Skip to main content
पडताळणी प्रलंबित

श्री लक्ष्मी सहस्रनाम स्तोत्रम्

नाम्नां साष्टसहस्रं च ब्रूहि गार्ग्य महामते ।

महालक्ष्म्या महादेव्याः भुक्तिमुक्त्यर्थसिद्धये ॥ १ ॥

गार्ग्य उवाच ।

सनत्कुमारमासीनं द्वादशादित्यसन्निभम् ।

अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥ २ ॥

सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै ।

भुक्तिमुक्तिप्रदं जप्यमनुब्रूहि दयानिधे ॥ ३ ॥

सनत्कुमार भगवन् सर्वज्ञोऽसि विशेषतः ।

आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम् ॥ ४ ॥

खिद्यन्ति मानवाः सर्वे धनाभावेन केवलम् ।

सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः ॥ ५ ॥

दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता ।

केन वा ब्रह्मविद्याऽपि केन मृत्युविनाशिनी ॥ ६ ॥

सर्वासां सारभूतैका विद्यानां केन कीर्तिता ।

प्रत्यक्षसिद्धिदा ब्रह्मन् तामाचक्ष्व दयानिधे ॥ ७ ॥

सनत्कुमार उवाच ।

साधु पृष्टं महाभागाः सर्वलोकहितैषिणः ।

महतामेष धर्मश्च नान्येषामिति मे मतिः ॥ ८ ॥

ब्रह्मविष्णुमहादेवमहेन्द्रादिमहात्मभिः ।

सम्प्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकम् ॥ ९ ॥

यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः ।

किं पुनस्तज्जपाज्जापी सर्वेष्टार्थानवाप्नुयात् ॥ १० ॥

अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्र महामन्त्रस्य आनन्दकर्दमचिक्लीतेन्दिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छन्दः विष्णुमाया शक्तिः महालक्ष्मीः परा देवता श्रीमहालक्ष्मी प्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः । श्रीमित्यादि षडङ्गन्यासः ।

