Skip to main content
पडताळणी प्रलंबित

श्री बाला भुजङ्ग स्तोत्रम्

श्रीनीललोहित उवाच ।

जगद्योनिरूपां सुवेशीं च रक्तां

गुणातीतसञ्ज्ञां महागुह्यगुह्याम् ।

महासर्पभूषां भवेशादिपूज्यां

महात्युग्रबालां भजेऽहं हि नित्याम् ॥ १ ॥

महास्वर्णवर्णां शिवपृष्ठसंस्थां

महामुण्डमालां गले शोभमानाम् ।

महाचर्मवस्त्रां महाशङ्खहस्तां

महात्युग्रबालां भजेऽहं हि नित्याम् ॥ २ ॥

सदा सुप्रसन्नां भृतासूक्ष्मसूक्ष्मां

वराभीतिहस्तां धृतावाक्षपुस्ताम् ।

महाकिन्नरेशीं भगाकारविद्यां

महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ३ ॥

तिनीं तीकिनीनां रवां किङ्किणीनां

हहाहा हहाहा महालापशब्दाम् ।

तथैथै तथैथै महानृत्यनृत्यां

महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ४ ॥

ननाना रिरीरी महागीश शम्बू

हुहूवू हुहूवू पशो रक्तपानाम् ।

धिमिन्धीं धिमिन्धीं मृदङ्गस्य शब्दां

महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ५ ॥

महाचक्रसंस्थां त्रिमात्रास्वरूपां

शिवार्धाङ्गभूतां महापुष्पमालाम् ।

महादुःखहर्त्रीं महाप्रेतसंस्थां

महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ६ ॥

स्फुरत्पद्मवक्त्रां हिमांशोः कलापां

महाकोमलाङ्गीं सुरेशेन मान्याम् ।

जगत्पालनैकाग्रचित्तां सुपुष्टां

महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ७ ॥

महादैत्यनाशीं सुरानित्यपालीं

महाबुद्धिराशिं कवीनां मुखस्थाम् ।

जटीनां हृदिस्थां मनूनां शिरःस्थां

महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ८ ॥

भुजङ्गाख्यं महास्तोत्रं त्रिषु लोकेषु दुर्लभम् ।

महासिद्धिप्रदं दिव्यं चतुर्वर्गफलप्रदम् ॥ ९ ॥

सर्वक्रतुफलं भद्रे सर्वव्रतफलं तथा ।

सर्वदानोद्भवं पुण्यं लभते नात्र संशयः ॥ १० ॥

विवादे कलहे घोरे महादुःखे पराजये ।

ग्रहदोषे महारोगे पठेत् स्तोत्रं विचक्षणः ॥ ११ ॥

सर्वदोषाः विनश्यन्ति लभते वाञ्छितं फलम् ।

दूतीयागे पठेद्देवि सर्वशत्रुक्षयो भवेत् ॥ १२ ॥

महाचक्रे पठेद्देवि लभते परमं पदम् ।

पूजान्ते पठते भक्त्या महाबलिफलप्रदम् ॥ १३ ॥

पितृगेहे तुर्यपथे शून्यागारे शिवालये ।

बिल्वमूले चैकवृक्षे रतौ मधुसमागमे ॥ १४ ॥

पठेत् स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ।

त्रिकालं पठते नित्यं देवीपुत्रत्वमाप्नुयात् ॥ १५ ॥

इति श्रीकालानलतन्त्रे श्री बाला भुजङ्ग स्तोत्रम् ।

sri bala bhujanga stotram