Skip to main content
पडताळणी प्रलंबित

मयूरेश स्तोत्रम्

ब्रह्मोवाच ।

पुराणपुरुषं देवं नानाक्रीडाकरं मुदा ।

मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ॥ १ ॥

परात्परं चिदानन्दं निर्विकारं हृदि स्थितम् ।

गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥ २ ॥

सृजन्तं पालयन्तं च संहरन्तं निजेच्छया ।

सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम् ॥ ३ ॥

नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् ।

नानायुधधरं भक्त्या मयूरेशं नमाम्यहम् ॥ ४ ॥

इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् ।

सदसद्व्यक्तमव्यक्तं मयूरेशं नमाम्यहम् ॥ ५ ॥

सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् ।

सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् ॥ ६ ॥

पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् ।

भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥ ७ ॥

मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम् ।

समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम् ॥ ८ ॥

सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् ।

सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥ ९ ॥

अनेककोटिब्रह्माण्डनायकं जगदीश्वरम् ।

अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम् ॥ १० ॥

मयूरेश उवाच ।

इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम् ।

सर्वकामप्रदं नॄणां सर्वोपद्रवनाशनम् ॥ ११ ॥

कारागृहगतानां च मोचनं दिनसप्तकात् ।

आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम् ॥ १२ ॥

इति मयूरेश स्तोत्रम् ।

mayuresha stotram