ध्यानम् ।

पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीम् ।

पद्मवक्त्रां पद्महस्तां वन्दे पद्मामहर्निशम् ॥ १ ॥

पूर्णेन्दुवदनां दिव्यरत्नाभरणभूषिताम् ।

वरदाभयहस्ताढ्यां ध्यायेच्चन्द्रसहोदरीम् ॥ २ ॥

इच्छारूपां भगवतः सच्चिदानन्दरूपिणीम् ।

सर्वज्ञां सर्वजननीं विष्णुवक्षःस्थलालयाम् ।

दयालुमनिशं ध्यायेत्सुखसिद्धिस्वरूपिणीम् ॥ ३ ॥

स्तोत्रम् –

ओं नित्यागताऽनन्तनित्या नन्दिनी जनरञ्जनी ।

नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी ॥ १ ॥

महालक्ष्मीर्महाकाली महाकन्या सरस्वती ।

भोगवैभवसन्धात्री भक्तानुग्रहकारिणी ॥ २ ॥

ईशावास्या महामाया महादेवी महेश्वरी ।

हृल्लेखा परमा शक्तिर्मातृकाबीजरूपिणी ॥ ३ ॥

नित्यानन्दा नित्यबोधा नादिनी जनमोदिनी ।

सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी ॥ ४ ॥

त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा ।

वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना ॥ ५ ॥

भद्रकाली कराली च महाकाली तिलोत्तमा ।

काली करालवक्त्रान्ता कामाक्षी कामदा शुभा ॥ ६ ॥

चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी ।

त्रैलोक्यजयिनी देवी त्रैलोक्यविजयोत्तमा ॥ ७ ॥

सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी ।

उमा भगवती दुर्गा चान्द्री दाक्षायणी शिवा ॥ ८ ॥

प्रत्यङ्गिरा धरा वेला लोकमाता हरिप्रिया ।

पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ९ ॥

अरूपा बहुरूपा च विरूपा विश्वरूपिणी ।

पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा ॥ १० ॥

काली मा पञ्चिका वाग्मी हविःप्रत्यधिदेवता ।

देवमाता सुरेशाना देवगर्भाऽम्बिका धृतिः ॥ ११ ॥

सङ्ख्या जातिः क्रियाशक्तिः प्रकृतिर्मोहिनी मही ।

यज्ञविद्या महाविद्या गुह्यविद्या विभावरी ॥ १२ ॥

ज्योतिष्मती महामाता सर्वमन्त्रफलप्रदा ।

दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी ॥ १३ ॥

सहस्रादित्यसङ्काशा चन्द्रिका चन्द्ररूपिणी ।

गायत्री सोमसम्भूतिः सावित्री प्रणवात्मिका ॥ १४ ॥

शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता ।

सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी ॥ १५ ॥

जया च विजया चैव जयन्ती चाऽपराजिता ।

कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी ॥ १६ ॥

सर्वज्ञशक्तिः श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका ।

इडापिङ्गलिकामध्यमृणालीतन्तुरूपिणी ॥ १७ ॥

यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी ।

अष्टाङ्गयोगिनी देवी निर्बीजध्यानगोचरा ॥ १८ ॥

सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी ।

वेदशास्त्रप्रभा देवी षडङ्गादिपदक्रमा ॥ १९ ॥ [प्रमा]

