Skip to main content
पडताळणी प्रलंबित

श्री गणेशाष्टकम् (व्यास कृतम्)

गणपतिपरिवारं चारुकेयूरहारं

गिरिधरवरसारं योगिनीचक्रचारम् ।

भवभयपरिहारं दुःखदारिद्र्यदूरं

गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ १ ॥

अखिलमलविनाशं पाणिना हस्तपाशं

कनकगिरिनिकाशं सूर्यकोटिप्रकाशम् ।

भज भवगिरिनाशं मालतीतीरवासं

गणपतिमभिवन्दे मानसे राजहंसम् ॥ २ ॥

विविधमणिमयूखैः शोभमानं विदूरैः

कनकरचितचित्रं कण्ठदेशे विचित्रम् ।

दधति विमलहारं सर्वदा यत्नसारं

गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३ ॥

दुरितगजममन्दं वारुणीं चैव वेदं

विदितमखिलनादं नृत्यमानन्दकन्दम् ।

दधति शशिसुवक्त्रं चाङ्कुशं यो विशेषं

गणपतिमभिवन्दे सर्वदानन्दकन्दम् ॥ ४ ॥

त्रिनयनयुतफाले शोभमाने विशाले

मुकुटमणिसुढाले मौक्तिकानां च जाले ।

धवलकुसुममाले यस्य शीर्ष्णः सताले

गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥ ५ ॥

वपुषि महति रूपं पीठमादौ सुदीपं

तदुपरि रसकोणं तस्य चोर्ध्वं त्रिकोणम् ।

गजमितदलपद्मं संस्थितं चारुछद्मं

गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥ ६ ॥

वरदविशदशस्तं दक्षिणं यस्य हस्तं

सदयमभयदं तं चिन्तये चित्तसंस्थम् ।

शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं

गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७ ॥

कल्पद्रुमाधः स्थितकामधेनुं

चिन्तामणिं दक्षिणपाणिशुण्डम् ।

बिभ्राणमत्यद्भुत चित्ररूपं

यः पूजयेत्तस्य समस्तसिद्धिः ॥ ८ ॥

व्यासाष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् ।

पठतां दुःखनाशाय विद्यां सश्रियमश्नुते ॥ ९ ॥

इति श्रीपद्मपुराणे उत्तरखण्डे व्यासविरचितं गणेशाष्टकम् ।

sri ganesha ashtakam vyasa krutam