Skip to main content
पडताळणी प्रलंबित

श्री वासवीकन्यकाष्टकम्

नमो देव्यै सुभद्रायै कन्यकायै नमो नमः ।

शुभं कुरु महादेवि वासव्यैच नमो नमः ॥ १ ॥

जयायै चन्द्ररूपायै चण्डिकायै नमो नमः ।

शान्तिमावहनोदेवि वासव्यै ते नमो नमः ॥ २ ॥

नन्दायैते नमस्तेस्तु गौर्यै देव्यै नमो नमः ।

पाहिनः पुत्रदाराम्श्च वासव्यै ते नमो नमः ॥ ३ ॥

अपर्णायै नमस्तेस्तु कौसुंभ्यै ते नमो नमः ।

नमः कमलहस्तायै वासव्यै ते नमो नमः ॥ ४ ॥

चतुर्भुजायै शर्वाण्यै शुकपाण्यै नमो नमः ।

सुमुखायै नमस्तेस्तु वासव्यै ते नमो नमः ॥ ५ ॥

कमलायै नमस्तेस्तु विष्णुनेत्र कुलालये ।

मृडान्यैते नमस्तेस्तु वासव्यै ते नमो नमः ॥ ६ ॥

नमश्शीतलपादायै नमस्ते परमेश्वरी ।

श्रियं नोदेहि मातस्त्वं वासव्यै ते नमो नमः ॥ ७ ॥

त्वत्पादपद्मविन्यासं चन्द्रमण्डल शीतलं ।

गृहेषु सर्वदाऽस्माकं देहि श्री परमेश्वरि ॥ ८ ॥

sri vasavi kanyaka ashtakam