शिवा धात्री शुभानन्दा यज्ञकर्मस्वरूपिणी ।

व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी ॥ २० ॥

एकाक्षरपरा तारा भवबन्धविनाशिनी ।

विश्वम्भरा धराधारा निराधाराऽधिकस्वरा ॥ २१ ॥

राका कुहूरमावास्या पूर्णिमाऽनुमतिर्द्युतिः ।

सिनीवाली शिवाऽवश्या वैश्वदेवी पिशङ्गिला ॥ २२ ॥

पिप्पला च विशालाक्षी रक्षोघ्नी वृष्टिकारिणी ।

दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी ॥ २३ ॥

शारदा शरसन्धाना सर्वशस्त्रस्वरूपिणी ।

युद्धमध्यस्थिता देवी सर्वभूतप्रभञ्जनी ॥ २४ ॥

अयुद्धा युद्धरूपा च शान्ता शान्तिस्वरूपिणी ।

गङ्गा सरस्वतीवेणीयमुनानर्मदापगा ॥ २५ ॥

समुद्रवसनावासा ब्रह्माण्डश्रेणिमेखला ।

पञ्चवक्त्रा दशभुजा शुद्धस्फटिकसन्निभा ॥ २६ ॥

रक्ता कृष्णा सिता पीता सर्ववर्णा निरीश्वरी ।

कालिका चक्रिका देवी सत्या तु वटुकास्थिता ॥ २७ ॥

तरुणी वारुणी नारी ज्येष्ठादेवी सुरेश्वरी ।

विश्वम्भराधरा कर्त्री गलार्गलविभञ्जनी ॥ २८ ॥

सन्ध्यारात्रिदिवाज्योत्स्ना कलाकाष्ठा निमेषिका ।

उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी ॥ २९ ॥

कपिला कीलिकाऽशोका मल्लिकानवमल्लिका ।

देविका नन्दिका शान्ता भञ्जिका भयभञ्जिका ॥ ३० ॥

कौशिकी वैदिकी देवी सौरी रूपाधिकाऽतिभा ।

दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा ॥ ३१ ॥

श्रीः सौम्यलक्षणाऽतीतदुर्गा सूत्रप्रबोधिका ।

श्रद्धा मेधा कृतिः प्रज्ञा धारणा कान्तिरेव च ॥ ३२ ॥

श्रुतिः स्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी ।

विरक्तिर्व्यापिनी माया सर्वमायाप्रभञ्जनी ॥ ३३ ॥

माहेन्द्री मन्त्रिणी सिंही चेन्द्रजालस्वरूपिणी ।

अवस्थात्रयनिर्मुक्ता गुणत्रयविवर्जिता ॥ ३४ ॥

ईषणात्रयनिर्मुक्ता सर्वरोगविवर्जिता ।

योगिध्यानान्तगम्या च योगध्यानपरायणा ॥ ३५ ॥

त्रयीशिखा विशेषज्ञा वेदान्तज्ञानरूपिणी ।

भारती कमला भाषा पद्मा पद्मवती कृतिः ॥ ३६ ॥

गौतमी गोमती गौरी ईशाना हंसवाहनी ।

नारायणी प्रभाधारा जाह्नवी शङ्करात्मजा ॥ ३७ ॥

चित्रघण्टा सुनन्दा श्रीर्मानवी मनुसम्भवा ।

स्तम्भिनी क्षोभिणी मारी भ्रामिणी शत्रुमारिणी ॥ ३८ ॥

मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी ।

रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी ॥ ३९ ॥

देवदुर्गा महादुर्गा स्वप्नदुर्गाऽष्टभैरवी ।

सूर्यचन्द्राग्निरूपा च ग्रहनक्षत्ररूपिणी ॥ ४० ॥

बिन्दुनादकलातीता बिन्दुनादकलात्मिका ।

दशवायुजयाकारा कलाषोडशसम्युता ॥ ४१ ॥

काश्यपी कमलादेवी नादचक्रनिवासिनी ।

मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी ॥ ४२ ॥

अविद्या शार्वरी भुञ्जा जम्भासुरनिबर्हिणी ।

श्रीकाया श्रीकला शुभ्रा कर्मनिर्मूलकारिणी ॥ ४३ ॥

आदिलक्ष्मीर्गुणाधारा पञ्चब्रह्मात्मिका परा ।

श्रुतिर्ब्रह्ममुखावासा सर्वसम्पत्तिरूपिणी ॥ ४४ ॥

मृतसञ्जीवनी मैत्री कामिनी कामवर्जिता ।

निर्वाणमार्गदा देवी हंसिनी काशिका क्षमा ॥ ४५ ॥

सपर्या गुणिनी भिन्ना निर्गुणा खण्डिताऽशुभा ।

स्वामिनी वेदिनी शक्या शाम्बरी चक्रधारिणी ॥ ४६ ॥

दण्डिनी मुण्डिनी व्याघ्री शिखिनी सोमसंहतिः ।

चिन्तामणिश्चिदानन्दा पञ्चबाणप्रबोधिनी ॥ ४७ ॥

बाणश्रेणिः सहस्राक्षी सहस्रभुजपादुका ।

सन्ध्यावलिस्त्रिसन्ध्याख्या ब्रह्माण्डमणिभूषणा ॥ ४८ ॥

वासवी वारुणीसेना कुलिका मन्त्ररञ्जनी ।

जितप्राणस्वरूपा च कान्ता काम्यवरप्रदा ॥ ४९ ॥

मन्त्रब्राह्मणविद्यार्था नादरूपा हविष्मती ।

आथर्वणिः श्रुतिः शून्या कल्पनावर्जिता सती ॥ ५० ॥

सत्ताजातिः प्रमाऽमेयाऽप्रमितिः प्राणदा गतिः ।

अवर्णा पञ्चवर्णा च सर्वदा भुवनेश्वरी ॥ ५१ ॥

त्रैलोक्यमोहिनी विद्या सर्वभर्त्री क्षराऽक्षरा ।

हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी ॥ ५२ ॥

कैवल्यपदवीरेखा सूर्यमण्डलसंस्थिता ।

सोममण्डलमध्यस्था वह्निमण्डलसंस्थिता ॥ ५३ ॥

वायुमण्डलमध्यस्था व्योममण्डलसंस्थिता ।

चक्रिका चक्रमध्यस्था चक्रमार्गप्रवर्तिनी ॥ ५४ ॥

कोकिलाकुलचक्रेशा पक्षतिः पङ्क्तिपावनी ।

सर्वसिद्धान्तमार्गस्था षड्वर्णावरवर्जिता ॥ ५५ ॥

शररुद्रहरा हन्त्री सर्वसंहारकारिणी ।

पुरुषा पौरुषी तुष्टिः सर्वतन्त्रप्रसूतिका ॥ ५६ ॥

अर्धनारीश्वरी देवी सर्वविद्याप्रदायिनी ।

भार्गवी याजुषीविद्या सर्वोपनिषदास्थिता ॥ ५७ ॥ [भूजुषीविद्या]

