Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती सहस्रनाम स्तोत्रम्

ध्यानम् –

श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-

-मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना ।

सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता

वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥

श्री नारद उवाच ।

भगवन् परमेशान सर्वलोकैकनायक ।

कथं सरस्वती साक्षात् प्रसन्ना परमेष्ठिनः ॥ २ ॥

कथं देव्या महावाण्याः सतत्प्राप सुदुर्लभम् ।

एतन्मे वद तत्त्वेन महायोगीश्वर प्रभो ॥ ३ ॥

श्री सनत्कुमार उवाच ।

साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्यमनुत्तमम् ।

मयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते ॥ ४ ॥

पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम् ।

निर्विकारं निराभासं स्तम्भीभूतमचेतसम् ॥ ५ ॥

सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम् ।

आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः ॥ ६ ॥

दिव्यवर्षायुतं तेन तपो दुष्करमुत्तमम् ।

ततः कदाचित्सञ्जाता वाणी सर्वार्थशोभिता ॥ ७ ॥

अहमस्मि महाविद्या सर्ववाचामधीश्वरी ।

मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम् ॥ ८ ॥

अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम् ।

त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति ॥ ९ ॥

इदं रहस्यं परमं मम नामसहस्रकम् ।

सर्वपापौघशमनं महासारस्वतप्रदम् ॥ १० ॥

महाकवित्वदं लोके वागीशत्वप्रदायकम् ।

त्वं वा परः पुमान्यस्तु स्तवेनाऽनेन तोषयेत् ॥ ११ ॥

तस्याहं किङ्करी साक्षाद्भविष्यामि न संशयः ।

इत्युक्त्वान्तर्दधे वाणी तदारभ्य पितामहः ॥ १२ ॥

स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान् ।

वाणीयुक्तं जगत्सर्वं तदारभ्याभवन्मुने ॥ १३ ॥

तत्तेहं सम्प्रवक्ष्यामि शृणु यत्नेन नारद ।

सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः ॥ १४ ॥

अथ स्तोत्रम् ।

[** ऐं वद वद वाग्वादिनी स्वाहा **]

वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा ।

वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा ॥ १ ॥

विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी ।

वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी ॥ २ ॥

वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी ।

विश्वाराध्या विश्वमाता विश्वधात्री विनायका ॥ ३ ॥

विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी ।

वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका ॥ ४ ॥

वेदज्ञा वेदजननी विश्वा विश्वविभावरी ।

वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी ॥ ५ ॥

विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका ।

व्यालघ्नी व्यालभूषाङ्गी विरजा वेदनायिका ॥ ६ ॥

वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी ।

विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया ॥ ७ ॥

वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता ।

वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा ॥ ८ ॥

[** ओं ह्रीं गुरुरूपे मां गृह्ण ऐं वद वद वाग्वादिनि स्वाहा **]

गौरी गुणवती गोप्या गन्धर्वनगरप्रिया ।

गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया ॥ ९ ॥

गिरिविद्या गानतुष्टा गायकप्रियकारिणी ।

गायत्री गिरिशाराध्या गीर्गिरीशप्रियङ्करी ॥ १० ॥

गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी ।

गीर्माता गणसंस्तुत्या गणनीयगुणान्विता ॥ ११ ॥

गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका ।

गुर्वी गुर्वम्बिका गुह्या गेयजा ग्रहनाशिनी ॥ १२ ॥

गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला ।

गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी ॥ १३ ॥

गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता ।

गरुडासनसंसेव्या गोमती गुणशालिनी ॥ १४ ॥

[** ओं ऐं नमः शारदे श्रीं शुद्धे नमः शारदे ऐं वद वद वाग्वादिनि स्वाहा **]

शारदा शाश्वती शैवी शाङ्करी शङ्करात्मिका ।

श्रीः शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना ॥ १५ ॥

शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी ।

शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया ॥ १६ ॥

शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी ।

शिवा शिवङ्करी शुद्धा शिवाराध्या शिवात्मिका ॥ १७ ॥

श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा ।

शान्तिः शान्तिकरी शान्ता शान्ताचारप्रियङ्करी ॥ १८ ॥

शीललभ्या शीलवती श्रीमाता शुभकारिणी ।

शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता ॥ १९ ॥

श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा ।

शिवेतरघ्नी शबरी श्रवणीयगुणान्विता ॥ २० ॥ [शर्वरी]

शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका ।

शमान्विता शमाराध्या शितिकण्ठप्रपूजिता ॥ २१ ॥

शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा ।

सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी ॥ २२ ॥

[** ओं ऐं वद वद वाग्वादिनि स्वाहा **]

सरस्वती च सावित्री सन्ध्या सर्वेप्सितप्रदा ।

सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी ॥ २३ ॥

सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी ।

सर्वाराध्या सर्वमाता सर्वदेवनिषेविता ॥ २४ ॥

सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया ।

स्वरक्रमपदाकारा सर्वदोषनिषूदिनी ॥ २५ ॥

सहस्राक्षी सहस्रास्या सहस्रपदसम्युता ।

सहस्रहस्ता साहस्रगुणालङ्कृतविग्रहा ॥ २६ ॥

सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी ।

षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता ॥ २७ ॥

स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी ।

संशयच्छेदिनी साङ्ख्यवेद्या सङ्ख्या सदीश्वरी ॥ २८ ॥

सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी ।

सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी ॥ २९ ॥

सर्वाऽशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी ।

सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा ॥ ३० ॥

सर्वप्रियङ्करी सर्वशुभदा सर्वमङ्गला ।

सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा ॥ ३१ ॥

सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा ।

सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गला ॥ ३२ ॥

सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता ।

सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका ॥ ३३ ॥

सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा ।

सुप्रभा सर्वदा सर्वा सर्वलोकवशङ्करी ॥ ३४ ॥

सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका ।

सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी ॥ ३५ ॥

सुरूपिणी सुखमयी सेवकप्रियकारिणी ।

स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका ॥ ३६ ॥

साररूपा सरोरूपा सत्यभूता समाश्रया ।

सिताऽसिता सरोजाक्षी सरोजासनवल्लभा ॥ ३७ ॥

सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता ।

[** ओं ह्रीं ऐं महासरस्वति महासारस्वतप्रदे ऐं वद वद वाग्वादिनि स्वाहा **]

महादेवी महेशानी महासारस्वतप्रदा ॥ ३८ ॥

महासरस्वती मुक्ता मुक्तिदा मलनाशिनी ।

महेश्वरी महानन्दा महामन्त्रमयी मही ॥ ३९ ॥

महालक्ष्मीर्महाविद्या माता मन्दरवासिनी ।

मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा ॥ ४० ॥

महामुक्तिर्महानित्या महासिद्धिप्रदायिनी ।

महासिद्धा महामाता महदाकारसम्युता ॥ ४१ ॥

महा महेश्वरी मूर्तिः मोक्षदा मणिभूषणा ।

मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी ॥ ४२ ॥

मदिराक्षी मदावासा मखरूपा मखेश्वरी ।

महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता ॥ ४३ ॥

महापुण्या मुदावासा महासम्पत्प्रदायिनी ।

मणिपूरैकनिलया मधुरूपा महोत्कटा ॥ ४४ ॥

महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी ।

मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया ॥ ४५ ॥

मा महादेवसंस्तुत्या महिषीगणपूजिता ।

मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी ॥ ४६ ॥

मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी ।

मुख्या महानिवासा च महाभाग्यजनाश्रिता ॥ ४७ ॥

महिला महिमा मृत्युहारी मेधाप्रदायिनी ।

मेध्या महावेगवती महामोक्षफलप्रदा ॥ ४८ ॥

महाप्रभाभा महती महादेवप्रियङ्करी ।

महापोषा महर्धिश्च मुक्ताहारविभूषणा ॥ ४९ ॥

माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा ।

मनोरूपा मनःशुद्धिः मनःशुद्धिप्रदायिनी ॥ ५० ॥

महाकारुण्यसम्पूर्णा मनोनमनवन्दिता ।

महापातकजालघ्नी मुक्तिदा मुक्तभूषणा ॥ ५१ ॥

मनोन्मनी महास्थूला महाक्रतुफलप्रदा ।

महापुण्यफलप्राप्या मायात्रिपुरनाशिनी ॥ ५२ ॥

महानसा महामेधा महामोदा महेश्वरी ।

मालाधरी महोपाया महातीर्थफलप्रदा ॥ ५३ ॥

महामङ्गलसम्पूर्णा महादारिद्र्यनाशिनी ।

महामखा महामेघा महाकाली महाप्रिया ॥ ५४ ॥

महाभूषा महादेहा महाराज्ञी मुदालया ।

[** ओं ह्रीं ऐं नमो भगवति ऐं वद वद वाग्वादिनि स्वाहा **]

भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी ॥ ५५ ॥

भवानी भूतिदा भूतिः भूमिर्भूमिसुनायिका ।

भूतधात्री भयहरी भक्तसारस्वतप्रदा ॥ ५६ ॥

भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी ।

भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा ॥ ५७ ॥

भागीरथी भवाराध्या भाग्यसज्जनपूजिता ।

भवस्तुत्या भानुमती भवसागरतारिणी ॥ ५८ ॥

भूतिर्भूषा च भूतेशी भाललोचनपूजिता ।

भूता भव्या भविष्या च भवविद्या भवात्मिका ॥ ५९ ॥

बाधापहारिणी बन्धुरूपा भुवनपूजिता ।

भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा ॥ ६० ॥

भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा ।

भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी ॥ ६१ ॥

भाविनी भ्रातृरूपा च भारती भवनायिका ।

भाषा भाषावती भीष्मा भैरवी भैरवप्रिया ॥ ६२ ॥

भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका ।

भास्वती भगमाला च भिक्षादानकृतोद्यमा ॥ ६३ ॥

भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी ।

भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी ॥ ६४ ॥

भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा ।

भोगवती भोगरूपा भोगमोक्षफलप्रदा ॥ ६५ ॥

भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी ।

[** ओं ऐं क्लीं सौः बाले ब्राह्मि ब्रह्मपत्नि ऐं वद वद वाग्वादिनि स्वाहा **]

ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा ॥ ६६ ॥

ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी ।

ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया ॥ ६७ ॥

बालेन्दुशेखरा बाला बलिपूजाकरप्रिया ।

बलदा बिन्दुरूपा च बालसूर्यसमप्रभा ॥ ६८ ॥

ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा ।

ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी ॥ ६९ ॥

बन्धक्षयकरी बाधानाशिनी बन्धुरूपिणी ।

बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता ॥ ७० ॥

बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी ।

बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी ॥ ७१ ॥

ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा ।

ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता ॥ ७२ ॥

बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी ।

[** ओं ह्रीं ऐं अं आं इं ईं उं ऊं ऋं ॠं लुं* लूं* एं ऐं ओं औं कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं अक्षमाले अक्षरमालिका समलङ्कृते वद वद वाग्वादिनि स्वाहा **]

