Skip to main content
पडताळणी प्रलंबित

श्री मृत्युञ्जय स्तोत्रम्

नन्दिकेश्वर उवाच ।

कैलासस्योत्तरे शृङ्गे शुद्धस्फटिकसन्निभे ।

तमोगुणविहीने तु जरामृत्युविवर्जिते ॥ १ ॥

सर्वतीर्थास्पदाधारे सर्वज्ञानकृतालये ।

कृताञ्जलिपुटो ब्रह्मा ध्यानासीनं सदाशिवम् ॥ २ ॥

पप्रच्छ प्रणतो भूत्वा जानुभ्यामवनिं गतः ।

सर्वार्थसम्पदाधारो ब्रह्मा लोकपितामहः ॥ ३ ॥

ब्रह्मोवाच ।

केनोपायेन देवेश चिरायुर्लोमशोऽभवत् ।

तन्मे ब्रूहि महेशान लोकानां हितकाम्यया ॥ ४ ॥

श्रीसदाशिव उवाच ।

शृणु ब्रह्मन् प्रवक्ष्यामि चिरायुर्मुनिसत्तमः ।

सञ्जातो कर्मणा येन व्याधिमृत्युविवर्जितः ॥ ५ ॥

तस्मिन्नेकार्णवे घोरे सलिलौघपरिप्लुते ।

कृतान्तभयनाशाय स्तुतो मृत्युञ्जयः शिवः ॥ ६ ॥

तस्य सङ्कीर्तनान्नित्यं मर्त्यो मृत्युविवर्जितः ।

त्वमेव कीर्तयन् ब्रह्मन् मृत्युं जेतुं न संशयः ॥ ७ ॥

लोमश उवाच ।

देवाधिदेव देवेश सर्वप्राणभृतां वर ।

प्राणिनामपि नाथस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ ८ ॥

देहिनां जीवभूतोऽसि जीवो जीवस्य कारणम् ।

जगतां रक्षकस्त्वं वै मृत्युञ्जय नमोऽस्तु ते ॥ ९ ॥

हेमाद्रिशिखराकार सुधावीचिमनोहर ।

पुण्डरीक परं ज्योतिर्मुत्युञ्जय नमोऽस्तु ते ॥ १० ॥

ध्यानाधार महाज्ञान सर्वज्ञानैककारण ।

परित्रातासि लोकानां मृत्युञ्जय नमोऽस्तु ते ॥ ११ ॥

निहता येन कालेन सदेवासुरमानुषाः ।

गन्धर्वाप्सरसश्चैव सिद्धविद्याधरास्तथा ॥ १२ ॥

साध्याश्च वसवो रुद्रास्तथाश्विनिसुतावुभौ ।

मरुतश्च दिशो नागाः स्थावरा जङ्गमास्तथा ॥ १३ ॥

अनङ्गेन मनोजेन पुष्पचापेन केवलम् ।

जितः सोऽपि त्वया ध्यानान्मृत्युञ्जय नमोऽस्तु ते ॥ १४ ॥

ये ध्यायन्ति परां मूर्तिं पूजयन्त्यमराधिप ।

न ते मृत्युवशं यान्ति मृत्युञ्जय नमोऽस्तु ते ॥ १५ ॥

त्वमोङ्कारोऽसि वेदानां देवानां च सदाशिवः ।

आधारशक्तिः शक्तीनां मृत्युञ्जय नमोऽस्तु ते ॥ १६ ॥

स्थावरे जङ्गमे वापि यावत्तिष्ठति मेदिनी ।

जीवत्वित्याह लोकोऽयं मृत्युञ्जय नमोऽस्तु ते ॥ १७ ॥

सोमसूर्याग्निमध्यस्थ व्योमव्यापिन् सदाशिवः ।

कालत्रय महाकाल मृत्युञ्जय नमोऽस्तु ते ॥ १८ ॥

प्रबुद्धे चाप्रबुद्धे च त्वमेव सृजसे जगत् ।

सृष्टिरूपेण देवेश मृत्युञ्जय नमोऽस्तु ते ॥ १९ ॥

व्योम्नि त्वं व्योमरूपोऽसि तेजः सर्वत्र तेजसि ।

प्राणिनां ज्ञानरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ २० ॥

जगज्जीवो जगत्प्राणः स्रष्टा त्वं जगतः प्रभुः ।

कारणं सर्वतीर्थानां मृत्युञ्जय नमोऽस्तु ते ॥ २१ ॥