व्योमकेशाऽखिलप्राणा पञ्चकोशविलक्षणा ।

पञ्चकोशात्मिका प्रत्यक्पञ्चब्रह्मात्मिका शिवा ॥ ५८ ॥

जगज्जराजनित्री च पञ्चकर्मप्रसूतिका ।

वाग्देव्याभरणाकारा सर्वकाम्यस्थितास्थितिः ॥ ५९ ॥

अष्टादशचतुष्षष्टिपीठिका विद्ययायुता ।

कालिकाकर्षणश्यामा यक्षिणी किन्नरेश्वरी ॥ ६० ॥

केतकी मल्लिकाऽशोका वाराही धरणी ध्रुवा ।

नारसिंही महोग्रास्या भक्तानामार्तिनाशिनी ॥ ६१ ॥

अन्तर्बला स्थिरा लक्ष्मीर्जरामरणनाशिनी ।

श्रीरञ्जिता महाकाया सोमसूर्याग्निलोचना ॥ ६२ ॥

अदितिर्देवमाता च अष्टपुत्राऽष्टयोगिनी ।

अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः ॥ ६३ ॥

दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी ।

ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी ॥ ६४ ॥

शाकम्भरी महाशोणा गरुडोपरिसंस्थिता ।

सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा ॥ ६५ ॥

अकारादिक्षकारान्ता सर्वविद्याधिदेवता ।

मन्त्रव्याख्याननिपुणा ज्योतिःशास्त्रैकलोचना ॥ ६६ ॥

इडापिङ्गलिकामध्यसुषुम्णा ग्रन्थिभेदिनी ।

कालचक्राश्रयोपेता कालचक्रस्वरूपिणी ॥ ६७ ॥

वैशारदी मतिश्रेष्ठा वरिष्ठा सर्वदीपिका ।

वैनायकी वरारोहा श्रोणिवेला बहिर्वलिः ॥ ६८ ॥

जम्भिनी जृम्भिणी जृम्भकारिणी गणकारिका । [जम्भ]