अक्षमालाऽक्षराकाराऽक्षराऽक्षरफलप्रदा ॥ ७३ ॥

अनन्ताऽऽनन्दसुखदाऽनन्तचन्द्रनिभानना ।

अनन्तमहिमाऽघोरानन्तगम्भीरसम्मिता ॥ ७४ ॥

अदृष्टाऽदृष्टदाऽनन्ताऽदृष्टभाग्यफलप्रदा ।

अरुन्धत्यव्ययीनाथाऽनेकसद्गुणसम्युता ॥ ७५ ॥

अनेकभूषणाऽदृश्याऽनेकलेखनिषेविता ।

अनन्ताऽनन्तसुखदाऽघोराऽघोरस्वरूपिणी ॥ ७६ ॥

अशेषदेवतारूपाऽमृतरूपाऽमृतेश्वरी ।

अनवद्याऽनेकहस्ताऽनेकमाणिक्यभूषणा ॥ ७७ ॥

अनेकविघ्नसंहर्त्री अनेकाभरणान्विता ।

अविद्याऽज्ञानसंहर्त्री ह्यविद्याजालनाशिनी ॥ ७८ ॥

अभिरूपाऽनवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा ।

अकलङ्कारूपिणी च ह्यनुग्रहपरायणा ॥ ७९ ॥

अम्बरस्थाऽम्बरमयाऽम्बरमालाऽम्बुजेक्षणा ।

अम्बिकाऽब्जकराऽब्जस्थाऽम्शुमत्यऽम्शुशतान्विता ॥ ८० ॥

अम्बुजाऽनवराऽखण्डाऽम्बुजासनमहाप्रिया ।

अजरामरसंसेव्याऽजरसेवितपद्युगा ॥ ८१ ॥

अतुलार्थप्रदाऽर्थैक्याऽत्युदारा त्वभयान्विता ।

अनाथवत्सलाऽनन्तप्रियाऽनन्तेप्सितप्रदा ॥ ८२ ॥

अम्बुजाक्ष्यम्बुरूपाऽम्बुजातोद्भवमहाप्रिया ।

अखण्डा त्वमरस्तुत्याऽमरनायकपूजिता ॥ ८३ ॥

अजेया त्वजसङ्काशाऽज्ञाननाशिन्यभीष्टदा ।

अक्ताऽघनेना चाऽस्त्रेशी ह्यलक्ष्मीनाशिनी तथा ॥ ८४ ॥

अनन्तसाराऽनन्तश्रीरनन्तविधिपूजिता ।

अभीष्टामर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता ॥ ८५ ॥

आस्तिकस्वान्तनिलयाऽस्त्ररूपाऽस्त्रवती तथा ।

अस्खलत्यस्खलद्रूपाऽस्खलद्विद्याप्रदायिनी ॥ ८६ ॥

अस्खलत्सिद्धिदाऽऽनन्दाऽम्बुजा चामरनायिका ।

अमेयाऽशेषपापघ्न्यक्षयसारस्वतप्रदा ॥ ८७ ॥

[** ओं ज्यां ह्रीं जय जय जगन्मातः ऐं वद वद वाग्वादिनि स्वाहा **]

जया जयन्ती जयदा जन्मकर्मविवर्जिता ।

जगत्प्रिया जगन्माता जगदीश्वरवल्लभा ॥ ८८ ॥

जातिर्जया जितामित्रा जप्या जपनकारिणी ।

जीवनी जीवनिलया जीवाख्या जीवधारिणी ॥ ८९ ॥

जाह्नवी ज्या जपवती जातिरूपा जयप्रदा ।

जनार्दनप्रियकरी जोषणीया जगत्स्थिता ॥ ९० ॥

जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी ।

जीवातुलतिका जीवजन्मी जन्मनिबर्हणी ॥ ९१ ॥

जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका ।

जगदानन्दजननी जम्बूश्च जलजेक्षणा ॥ ९२ ॥

जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा ।

जटा जटावती जप्या जपकर्तृप्रियङ्करी ॥ ९३ ॥

जपकृत्पापसंहर्त्री जपकृत्फलदायिनी ।

जपापुष्पसमप्रख्या जपाकुसुमधारिणी ॥ ९४ ॥

जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी ।

जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा ॥ ९५ ॥

जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी ।

जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी ॥ ९६ ॥

जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका ।

जयलक्षणसम्पूर्णा जयदानकृतोद्यमा ॥ ९७ ॥

जम्भारात्यादिसंस्तुत्या जम्भारिफलदायिनी ।

जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशङ्करी ॥ ९८ ॥

जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना ।

ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका ॥ ९९ ॥

जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया ।

जरामरणशून्या च जनित्री जन्मनाशिनी ॥ १०० ॥

जलजाभा जलमयी जलजासनवल्लभा ।

जलजस्था जपाराध्या जनमङ्गलकारिणी ॥ १०१ ॥

[** ऐं क्लीं सौः कल्याणि कामधारिणि वद वद वाग्वादिनि स्वाहा **]

कामिनी कामरूपा च काम्या कामप्रदायिनी ।

कमौली कामदा कर्त्री क्रतुकर्मफलप्रदा ॥ १०२ ॥

कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी ।

कञ्जाक्षी करुणारूपा केवलामरसेविता ॥ १०३ ॥

कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी ।

कमला कमलावासा कमलोत्पलमालिनी ॥ १०४ ॥

कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा ।

कामेश्वरी कमलिनी कामदा कामबन्धिनी ॥ १०५ ॥

कामधेनुः काञ्चनाक्षी काञ्चनाभा कलानिधिः ।

क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी ॥ १०६ ॥

क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी ।

क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी ॥ १०७ ॥

कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना ।

कन्दर्पजननी कान्ता करुणा करुणावती ॥ १०८ ॥

क्लीङ्कारिणी कृपाकारा कृपासिन्धुः कृपावती ।

करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी ॥ १०९ ॥

क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी ।

कला कलावती कूर्मी कूटस्था कञ्जसंस्थिता ॥ ११० ॥

कालिका कल्मषघ्नी च कमनीयजटान्विता ।

करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा ॥ १११ ॥

कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा ।

कूर्मयाना कल्पलता कालकूटविनाशिनी ॥ ११२ ॥

कल्पोद्यानवती कल्पवनस्था कल्पकारिणी ।

कदम्बकुसुमाभासा कदम्बकुसुमप्रिया ॥ ११३ ॥

कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा ।

कुलमाता कुलावासा कुलाचारप्रियङ्करी ॥ ११४ ॥

कुलनाथा कामकला कलानाथा कलेश्वरी ।

कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका ॥ ११५ ॥

कवित्वदा काव्यमाता कविमाता कलाप्रदा ।

[** ओं सौः क्लीं ऐं वद वद वाग्वादिनि स्वाहा **]

