Skip to main content
पडताळणी प्रलंबित

मनोरथसिद्धिप्रद गणेश स्तोत्रम्

स्कन्द उवाच ।

नमस्ते योगरूपाय सम्प्रज्ञानशरीरिणे ।

असम्प्रज्ञानमूर्ध्ने ते तयोर्योगमयाय च ॥ १ ॥

वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।

भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २ ॥

मायासिद्धिस्तथा देवो मायिको बुद्धिसञ्ज्ञितः ।

तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ ३ ॥

जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।

तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥ ४ ॥

चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।

हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५ ॥

स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।

तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६ ॥

द्वन्द्वं चरसि भक्तानां तेषां हृदि समास्थितः ।

चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ७ ॥

जगति ब्रह्मणि स्थित्वा भोगान्भुङ्क्षि स्वयोगगः ।

जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८ ॥

चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।

मूषको मूषकारूढो हेरम्बाय नमो नमः ॥ ९ ॥

किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।

वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १० ॥

इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।

वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥ ११ ॥

त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।

मयि भक्तिकरं स्कन्द सर्वसिद्धिप्रदं तथा ॥ १२ ॥

यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयन्त्रितः ।

पठते शृण्वते नित्यं कार्तिकेय विशेषतः ॥ १३ ॥

इति श्रीमुद्गलपुराणे मनोरथसिद्धिप्रदं नाम गणेशस्तोत्रं सम्पूर्णम् ।

manoratha siddhiprada ganesha stotram