शरणी चक्रिकाऽनन्ता सर्वव्याधिचिकित्सकी ॥ ६९ ॥

देवकी देवसङ्काशा वारिधिः करुणाकरा ।

शर्वरी सर्वसम्पन्ना सर्वपापप्रभञ्जिनी ॥ ७० ॥

एकमात्रा द्विमात्रा च त्रिमात्रा च तथा परा ।

अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्थार्थपराऽपरा ॥ ७१ ॥

एकवीरा विशेषाख्या षष्ठीदेवी मनस्विनी ।

नैष्कर्म्या निष्कलालोका ज्ञानकर्माधिका गुणा ॥ ७२ ॥

सबन्ध्वानन्दसन्दोहा व्योमाकाराऽनिरूपिता ।

गद्यपद्यात्मिका वाणी सर्वालङ्कारसम्युता ॥ ७३ ॥

साधुबन्धपदन्यासा सर्वौको घटिकावलिः ।

षट्कर्मा कर्कशाकारा सर्वकर्मविवर्जिता ॥ ७४ ॥

आदित्यवर्णा चापर्णा कामिनी वररूपिणी ।

ब्रह्माणी ब्रह्मसन्ताना वेदवागीश्वरी शिवा ॥ ७५ ॥

पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुता ।

सद्योवेदवती सर्वा हंसी विद्याधिदेवता ॥ ७६ ॥

विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी ।

वैदिकी वेदरूपा च कालिका कालरूपिणी ॥ ७७ ॥

नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी ।

हिरण्यवर्णरूपा च हिरण्यपदसम्भवा ॥ ७८ ॥

कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता ।

ब्रह्मसम्पत्तिरूपा च ब्रह्मसम्पत्तिकारिणी ॥ ७९ ॥

वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी ।

एकाक्षरपराऽऽयुक्ता सर्वदारिद्र्यभञ्जिनी ॥ ८० ॥

पाशाङ्कुशान्विता दिव्या वीणाव्याख्याक्षसूत्रभृत् ।

एकमूर्तिस्त्रयीमूर्तिर्मधुकैटभभञ्जिनी ॥ ८१ ॥

साङ्ख्या साङ्ख्यवती ज्वाला ज्वलन्ती कामरूपिणी ।

जाग्रन्ती सर्वसम्पत्तिः सुषुप्ता स्वेष्टदायिनी ॥ ८२ ॥

कपालिनी महादंष्ट्रा भ्रुकुटीकुटिलानना ।

सर्वावासा सुवासा च बृहत्यष्टिश्च शक्वरी ॥ ८३ ॥

छन्दोगणप्रतिष्ठा च कल्माषी करुणात्मिका ।

चक्षुष्मती महाघोषा खड्गचर्मधराऽशनिः ॥ ८४ ॥

शिल्पवैचित्र्यविद्योता सर्वतोभद्रवासिनी ।

अचिन्त्यलक्षणाकारा सूत्रभाष्यनिबन्धना ॥ ८५ ॥

सर्ववेदार्थसम्पत्तिः सर्वशास्त्रार्थमातृका ।

अकारादिक्षकारान्तसर्ववर्णकृतस्थला ॥ ८६ ॥

सर्वलक्ष्मीः सदानन्दा सारविद्या सदाशिवा ।

सर्वज्ञा सर्वशक्तिश्च खेचरीरूपगोच्छ्रिता ॥ ८७ ॥

अणिमादिगुणोपेता परा काष्ठा परा गतिः ।

हंसयुक्तविमानस्था हंसारूढा शशिप्रभा ॥ ८८ ॥

भवानी वासनाशक्तिराकृतिस्थाखिलाऽखिला ।

तन्त्रहेतुर्विचित्राङ्गी व्योमगङ्गाविनोदिनी ॥ ८९ ॥

वर्षा च वार्षिका चैव ऋग्यजुस्सामरूपिणी ।

महानदी नदीपुण्याऽगण्यपुण्यगुणक्रिया ॥ ९० ॥

समाधिगतलभ्यार्था श्रोतव्या स्वप्रिया घृणा ।

नामाक्षरपरा देवी उपसर्गनखाञ्चिता ॥ ९१ ॥

निपातोरुद्वयीजङ्घा मातृका मन्त्ररूपिणी ।

आसीना च शयाना च तिष्ठन्ती धावनाधिका ॥ ९२ ॥

लक्ष्यलक्षणयोगाढ्या ताद्रूप्यगणनाकृतिः ।

