Skip to main content
पडताळणी प्रलंबित

श्री गायत्री अष्टकम् – २

सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदां

शिवामाद्यां वन्द्यां त्रिभुवनमयीं वेदजननीम् ।

परां शक्तिं स्रष्टुं विविधविधरूपां गुणमयीं

भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ १ ॥

विशुद्धां सत्त्वस्थामखिलदुरवस्थादिहरणीं

निराकारां सारां सुविमल तपोमूर्तिमतुलाम् ।

जगज्ज्येष्ठां श्रेष्ठामसुरसुरपूज्यां श्रुतिनुतां

भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ २ ॥

तपोनिष्ठाभीष्टां स्वजनमनसन्तापशमनीं

दयामूर्तिं स्फूर्तिं यतितति प्रसादैकसुलभाम् ।

वरेण्यां पुण्यां तां निखिलभवबन्धापहरणीं

भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ३ ॥

सदाराध्यां साध्यां सुमतिमतिविस्तारकरणीं

विशोकामालोकां हृदयगतमोहान्धहरणीम् ।

परां दिव्यां भव्यामगमभवसिन्ध्वेक तरणीं

भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ४ ॥

अजां द्वैतां त्रैतां विविधगुणरूपां सुविमलां

तमोहन्त्रीं तन्त्रीं श्रुतिमधुरनादां रसमयीम् ।

महामान्यां धन्यां सततकरुणाशील विभवां

भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ५ ॥

जगद्धात्रीं पात्रीं सकलभवसंहारकरणीं

सुवीरां धीरां तां सुविमल तपोराशिसरणीम् ।

अनेकामेकां वै त्रिजगत्सदधिष्ठानपदवीं

भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ६ ॥

प्रबुद्धां बुद्धां तां स्वजनततिजाड्यापहरणीं

हिरण्यां गुण्यां तां सुकविजन गीतां सुनिपुणीम् ।

सुविद्यां निरवद्याममलगुणगाथां भगवतीं

भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ७ ॥

अनन्तां शान्तां यां भजति बुधवृन्दः श्रुतिमयीं

सुगेयां ध्येयां यां स्मरति हृदि नित्यं सुरपतिः ।

सदा भक्त्या शक्त्या प्रणतमतिभिः प्रीतिवशगां

भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ ८ ॥

शुद्धचित्तः पठेद्यस्तु गायत्र्या अष्टकं शुभम् ।

अहो भाग्यो भवेल्लोके तस्मिन् माता प्रसीदति ॥ ९ ॥

इति श्री गायत्री अष्टकम् ॥

sri gayatri ashtakam 2