Skip to main content
पडताळणी प्रलंबित

श्री मातङ्गी अष्टोत्तरशतनाम स्तोत्रम्

श्रीभैरव्युवाच ।

भगवन् श्रोतुमिच्छामि मातङ्ग्याः शतनामकम् ।

यद्गुह्यं सर्वतन्त्रेषु केनापि न प्रकाशितम् ॥ १ ॥

श्रीभैरव उवाच ।

शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।

नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥ २ ॥

यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः ।

नश्यन्ति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥ ३ ॥

प्रसन्ना जायते देवी मातङ्गी चास्य पाठतः ।

सहस्रनामपठने यत्फलं परिकीर्तितम् ।

तत्कोटिगुणितं देवीनामाष्टशतकं शुभम् ॥ ४ ॥

अस्य श्रीमातङ्ग्यष्टोत्तरशतनामस्तोत्रस्य भगवान्मतङ्ग ऋषिः अनुष्टुप्छन्दः श्रीमातङ्गी देवता श्रीमातङ्गी प्रीतये जपे विनियोगः ।

महामत्तमातङ्गिनी सिद्धिरूपा

तथा योगिनी भद्रकाली रमा च ।

भवानी भवप्रीतिदा भूतियुक्ता

भवाराधिता भूतिसम्पत्करी च ॥ १ ॥

धनाधीशमाता धनागारदृष्टि-

-र्धनेशार्चिता धीरवापी वराङ्गी ।

प्रकृष्टा प्रभारूपिणी कामरूपा

प्रहृष्टा महाकीर्तिदा कर्णनाली ॥ २ ॥

कराली भगा घोररूपा भगाङ्गी

भगाह्वा भगप्रीतिदा भीमरूपा ।

भवानी महाकौशिकी कोशपूर्णा

किशोरी किशोरप्रिया नन्दईहा ॥ ३ ॥

महाकारणाऽकारणा कर्मशीला

कपाली प्रसिद्धा महासिद्धखण्डा ।

मकारप्रिया मानरूपा महेशी

मलोल्लासिनी लास्यलीलालयाङ्गी ॥ ४ ॥

क्षमा क्षेमशीला क्षपाकारिणी चा-

-ऽक्षयप्रीतिदा भूतियुक्ता भवानी ।

भवाराधिता भूतिसत्यात्मिका च

प्रभोद्भासिता भानुभास्वत्करा च ॥ ५ ॥

धराधीशमाता धरागारदृष्टि-

-र्धरेशार्चिता धीवरा धीवराङ्गी ।

प्रकृष्टा प्रभारूपिणी प्राणरूपा

प्रकृष्टस्वरूपा स्वरूपप्रिया च ॥ ६ ॥

चलत्कुण्डला कामिनी कान्तयुक्ता

कपालाऽचला कालकोद्धारिणी च ।

कदम्बप्रिया कोटरी कोटदेहा

क्रमा कीर्तिदा कर्णरूपा च काक्ष्मीः ॥ ७ ॥

क्षमाङ्गी क्षयप्रेमरूपा क्षया च

क्षयाक्षा क्षयाह्वा क्षयप्रान्तरा च ।

क्षवत्कामिनी क्षारिणी क्षीरपूर्णा

शिवाङ्गी च शाकम्भरी शाकदेहा ॥ ८ ॥

महाशाकयज्ञा फलप्राशका च

शकाह्वाऽशकाह्वा शकाख्या शका च ।

शकाक्षान्तरोषा सुरोषा सुरेखा

महाशेषयज्ञोपवीतप्रिया च ॥ ९ ॥

जयन्ती जया जाग्रती योग्यरूपा

जयाङ्गा जपध्यानसन्तुष्टसञ्ज्ञा ।

जयप्राणरूपा जयस्वर्णदेहा

जयज्वालिनी यामिनी याम्यरूपा ॥ १० ॥

जगन्मातृरूपा जगद्रक्षणा च

स्वधावौषडन्ता विलम्बाऽविलम्बा ।

षडङ्गा महालम्बरूपासिहस्ता-

पदाहारिणीहारिणी हारिणी च ॥ ११ ॥

महामङ्गला मङ्गलप्रेमकीर्ति-

-र्निशुम्भच्छिदा शुम्भदर्पापहा च ।

तथाऽऽनन्दबीजादिमुक्तिस्वरूपा

तथा चण्डमुण्डापदा मुख्यचण्डा ॥ १२ ॥

प्रचण्डाऽप्रचण्डा महाचण्डवेगा

चलच्चामरा चामरा चन्द्रकीर्तिः ।

सुचामीकरा चित्रभूषोज्ज्वलाङ्गी

सुसङ्गीतगीता च पायादपायात् ॥ १३ ॥

इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् ।

गोप्यं च सर्वतन्त्रेषु गोपनीयं च सर्वदा ॥ १४ ॥

एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः ।

त्रिसन्ध्यं च महाभक्त्या पठनीयं सुखोदयम् ॥ १५ ॥

न तस्य दुष्करं किञ्चिज्जायते स्पर्शतः क्षणात् ।

सुकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥ १६ ॥

सदैव सन्निधौ तस्य देवी वसति सादरम् ।

अयोगा ये त एवाग्रे सुयोगाश्च भवन्ति वै ॥ १७ ॥

त एव मित्रभूताश्च भवन्ति तत्प्रसादतः ।

विषाणि नोपसर्पन्ति व्याधयो न स्पृशन्ति तान् ॥ १८ ॥

लूताविस्फोटकाः सर्वे शमं यान्ति च तत्क्षणात् ।

जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥ १९ ॥

अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् ।

यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् ।

तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥ २० ॥

इति श्रीरुद्रयामले श्रीमातङ्गीशतनामस्तोत्रम् ।

sri matangi ashtottara shatanama stotram