सैकरूपा नैकरूपा सेन्दुरूपा तदाकृतिः ॥ ९३ ॥

समासतद्धिताकारा विभक्तिवचनात्मिका ।

स्वाहाकारा स्वधाकारा श्रीपत्यर्धाङ्गनन्दिनी ॥ ९४ ॥

गम्भीरा गहना गुह्या योनिलिङ्गार्धधारिणी ।

शेषवासुकिसंसेव्या चपला वरवर्णिनी ॥ ९५ ॥

कारुण्याकारसम्पत्तिः कीलकृन्मन्त्रकीलिका ।

शक्तिबीजात्मिका सर्वमन्त्रेष्टाऽक्षयकामना ॥ ९६ ॥

आग्नेयी पार्थिवा आप्या वायव्या व्योमकेतना ।

सत्यज्ञानात्मिका नन्दा ब्राह्मी ब्रह्म सनातनी ॥ ९७ ॥

अविद्यावासना मायाप्रकृतिः सर्वमोहिनी ।

शक्तिर्धारणशक्तिश्च चिदचिच्छक्तियोगिनी ॥ ९८ ॥

वक्त्रारुणा महामाया मरीचिर्मदमर्दिनी ।

विराट् स्वाहा स्वधा शुद्धा निरुपास्तिः सुभक्तिगा ॥ ९९ ॥

निरूपिताद्वयी विद्या नित्यानित्यस्वरूपिणी ।

वैराजमार्गसञ्चारा सर्वसत्पथदर्शिनी ॥ १०० ॥

जालन्धरी मृडानी च भवानी भवभञ्जनी ।

त्रैकालिकज्ञानतन्तुस्त्रिकालज्ञानदायिनी ॥ १०१ ॥

नादातीता स्मृतिः प्रज्ञा धात्रीरूपा त्रिपुष्करा ।

पराजिता विधानज्ञा विशेषितगुणात्मिका ॥ १०२ ॥

हिरण्यकेशिनी हेमब्रह्मसूत्रविचक्षणा ।

असङ्ख्येयपरार्धान्तस्वरव्यञ्जनवैखरी ॥ १०३ ॥

मधुजिह्वा मधुमती मधुमासोदया मधुः ।

माधवी च महाभागा मेघगम्भीरनिस्वना ॥ १०४ ॥

ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगा ।

नाभौ वह्निशिखाकारा ललाटे चन्द्रसन्निभा ॥ १०५ ॥

भ्रूमध्ये भास्कराकारा सर्वताराकृतिर्हृदि ।

कृत्तिकादिभरण्यन्तनक्षत्रेष्ट्यर्चितोदया ॥ १०६ ॥

ग्रहविद्यात्मिका ज्योतिर्ज्योतिर्विन्मतिजीविका ।

ब्रह्माण्डगर्भिणी बाला सप्तावरणदेवता ॥ १०७ ॥

वैराजोत्तमसाम्राज्या कुमारकुशलोदया ।

बगला भ्रमराम्बा च शिवदूती शिवात्मिका ॥ १०८ ॥

मेरुविन्ध्यादिसंस्थाना काश्मीरपुरवासिनी ।

योगनिद्रा महानिद्रा विनिद्रा राक्षसाश्रिता ॥ १०९ ॥

सुवर्णदा महागङ्गा पञ्चाख्या पञ्चसंहतिः ।

सुप्रजाता सुवीरा च सुपोषा सुपतिः शिवा ॥ ११० ॥

सुगृहा रक्तबीजान्ता हतकन्दर्पजीविका ।

समुद्रव्योममध्यस्था समबिन्दुसमाश्रया ॥ १११ ॥

सौभाग्यरसजीवातुः सारासारविवेकदृक् ।

त्रिवल्यादिसुपुष्टाङ्गा भारती भरताश्रिता ॥ ११२ ॥

नादब्रह्ममयीविद्या ज्ञानब्रह्ममयीपरा ।

ब्रह्मनाडी निरुक्तिश्च ब्रह्मकैवल्यसाधनम् ॥ ११३ ॥

कालिकेयमहोदारवीर्यविक्रमरूपिणी ।

बडबाग्निशिखावक्त्रा महाकबलतर्पणा ॥ ११४ ॥

महाभूता महादर्पा महासारा महाक्रतुः ।

पञ्चभूतमहाग्रासा पञ्चभूताधिदेवता ॥ ११५ ॥

सर्वप्रमाणा सम्पत्तिः सर्वरोगप्रतिक्रिया ।

ब्रह्माण्डान्तर्बहिर्व्याप्ता विष्णुवक्षोविभूषिणी ॥ ११६ ॥

शाङ्करी विधिवक्त्रस्था प्रवरा वरहेतुकी ।

हेममाला शिखामाला त्रिशिखा पञ्चलोचना ॥ ११७ ॥ [पञ्चमोचना]

