Skip to main content
पडताळणी प्रलंबित

दशविद्यामयी श्री बाला स्तोत्रम्

श्रीकाली बगलामुखी च ललिता धूमावती भैरवी

मातङ्गी भुवनेश्वरी च कमला श्रीर्वज्रवैरोचनी ।

तारा पूर्वमहापदेन कथिता विद्या स्वयं शम्भुना

लीलारूपमयी च देशदशधा बाला तु मां पातु सा ॥ १ ॥

श्यामां श्यामघनावभासरुचिरां नीलालकालङ्कृतां

बिम्बोष्ठीं बलिशत्रुवन्दितपदां बालार्ककोटिप्रभाम् ।

त्रासत्रासकृपाणमुण्डदधतीं भक्ताय दानोद्यतां

वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं कालिकाम् ॥ २ ॥

ब्रह्मास्त्रां सुमुखीं बकारविभवां बालां बलाकीनिभां

हस्तन्यस्तसमस्तवैरिरसनामन्ये दधानां गदाम् ।

पीतां भूषणगन्धमाल्यरुचिरां पीताम्बराङ्गां वरां

वन्दे सङ्कटनाशिनीं भगवतीं बालां बगलामुखीम् ॥ ३ ॥

बालार्कद्युतिभस्करां त्रिनयनां मन्दस्मितां सन्मुखीं

वामे पाशधनुर्धरां सुविभवां बाणं तथा दक्षिणे ।

पारावारविहारिणीं परमयीं पद्मासने संस्थितां

वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं षोडशीम् ॥ ४ ॥

दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवतां

क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम् ।

देवीं शूर्पकरां मलीनवसनां तां पिप्पलादार्चिताम् ।

बालां सङ्कटनाशिनीं भगवतीं ध्यायामि धूमावतीम् ॥ ५ ॥

उद्यत्कोटिदिवाकरप्रतिभटां बालार्कभाकर्पटां

मालापुस्तकपाशमङ्कुशवरान् दैत्येन्द्रमुण्डस्रजाम् ।

पीनोत्तुङ्गपयोधरां त्रिनयनां ब्रह्मादिभिः संस्तुतां

बालां सङ्कटनाशिनीं भगवतीं श्रीभैरवीं धीमहि ॥ ६ ॥

वीणावादनतत्परां त्रिनयनां मन्दस्मितां सन्मुखीं

वामे पाशधनुर्धरां तु निकरे बाणं तथा दक्षिणे ।

पारावारविहारिणीं परमयीं ब्रह्मासने संस्थितां

वन्दे सङ्कटनाशिनीं भगवतीं मातङ्गिनीं बालिकाम् ॥ ७ ॥

उद्यत्सूर्यनिभां च इन्दुमुकुटामिन्दीवरे संस्थितां

हस्ते चारुवराभयं च दधतीं पाशं तथा चाङ्कुशम् ।

चित्रालङ्कृतमस्तकां त्रिनयनां ब्रह्मादिभिः सेवितां

वन्दे सङ्कटनाशिनीं च भुवनेशीमादिबालां भजे ॥ ८ ॥

देवीं काञ्चनसन्निभां त्रिनयनां फुल्लारविन्दस्थितां

बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलाम् ।

प्रालेयाचलसन्निभैश्च करिभिरासिञ्च्यमानां सदा

बालां सङ्कटनाशिनीं भगवतीं लक्ष्मीं भजे चेन्दिराम् ॥ ९ ॥

सञ्छिन्नं स्वशिरो विकीर्णकुटिलं वामे करे बिभ्रतीं

तृप्तास्यां स्वशरीरजैश्च रुधिरैः सन्तर्पयन्तीं सखीम् ।

सद्भक्ताय वरप्रदाननिरतां प्रेतासनाध्यासिनीं

बालां सङ्कटनाशिनीं भगवतीं श्रीछिन्नमस्तां भजे ॥ १० ॥

उग्रामेकजटामनन्तसुखदां दूर्वादलाभामजां

कर्त्रीखड्गकपालनीलकमलान् हस्तैर्वहन्तीं शिवाम् ।

कण्ठे मुण्डस्रजां करालवदनां कञ्जासने संस्थितां

वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं तारिणीम् ॥ ११ ॥

मुखे श्री मातङ्गी तदनु किल तारा च नयने

तदन्तङ्गा काली भृकुटिसदने भैरवि परा ।

कटौ छिन्ना धूमावती जय कुचे श्रीकमलजा

पदांशे ब्रह्मास्त्रा जयति किल बाला दशमयी ॥ १२ ॥

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी

परित्रासत्राण स्फटिकगुटिका पुस्तकवरा ।

गले रेखास्तिस्रो गमकगतिगीतैकनिपुणा

सदा पीता हाला जयति किल बाला दशमयी ॥ १३ ॥

इति श्रीमेरुतन्त्रे श्री दशविद्यामयी बाला स्तोत्रम् ।

dasavidyamayi bala stotram