नेता त्वमिन्द्रियाणां च सर्वज्ञानप्रबोधकः ।

साङ्ख्ययोगश्च हंसश्च मृत्युञ्जय नमोऽस्तु ते ॥ २२ ॥

रूपातीतः सुरूपश्च पिण्डस्था पदमेव च ।

चतुर्युगकलाधार मृत्युञ्जय नमोऽस्तु ते ॥ २३ ॥

रेचके वह्निरूपोऽसि सोमरूपोऽसि पूरके ।

कुम्भके शिवरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ २४ ॥

क्षयं करोऽसि पापानां पुण्यानामपि वर्धसम् ।

हेतुस्त्वं श्रेयसां नित्यं मृत्युञ्जय नमोऽस्तु ते ॥ २५ ॥

सर्वमायाकलातीत सर्वेन्द्रियपरावर ।

सर्वेन्द्रियकलाधीश मृत्युञ्जय नमोऽस्तु ते ॥ २६ ॥

रूपं गन्धो रसः स्पर्शः शब्दः संस्कार एव च ।

त्वत्तः प्रकाश एतेषां मृत्युञ्जय नमोऽस्तु ते ॥ २७ ॥

चतुर्विधानां सृष्टीनां हेतुस्त्वं कारणेश्वर ।

भावाभावपरिच्छिन्न मृत्युञ्जय नमोऽस्तु ते ॥ २८ ॥

त्वमेको निष्कलो लोके सकलं भुवनत्रयम् ।

अतिसूक्ष्मातिरूपस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ २९ ॥

त्वं प्रबोधस्त्वमाधारस्त्वद्बीजं भुवनत्रयम् ।

सत्त्वं रजस्तमस्त्वं हि मृत्युञ्जय नमोऽस्तु ते ॥ ३० ॥

त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृतेः परः ।

अष्टत्रिंशत्कलानाथ मृत्युञ्जय नमोऽस्तु ते ॥ ३१ ॥

सर्वेन्द्रियाणामाधारः सर्वभूतगणाश्रयः ।

सर्वज्ञानमयानन्त मृत्युञ्जय नमोऽस्तु ते ॥ ३२ ॥

त्वमात्मा सर्वभूतानां गुणानां त्वमधीश्वरः ।

सर्वानन्दमयाधार मृत्युञ्जय नमोऽस्तु ते ॥ ३३ ॥

त्वं यज्ञः सर्वयज्ञानां त्वं बुद्धिर्बोधलक्षणा ।

शब्दब्रह्म त्वमोङ्कारो मृत्युञ्जय नमोऽस्तु ते ॥ ३४ ॥

श्रीसदाशिव उवाच ।

एवं सङ्कीर्तयेद्यस्तु शुचिस्तद्गतमानसः ।

भक्त्या शृणोति यो ब्रह्मन् न स मृत्युवशो भवेत् ॥ ३५ ॥

न च मृत्युभयं तस्य प्राप्तकालं च लङ्घयेत् ।

अपमृत्युभयं तस्य प्रणश्यति न संशयः ॥ ३६ ॥

व्याधयो नोपपद्यन्ते नोपसर्गभयं भवेत् ।

प्रत्यासन्नान्तरे काले शतैकावर्तने कृते ॥ ३७ ॥

मृत्युर्न जायते तस्य रोगान्मुञ्चति निश्चितम् ।

पञ्चम्यां वा दशम्यां वा पौर्णमास्यामथापि वा ॥ ३८ ॥

शतमावर्तयेद्यस्तु शतवर्षं स जीवति ।

तेजस्वी बलसम्पन्नो लभते श्रियमुत्तमाम् ॥ ३९ ॥

त्रिविधं नाशयेत्पापं मनोवाक्कायसम्भवम् ।

अभिचाराणि कर्माणि कर्माण्याथर्वणानि च ।

क्षीयन्ते नात्र सन्देहो दुःस्वप्नं च विनश्यति ॥ ४० ॥

इदं रहस्यं परमं देवदेवस्य शूलिनः ।

दुःखप्रणाशनं पुण्यं सर्वविघ्नविनाशनम् ॥ ४१ ॥

इति श्रीशिवब्रह्मसंवादे श्रीमृत्युञ्जय स्तोत्रम् ।

sri mrityunjaya stotram