सर्वागमसदाचारमर्यादा यातुभञ्जनी ।

पुण्यश्लोकप्रबन्धाढ्या सर्वान्तर्यामिरूपिणी ॥ ११८ ॥

सामगानसमाराध्या श्रोत्रकर्णरसायनम् ।

जीवलोकैकजीवातुर्भद्रोदारविलोकना ॥ ११९ ॥

तटित्कोटिलसत्कान्तिस्तरुणी हरिसुन्दरी ।

मीननेत्रा च सेन्द्राक्षी विशालाक्षी सुमङ्गला ॥ १२० ॥

सर्वमङ्गलसम्पन्ना साक्षान्मङ्गलदेवता ।

देहहृद्दीपिका दीप्तिर्जिह्मपापप्रणाशिनी ॥ १२१ ॥

अर्धचन्द्रोल्लसद्दंष्ट्रा यज्ञवाटीविलासिनी ।

महादुर्गा महोत्साहा महादेवबलोदया ॥ १२२ ॥

डाकिनीड्या शाकिनीड्या साकिनीड्या समस्तजुट् ।

निरङ्कुशा नाकिवन्द्या षडाधाराधिदेवता ॥ १२३ ॥

भुवनज्ञानिनिःश्रेणी भुवनाकारवल्लरी ।

शाश्वती शाश्वताकारा लोकानुग्रहकारिणी ॥ १२४ ॥

सारसी मानसी हंसी हंसलोकप्रदायिनी ।

चिन्मुद्रालङ्कृतकरा कोटिसूर्यसमप्रभा ॥ १२५ ॥

सुखप्राणिशिरोरेखा सददृष्टप्रदायिनी ।

सर्वसाङ्कर्यदोषघ्नी ग्रहोपद्रवनाशिनी ॥ १२६ ॥

क्षुद्रजन्तुभयघ्नी च विषरोगादिभञ्जनी ।

सदाशान्ता सदाशुद्धा गृहच्छिद्रनिवारिणी ॥ १२७ ॥

कलिदोषप्रशमनी कोलाहलपुरस्थिता ।

गौरी लाक्षणिकी मुख्या जघन्याकृतिवर्जिता ॥ १२८ ॥

माया विद्या मूलभूता वासवी विष्णुचेतना ।

वादिनी वसुरूपा च वसुरत्नपरिच्छदा ॥ १२९ ॥

छान्दसी चन्द्रहृदया मन्त्रस्वच्छन्दभैरवी ।

वनमाला वैजयन्ती पञ्चदिव्यायुधात्मिका ॥ १३० ॥

पीताम्बरमयी चञ्चत्कौस्तुभा हरिकामिनी ।

नित्या तथ्या रमा रामा रमणी मृत्युभञ्जनी ॥ १३१ ॥

ज्येष्ठा काष्ठा धनिष्ठान्ता शराङ्गी निर्गुणप्रिया ।

मैत्रेया मित्रविन्दा च शेष्यशेषकलाशया ॥ १३२ ॥

वाराणसीवासरता चार्यावर्तजनस्तुता ।

जगदुत्पत्तिसंस्थानसंहारत्रयकारणम् ॥ १३३ ॥

त्वमम्ब विष्णुसर्वस्वं नमस्तेऽस्तु महेश्वरि ।

नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये ॥ १३४ ॥

सिद्धलक्ष्मीर्महाकालि महालक्ष्मि नमोऽस्तु ते ।

सद्योजातादिपञ्चाग्निरूपा पञ्चकपञ्चकम् ॥ १३५ ॥

यन्त्रलक्ष्मीर्भवत्यादिराद्याद्ये ते नमो नमः ।

सृष्ट्यादिकारणाकारवितते दोषवर्जिते ॥ १३६ ॥

जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नि नमोऽस्तु ते ।

नवकोटिमहाशक्तिसमुपास्यपदाम्बुजे ॥ १३७ ॥

कनत्सौवर्णरत्नाढ्ये सर्वाभरणभूषिते ।

अनन्तनित्यमहिषी प्रपञ्चेश्वरनायकि ॥ १३८ ॥

अत्युच्छ्रितपदान्तस्थे परमव्योमनायकि ।

नाकपृष्ठगताराध्ये विष्णुलोकविलासिनि ॥ १३९ ॥

वैकुण्ठराजमहिषि श्रीरङ्गनगराश्रिते ।

रङ्गनायकि भूपुत्रि कृष्णे वरदवल्लभे ॥ १४० ॥

कोटिब्रह्मादिसंसेव्ये कोटिरुद्रादिकीर्तिते ।

मातुलुङ्गमयं खेटं सौवर्णचषकं तथा ॥ १४१ ॥

पद्मद्वयं पूर्णकुम्भं कीरं च वरदाभये ।

पाशमङ्कुशकं शङ्खं चक्रं शूलं कृपाणिकाम् ॥ १४२ ॥

धनुर्बाणौ चाक्षमालां चिन्मुद्रामपि बिभ्रती ।

अष्टादशभुजे लक्ष्मीर्महाष्टादशपीठगे ॥ १४३ ॥

भूमिनीलादिसंसेव्ये स्वामिचित्तानुवर्तिनि ।

पद्मे पद्मालये पद्मि पूर्णकुम्भाभिषेचिते ॥ १४४ ॥

इन्दिरेन्दीवराभाक्षि क्षीरसागरकन्यके ।

भार्गवि त्वं स्वतन्त्रेच्छा वशीकृतजगत्पतिः ॥ १४५ ॥

मङ्गलं मङ्गलानां त्वं देवतानां च देवता ।

त्वमुत्तमोत्तमानां च त्वं श्रेयः परमामृतम् ॥ १४६ ॥

धनधान्याभिवृद्धिश्च सार्वभौमसुखोच्छ्रया ।

आन्दोलिकादिसौभाग्यं मत्तेभादिमहोदयः ॥ १४७ ॥

पुत्रपौत्राभिवृद्धिश्च विद्याभोगबलादिकम् ।

आयुरारोग्यसम्पत्तिरष्टैश्वर्यं त्वमेव हि ॥ १४८ ॥

परमेशविभूतिश्च सूक्ष्मात्सूक्ष्मतरा गतिः ।

सदयापाङ्गसन्दत्तब्रह्मेन्द्रादिपदस्थितिः ॥ १४९ ॥

अव्याहतमहाभाग्यं त्वमेवाक्षोभ्यविक्रमः ।

समन्वयश्च वेदानामविरोधस्त्वमेव हि ॥ १५० ॥

निःश्रेयसपदप्राप्तिसाधनं फलमेव च ।

श्रीमन्त्रराजराज्ञी च श्रीविद्या क्षेमकारिणी ॥ १५१ ॥

श्रीम्बीजजपसन्तुष्टा ऐं ह्रीं श्रीं बीजपालिका ।

प्रपत्तिमार्गसुलभा विष्णुप्रथमकिङ्करी ॥ १५२ ॥

क्लीङ्कारार्थसवित्री च सौमङ्गल्याधिदेवता ।

श्रीषोडशाक्षरीविद्या श्रीयन्त्रपुरवासिनी ॥ १५३ ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥ १५४ ॥

