Skip to main content
पडताळणी प्रलंबित

श्री विघ्नेश्वर षोडशनाम स्तोत्रम्

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।

लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥ १ ॥ [गणाधिपः]

धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः ।

वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ २ ॥

षोडशैतानि नामानि यः पठेच्छृणुयादपि ।

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।

सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥ ३ ॥

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri vighneshwara shodasha nama stotram