Skip to main content
पडताळणी प्रलंबित

श्री ज्वालामुखी स्तोत्रम् – २

जाज्वल्यमानवपुषा दशदिग्विभागान्

सन्दीपयन्त्यभयपद्मगदावराढ्या ।

सिंहस्थिता शशिकलाभरणा त्रिनेत्रा

ज्वालामुखी हरतु मोहतमः सदा नः ॥ १ ॥

आब्रह्मकीटजननीं महिषीं शिवस्य

मुग्धस्मितां प्रलयकोटिरविप्रकाशम् ।

ज्वालामुखीं कनककुण्डलशोभितांसां

वन्दे पुनः पुनरपीह सहस्रकृत्वः ॥ २ ॥

देदीप्यमानमुकुटद्युतिभिश्च देवै-

-र्दासैरिव द्विगुणिताङ्घ्रिनखप्रदीप्तिम् ।

ज्वालामुखीं सकलमङ्गलमङ्गलां ता-

-मम्बां नतोऽस्म्यखिलदुःखविपत्तिदग्ध्रीम् ॥ ३ ॥

क्षित्यब्‍हुताशपवनाम्बरसूर्यचन्द्र-

-यष्ट्राख्यमूर्तिममलानपि पावयन्तीम् ।

ज्वालामुखीं प्रणतकल्पलतां शिवस्य

साम्राज्यशक्तिमतुलां महतीं नमामि ॥ ४ ॥

नौमीश्वरीं त्रिजगतोऽभयदानशौण्डां

ज्वालामहार्यभवजालहरां नमामि ।

मोहान्धकारहरणे विमलेन्दुकान्तिं

देवीं सदा भगवतीं मनसा स्मरामि ॥ ५ ॥

दुष्कर्मवायुभिरितस्तत एव दीप्तैः

पापज्वलज्ज्वलनजातशिखाकलापैः ।

दग्धं च जीवयतु मां परितो लुठन्तं

देवी दयार्द्रहृदयामृतपूर्णदृष्ट्या ॥ ६ ॥

ज्वालामुखी ज्वलदनल्पलयाग्रिकोटि-

-रोचिष्मती रविशशिप्रतिभानकर्त्री ।

भक्तस्य भर्गवपुषा भवभर्जनाय

भूयात् सदाभ्युदयदानवदान्यमुख्या ॥ ७ ॥

त्वं चौषधीशमुकुटाऽहमसाध्यरोग-

-स्त्वं चित्प्रदीप्तिरहमत्र भवान्ध्यमग्नः ।

त्वं चाम्ब कल्पतरुरेवमहं च भिक्षु-

-र्ज्वलामुखि प्रकुरु देवि यथोचितं मे ॥ ८ ॥

यद्ध्यानकेसरिसमाक्रमणोत्थभीते-

-र्मर्मव्यथाजनकदुःखशतानि सद्यः ।

गोमायवन्ति परितो भृशकान्दिशीका-

-नस्मांश्च पालयतु सैव भवाब्धिदुःखात् ॥ ९ ॥

ज्वालामुखि क्षणमपीह विलम्बमम्ब

नार्तो ह्यनर्थपतितः सहते विपन्नः ।

हस्तस्थितामृतकमण्डलुवारिणैव

मां मूर्छितं झटिति जीवय तापतप्तम् ॥ १० ॥

बाह्यान्ध्यनाशनविधौ रविचन्द्रवाह्नि-

-ज्योतींषि देवि दयायाऽजनयः पुरा त्वम् ।

एतत्तु रूपमखिलान्तरमोहरात्रि-

-ध्वान्तान्तकारि तव यत् स्फुरतादतोऽन्तः ॥ ११ ॥

मन्ये त्रिधामनयने नयनत्रयं ते

भक्तार्तिनाशननिमित्तविलोकनाय ।

मातः परं यदपि देवि तथाप्यधन्य-

-स्त्वद्दृष्टिपातरहितोस्म्यहहाहतोऽस्मि ॥ १२ ॥

सत्यं ब्रवीमि शृणु चित्त मदान्ध मूर्ख

मा गाः कदापि विषयान्विषमान्विषाक्तान् ।

ईशीमपारकरुणां भवभीतिभेत्रि-

-मम्बां भजस्व सततं परसौख्यदात्रीम् ॥ १३ ॥

त्वं मे महेशि जननी परमार्तिहर्त्री

त्वं मे पिता हिततमस्त्वमहेतुबन्धुः ।

त्वं मे भवाब्धितरणे दृढनौस्त्वमेव

दुःखामयाधिहरणे चतुरश्च वैद्यः ॥ १४ ॥

ज्वालां जगज्जननसंहरणस्थितीनां

हेतुं गतिं मुषितलज्जितदुःखितानाम् ।

उन्मोचनां च भवबन्धनदुर्गतीनां

त्वां नौमि नौमि शरणं शरणागतानाम् ॥ १५ ॥

ज्वालामुखीस्तवमिमं शृणुयात्पठेद्वा

यः श्रद्धया परमया बहुभक्तियुक्तः ।

भूयात्स दग्धबहुजन्मशतार्जिताऽघो

-ऽविज्ञोप्यनेकजननाथितराज्यभूमिः ॥ १६ ॥

इति श्री ज्वालामुखी स्तोत्रम् ॥

sri jwalamukhi stotram 2