Skip to main content
पडताळणी प्रलंबित

आपदुन्मूलन श्री दुर्गा स्तोत्रम्

लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-

-वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च ।

दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु तौ नाशयन्तीं

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ १ ॥

युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीयेषु धिष्ण्ये-

-ष्वास्थाय स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण ।

तं सामात्याप्तमित्रं महिषमपि निहत्यास्य मूर्धाधिरूढां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ २ ॥

विश्वोत्पत्तिप्रणाशस्थितिविहृतिपरे देवि घोरामरारि-

-त्रासात्त्रातुं कुलं नः पुनरपि च महासङ्कटेष्वीदृशेषु ।

आविर्भूयाः पुरस्तादिति चरणनमत्सर्वगीर्वाणवर्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ३ ॥

हन्तुं शुम्भं निशुम्भं विबुधगणनुतां हेमडोलां हिमाद्रा-

-वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक्चण्डमुण्डान् ।

चामुण्डाख्यां दधानां उपशमितमहारक्तबीजोपसर्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ४ ॥

ब्रह्मेशस्कन्दनारायणकिटिनरसिंहेन्द्रशक्तीः स्वभृत्याः

कृत्वा हत्वा निशुम्भं जितविबुधगणं त्रासिताशेषलोकम् ।

एकीभूयाथ शुम्भं रणशिरसि निहत्यास्थितामात्तखड्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ५ ॥

उत्पन्ना नन्दजेति स्वयमवनितले शुम्भमन्यं निशुम्भं

भ्रामर्याख्यारुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम् ।

भीमा शाकम्भरीति त्रुटितरिपुभटां रक्तदन्तेति जातां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ६ ॥

त्रैगुण्यानां गुणानां अनुसरणकलाकेलि नानावतारैः

त्रैलोक्यत्राणशीलां दनुजकुलवनवह्निलीलां सलीलाम् ।

देवीं सच्चिन्मयीं तां वितरितविनमत्सत्रिवर्गापवर्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ७ ॥

सिंहारूढां त्रिनेत्रीं करतलविलसच्छङ्खचक्रासिरम्यां

भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्याम् ।

सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गीं

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ८ ॥

त्रायस्व स्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था

पाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्त्वनन्याः जनन्याः ।

तत्तुभ्यं स्यान्नमस्येत्यवनतविबुधाह्लादिवीक्षाविसर्गां

दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ९ ॥

एतं सन्तः पठन्तु स्तवमखिलविपज्जालतूलानलाभं

हृन्मोहध्वान्तभानुप्रथितमखिलसङ्कल्पकल्पद्रुकल्पम् ।

दौर्गं दौर्गत्यघोरातपतुहिनकरप्रख्यमंहोगजेन्द्र-

-श्रेणीपञ्चास्यदेश्यं विपुलभयदकालाहितार्क्ष्यप्रभावम् ॥ १० ॥

इति आपदुन्मूलन श्री दुर्गा स्तोत्रम् ।

aapadunmoolana sri durga stotram