Skip to main content
पडताळणी प्रलंबित

श्री वाराही द्वादशनाम स्तोत्रम्

हयग्रीव उवाच ।

शृणु द्वादशनामानि तस्या देव्या घटोद्भव ।

यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति ॥ १ ॥

पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी ।

तथा समयसङ्केता वाराही पोत्रिणी शिवा ॥ २ ॥

वार्ताली च महासेनाप्याज्ञाचक्रेश्वरी तथा ।

अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने ॥ ३ ॥

नामद्वादशकाभिख्य वज्रपञ्जर मध्यगः ।

सङ्कटे दुःखमाप्नोति न कदाचन मानवः ॥ ४ ॥

एतैर्नामभिरभ्रस्थाः सङ्केतां बहु तुष्टुवुः ।

तेषामनुग्रहार्थाय प्रचचाल च सा पुनः ॥ ५ ॥

इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने सप्तदशोध्याये श्री वाराही द्वादशनाम स्तोत्रम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri varahi dwadasa nama stotram