तरुणी तरुणी ताता ताराधिपसमानना ॥ ११६ ॥

तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा ।

तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी ॥ ११७ ॥

त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी ।

त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका ॥ ११८ ॥

त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी ।

त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी ॥ ११९ ॥

तमालसदृशी त्राता तरुणादित्यसन्निभा ।

त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्त्वरूपिणी ॥ १२० ॥

तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी ।

त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता ॥ १२१ ॥

तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी ।

तुला तुलादिरहिता तत्तद्ब्रह्मस्वरूपिणी ॥ १२२ ॥

त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता ।

तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी ॥ १२३ ॥

तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता ।

त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा ॥ १२४ ॥

तेजस्विनी तापहरी तापोपप्लवनाशिनी ।

तेजोगर्भा तपःसारा त्रिपुरारिप्रियङ्करी ॥ १२५ ॥

तन्वी तापससन्तुष्टा तपनाङ्गजभीतिनुत् ।

त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता ॥ १२६ ॥

त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी ।

[** ओं ह्रीं श्रीं क्लीं ऐं नमः शुद्धफलदे ऐं वद वद वाग्वादिनि स्वाहा **]

शुभा शुभावती शान्ता शान्तिदा शुभदायिनी ॥ १२७ ॥

शीतला शूलिनी शीता श्रीमती च शुभान्विता ।

[** ओं ऐं यां यीं यूं यैं यौं यः ऐं वद वद वाग्वादिनि स्वाहा **]

योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता ॥ १२८ ॥

यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा ।

यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता ॥ १२९ ॥

यामिनीयप्रभा याम्या यजनीया यशस्करी ।

यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता ॥ १३० ॥

यज्ञेशी यज्ञफलदा योगयोनिर्यजुःस्तुता ।

यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी ॥ १३१ ॥

योगिनी योगरूपा च योगकर्तृप्रियङ्करी ।

योगयुक्ता योगमयी योगयोगीश्वराम्बिका ॥ १३२ ॥

योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगदा ।

यन्त्रिताघौघसंहारा यमलोकनिवारिणी ॥ १३३ ॥

यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक् ।

योगीश्वरी योगमाता योगसिद्धा च योगदा ॥ १३४ ॥

योगारूढा योगमयी योगरूपा यवीयसी ।

यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता ॥ १३५ ॥

युगकर्त्री युगमयी युगधर्मविवर्जिता ।

यमुना यमिनी याम्या यमुनाजलमध्यगा ॥ १३६ ॥

यातायातप्रशमनी यातनानां निकृन्तनी ।

योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी ॥ १३७ ॥

योगक्षेममयी यन्त्रा यावदक्षरमातृका ।

यावत्पदमयी यावच्छब्दरूपा यथेश्वरी ॥ १३८ ॥

यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता ।

यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता ॥ १३९ ॥

योगिहृत्पद्मनिलया योगिवर्यप्रियङ्करी ।

योगिवन्द्या योगिमाता योगीशफलदायिनी ॥ १४० ॥

यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता ।

यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी ॥ १४१ ॥

यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियङ्करी ।

यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा ॥ १४२ ॥

यजनीया यमस्तुत्या योगयुक्ता यशस्करी ।

योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी ॥ १४३ ॥

योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी ।

योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी ॥ १४४ ॥

फलश्रुतिः –

इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम् ।

मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम् ॥ १ ॥

यः पठेच्छृणुयाद्भक्त्या त्रिकालं साधकः पुमान् ।

सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम् ॥ २ ॥

लभते सम्पदः सर्वाः पुत्रपौत्रादिसम्युताः ।

मूकोऽपि सर्वविद्यासु चतुर्मुख इवापरः ॥ ३ ॥

भूत्वा प्राप्नोति सान्निध्यं अन्ते धातुर्मुनीश्वर ।

सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम् ॥ ४ ॥

महाकवित्वदं पुंसां महासिद्धिप्रदायकम् ।

कस्मैचिन्न प्रदातव्यं प्राणैः कण्ठगतैरपि ॥ ५ ॥

महारहस्यं सततं वाणीनामसहस्रकम् ।

सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम् ॥ ६ ॥

इति श्रीस्कान्दपुराणान्तर्गत सनत्कुमारसंहितायां नारदसनत्कुमारसंवादे श्री सरस्वती सहस्रनाम स्तोत्रम् ॥

sri saraswati sahasranama stotram