Skip to main content
पडताळणी प्रलंबित

श्री षण्मुख षट्पदी स्तवः

मयूराचलाग्रे सदारं वसन्तं

मुदारं ददानं नतेभ्यो वरांश्च ।

दधानं कराम्भोजमध्ये च शक्तिं

सदा षण्मुखं भावये हृत्सरोजे ॥ १ ॥

गिरीशास्यवाराशिपूर्णेन्दुबिम्बं

कुरङ्गाङ्कधिक्कारिवक्त्रारविन्दम् ।

सुरेन्द्रात्मजाचित्तपाथोजभानुं

सदा षण्मुखं भावये हृत्सरोजे ॥ २ ॥

नतानां हि राज्ञां गुणानां च षण्णां

कृपाभारतो यो द्रुतं बोधनाय ।

षडास्याम्बुजातान्यगृह्णात्परं तं

सदा षण्मुखं भावये हृत्सरोजे ॥ ३ ॥

पुरा तारकं यो विजित्याजिमध्ये

सुरान्दुःखमुक्तांश्चकाराशु मोदात् ।

तमानन्दकन्दं कृपावारिराशिं

सदा षण्मुखं भावये हृत्सरोजे ॥ ४ ॥

शराणां वने जातमेनं हि बालं

यतः कृत्तिकाः पाययन्ति स्म दुग्धम् ।

ततः कार्तिकेयं वदन्तीह यं तं

सदा षण्मुखं भावये हृत्सरोजे ॥ ५ ॥

हरन्तं च बाढं तमो हार्दगाढं

गवानाद्यया चातिमोदेन लीढम् ।

सुरेन्द्रस्य पुत्र्या च गाढोपगूढं

सदा षण्मुखं भावये हृत्सरोजे ॥ ६ ॥

इयं षट्पदी यस्य वक्त्रारविन्दे

विहारं करोत्यादरान्नित्यमेव ।

षडास्यः कृपातः समस्ताश्च विद्या

वितीर्याशु तस्मै स्वभक्तिं ददाति ॥ ७ ॥

इति श्रीशृङ्गेरिजगद्गुरु श्रीसच्चिदानन्द शिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री षण्मुख षट्पदी स्तवः ।

sri shanmukha shatpadi stava