारगः ॥ ११९ ॥

सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ।

सर्वलक्षणसम्पन्नः सत्यधर्मपरायणः ॥ १२० ॥

सर्वदेवमयः सत्यः सदा मृष्टान्नदायकः ।

सुधापी सुमतिः सत्यः सर्वविघ्नविनाशनः ॥ १२१ ॥

सर्वदुःखप्रशमनः सुकुमारः सुलोचनः ।

सुग्रीवः सुधृतिः सारः सुराराध्यः सुविक्रमः ॥ १२२ ॥

सुरारिघ्नः स्वर्णवर्णः सर्पराजः सदा शुचिः ।

सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः ॥ १२३ ॥

हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः ।

हस्तचित्रायुधधरो हृताघो हसिताननः ॥ १२४ ॥

हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः ।

हेमाद्रिभिद्धंसरूपो हुङ्कारहतकिल्बिषः ॥ १२५ ॥

हिमाद्रिजातातनुजो हरिकेशो हिरण्मयः ।

हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ १२६ ॥

हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।

हरप्रियो हितकरो हतपापो हरोद्भवः ॥ १२७ ॥

क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ।

क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः ॥ १२८ ॥

क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।

क्षालिताघः क्षितिधरः क्षीणसंरक्षणक्षमः ॥ १२९ ॥

क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकः ।

क्षितिभृन्नाथतनयामुखपङ्कजभास्करः ॥ १३० ॥

क्षताहितः क्षरः क्षन्ता क्षतदोषः क्षमानिधिः ।

क्षपिताखिलसन्तापः क्षपानाथसमाननः ॥ १३१ ॥

उत्तर न्यासः ।

करन्यासः –

ओं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अङ्गुष्ठाभ्यां नमः ।

ओं रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः ।

ओं वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।

ओं णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः ।

ओं भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः ।

ओं वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –

ओं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः ।

ओं रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा ।

ओं वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् ।

ओं णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् ।

ओं भं कन्दर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् ।

ओं वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्विमोकः ।

फलश्रुति ।

इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।

यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ १ ॥

स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ।

आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥ २ ॥

वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति ।

तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥ ३ ॥

इति स्कन्दपुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम् ।

sri subrahmanya sahasranama stotram