Skip to main content
पडताळणी प्रलंबित

श्री श्रेयस्करी स्तोत्रम्

श्रेयस्करि श्रमनिवारिणि सिद्धविद्ये

स्वानन्दपूर्णहृदये करुणातनो मे ।

चित्ते वस प्रियतमेन शिवेन सार्धं

माङ्गल्यमातनु सदैव मुदैव मातः ॥ १ ॥

श्रेयस्करि श्रितजनोद्धरणैकदक्षे

दाक्षायणि क्षपित पातकतूलराशे ।

शर्मण्यपादयुगले जलजप्रमोदे

मित्रेत्रयी प्रसृमरे रमतां मनो मे ॥ २ ॥

श्रेयस्करि प्रणतपामर पारदान

ज्ञान प्रदानसरणिश्रित पादपीठे ।

श्रेयांसि सन्ति निखिलानि सुमङ्गलानि

तत्रैव मे वसतु मानसराजहंसः ॥ ३ ॥

श्रेयस्करीति तवनाम गृणाति भक्त्या

श्रेयांसि तस्य सदने च करी पुरस्तात् ।

किं किं न सिध्यति सुमङ्गलनाम मालां

धृत्वा सुखं स्वपिति शेषतनौ रमेशः ॥ ४ ॥

श्रेयस्करीति वरदेति दयापरेति

वेदोदरेति विधिशङ्कर पूजितेति ।

वाणीति शम्भुरमणीति च तारिणीति

श्रीदेशिकेन्द्र करुणेति गृणामि नित्यम् ॥ ५ ॥

श्रेयस्करी प्रकटमेव तवाभिधानं

यत्रास्ति तत्र रविवत्प्रथमानवीर्यं ।

ब्रह्मेन्द्ररुद्रमरुदादि गृहाणि सौख्यैः

पूर्णानि नाममहिमा प्रथितस्त्रिलोक्याम् ॥ ६ ॥

श्रेयस्करि प्रणतवत्सलता त्वयीति

वाचं शृणुष्व सरलां सरसां च सत्याम् ।

भक्त्या नतोऽस्मि विनतोऽस्मि सुमङ्गले त्वत्-

पादाम्बुजे प्रणिहिते मयि सन्निधत्स्व ॥ ७ ॥

श्रेयस्करीचरणसेवनतत्परेण

कृष्णेन भिक्षुवपुषा रचितं पठेद्यः ।

तस्य प्रसीदति सुरारिविमर्दनीय-

मम्बा तनोति सदनेषु सुमङ्गलानि ॥ ८ ॥

यथामति कृतस्तुतौ मुदमुपैति माता न किं

यथावि भवदानतो मुदमुपैति पात्रं न किं ।

भवानि तव संस्तुतिं विरचितुं नचाहं

क्षमस्तथापि मुदमेष्यसि प्रदिशसीष्टमम्ब त्वरात् ॥ ९ ॥

इति श्रेयस्करी स्तोत्रम् ॥

shreyaskari stotram