Skip to main content
पडताळणी प्रलंबित

श्री शिव स्तोत्रम् (वरुण कृतम्)

कल्याणशैलपरिकल्पितकार्मुकाय

मौर्वीकृताखिलमहोरगनायकाय ।

पृथ्वीरधाय कमलापतिसायकाय

हालास्यमध्यनिलयाय नमश्शिवाय ॥ १ ॥

भक्तार्तिभञ्जन पराय परात्पराय

कालाभ्रकान्ति गरलाङ्कितकन्धराय ।

भूतेश्वराय भुवनत्रयकारणाय

हालास्यमध्यनिलयाय नमश्शिवाय ॥ २ ॥

भूदारमूर्ति परिमृग्य पदाम्बुजाय

हंसाब्जसम्भवसुदूर सुमस्तकाय ।

ज्योतिर्मय स्फुरितदिव्यवपुर्धराय

हालास्यमध्यनिलयाय नमश्शिवाय ॥ ३ ॥

कादम्बकानननिवास कुतूहलाय

कान्तार्धभाग कमनीयकलेबराय ।

कालान्तकाय करुणामृतसागराय

हालास्यमध्यनिलयाय नमश्शिवाय ॥ ४ ॥

विश्वेश्वराय विबुधेश्वरपूजिताय

विद्याविशिष्टविदितात्म सुवैभवाय ।

विद्याप्रदाय विमलेन्द्रविमानगाय

हालास्यमध्यनिलयाय नमश्शिवाय ॥ ५ ॥

सम्पत्प्रदाय सकलागम मस्तकेषु

सङ्घोषितात्म विभवाय नमश्शिवाय ।

सर्वात्मने सकलदुःखसमूलहन्त्रे

हालास्यमध्यनिलयाय नमश्शिवाय ॥ ६ ॥

गङ्गाधराय गरुडध्वजवन्दिताय

गण्डस्फुरद्भुजगमण्डलमण्डिताय ।

गन्धर्व किन्नर सुगीतगुणात्मकाय

हालास्यमध्यनिलयाय नमश्शिवाय ॥ ७ ॥

साणिं प्रगृह्य मलयध्वजभूपपुत्र्याः

पाण्ड्येश्वरस्स्वयमभूत्परमेश्वरो यः ।

तस्मै जगत्प्रथितसुन्दरपाण्ड्यनाम्ने

हालास्यमध्यनिलयाय नमश्शिवाय ॥ ८ ॥

गीर्वाणदेशिकगिरामपि दूरगं य-

द्वक्तुं महत्त्वमिह को भवतः प्रवीणः ।

शम्भो क्षमस्व भगवच्चरणारविन्द-

भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश ॥ ९ ॥

इति श्रीहालास्यमाहात्म्ये वरुणकृत शिवस्तोत्रम् ।

varuna krita shiva stotram