Skip to main content
पडताळणी प्रलंबित

श्री भवसोदर्यष्टकम्

भजतां कल्पलतिका भवभीतिविभञ्जनी ।

भ्रमराभकचा भूयाद्भव्याय भवसोदरी ॥ १ ॥

करनिर्जितपाथोजा शरदभ्रनिभाम्बरा ।

वरदानरता भूयाद्भव्याय भवसोदरी ॥ २ ॥

काम्या पयोजजनुषा नम्या सुरवरैर्मुहुः ।

रभ्याब्जवसतिर्भूयाद्भव्याय भवसोदरी ॥ ३ ॥

कृष्णादिसुरसंसेव्या कृतान्तभयनाशिनी ।

कृपार्द्रहृदया भूयाद्भव्याय भवसोदरी ॥ ४ ॥

मेनकादिसमाराध्या शौनकादिमुनिस्तुता ।

कनकाभतनुर्भूयाद्भव्याय भवसोदरी ॥ ५ ॥

वरदा पदनम्रेभ्यः पारदा भववारिधेः ।

नीरदाभकचा भूयाद्भव्याय भवसोदरी ॥ ६ ॥

विनताघहारा शीघ्रं विनतातनयार्चिता ।

पीनतायुक्कुचा भूयाद्भव्याय भवसोदरी ॥ ७ ॥

वीणालसतपाणिपद्मा काणादमुखशास्त्रदा ।

एणाङ्कशिशुभृद्भूयाद्भव्याय भवसोदरी ॥ ८ ॥

अष्टकं भवसोदर्याः कष्टनाशकरं द्रुतम् ।

इष्टदं सम्पठञ्छीघ्रमष्टसिद्धीरवाप्नुयात् ॥ ९ ॥

इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्री भवसोदर्यष्टकम् ॥

sri bhavasodari ashtakam