पुनः पुनर्नमस्तेऽस्तु साष्टाङ्गमयुतं पुनः ।

सनत्कुमार उवाच ।

एवं स्तुता महालक्ष्मीर्ब्रह्मरुद्रादिभिः सुरैः ।

नमद्भिरार्तैर्दीनैश्च निस्सत्वैर्भोगवर्जितैः ॥ १ ॥

ज्येष्ठाजुष्टैश्च निःश्रीकैः संसारात्स्वपरायणैः ।

विष्णुपत्नी ददौ तेषां दर्शनं दृष्टितर्पणम् ॥ २ ॥

शरत्पूर्णेन्दुकोट्याभधवलापाङ्गवीक्षणैः ।

सर्वान् सत्वसमाविष्टांश्चक्रे हृष्टा वरं ददौ ॥ ३ ॥

महालक्ष्मीरुवाच ।

नाम्नां साष्टसहस्रं मे प्रमादाद्वापि यः सकृत् ।

कीर्तयेत्तत्कुले सत्यं वसाम्याचन्द्रतारकम् ॥ ४ ॥

किं पुनर्नियमाज्जप्तुर्मदेकशरणस्य च ।

मातृवत्सानुकम्पाहं पोषकी स्यामहर्निशम् ॥ ५ ॥

मन्नाम स्तुवतां लोके दुर्लभं नास्ति चिन्तितम् ।

मत्प्रसादेन सर्वेऽपि स्वस्वेष्टार्थमवाप्स्यथ ॥ ६ ॥

लुप्तवैष्णवधर्मस्य मद्व्रतेष्ववकीर्णिनः ।

भक्तिप्रपत्तिहीनस्य वन्द्यो नाम्नां जपोऽपि मे ॥ ७ ॥

तस्मादवश्यं तैर्दोषैर्विहीनः पापवर्जितः ।

जपेत्साष्टसहस्रं मे नाम्नां प्रत्यहमादरात् ॥ ८ ॥

साक्षादलक्ष्मीपुत्रोऽपि दुर्भाग्योऽप्यलसोऽपि वा ।

अप्रयत्नोऽपि मूढोऽपि विकलः पतितोऽपि च ॥ ९ ॥

अवश्यं प्राप्नुयाद्भाग्यं मत्प्रसादेन केवलम् ।

स्पृहेयमचिराद्देवा वरदानाय जापिनः ।

ददामि सर्वमिष्टार्थं लक्ष्मीति स्मरतां ध्रुवम् ॥ १० ॥

सनत्कुमार उवाच ।

इत्युक्त्वान्तर्दधे लक्ष्मीर्वैष्णवी भगवत्कला ।

इष्टापूर्तं च सुकृतं भागधेयं च चिन्तितम् ॥ ११ ॥

स्वं स्वं स्थानं च भोगं च विजयं लेभिरे सुराः ।

तदेतद्प्रवदाम्यद्य लक्ष्मीनामसहस्रकम् ।

योगिनः पठत क्षिप्रं चिन्तितार्थानवाप्स्यथ ॥ १२ ॥

गार्ग्य उवाच ।

सनत्कुमारयोगीन्द्र इत्युक्त्वा स दयानिधिः ।

अनुगृह्य ययौ क्षिप्रं तांश्च द्वादशयोगिनः ॥ १३ ॥

तस्मादेतद्रहस्यं च गोप्यं जप्यं प्रयत्नतः ।

अष्टम्यां च चतुर्दश्यां नवम्यां भृगुवासरे ॥ १४ ॥

पौर्णमास्याममायां च पर्वकाले विशेषतः ।

जपेद्वा नित्यकार्येषु सर्वान्कामानवाप्नुयात् ॥ १५ ॥

इति श्रीस्कन्दपुराणे सनत्कुमारसंहितायां श्री लक्ष्मी सहस्रनाम स्तोत्रम् ॥

sri lakshmi sahasranama stotram