Skip to main content
पडताळणी प्रलंबित

गुह पञ्चरत्नम्

ओङ्कारनगरस्थं तं निगमान्तवनेश्वरम् ।

नित्यमेकं शिवं शान्तं वन्दे गुहमुमासुतम् ॥ १ ॥

वाचामगोचरं स्कन्दं चिदुद्यानविहारिणम् ।

गुरुमूर्तिं महेशानं वन्दे गुहमुमासुतम् ॥ २ ॥

सच्चिदनन्दरूपेशं संसारध्वान्तदीपकम् ।

सुब्रह्मण्यमनाद्यन्तं वन्दे गुहमुमासुतम् ॥ ३ ॥

स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम् ।

निष्कलङ्कं गुणातीतं वन्दे गुहमुमासुतम् ॥ ४ ॥

निराकारं निराधारं निर्विकारं निरामयम् ।

निर्द्वन्द्वं च निरालम्बं वन्दे गुहमुमासुतम् ॥ ५ ॥

इति गुहपञ्चरत्नम् ॥

guha pancharatnam