Skip to main content
पडताळणी प्रलंबित

बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।

त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।

शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।

शुद्ध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ३ ॥

सालग्रामशिलामेकां जातु विप्राय योऽर्पयेत् ।

सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् ॥ ४ ॥

दन्तिकोटिसहस्राणि वाजपेयशतानि च ।

कोटिकन्यामहादानां एकबिल्वं शिवार्पणम् ॥ ५ ॥

पार्वत्याः स्वेदसञ्जातं महादेवस्य च प्रियम् ।

बिल्ववृक्षं नमस्यामि एकबिल्वं शिवार्पणम् ॥ ६ ॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ७ ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।

अग्रतः शिवरूपाय एकबिल्वं शिवार्पणम् ॥ ८ ॥

बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।

सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ ९ ॥

इति बिल्वाष्टकम् ॥

bilvashtakam in hindi