Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म स्तुतिः (माहेश्वरतन्त्रे)

नमो नमस्ते जगदेककर्त्रे

नमो नमस्ते जगदेकपात्रे ।

नमो नमस्ते जगदेकहर्त्रे

रजस्तमःसत्त्वगुणाय भूम्ने ॥ १ ॥

अण्डं चतुर्विंशतितत्त्वजातं

तस्मिन् भवानेष विरञ्चिनामा ।

जगच्छरण्यो जगदुद्वमन् स्वयं

पितामहस्त्वं परिगीयसे बुधैः ॥ २ ॥

त्वं सर्वसाक्षी जगदन्तरात्मा

हिरण्यगर्भो जगदेककर्ता ।

हर्ता तथा पालयितासि देव

त्वत्तो न चान्यत् परमस्ति किञ्चित् ॥ ३ ॥

त्वमादिदेवः पुरुषः पुराणः

साक्षात् स्वयं ज्योतिरजः परेशः ।

त्वन्मायया मोहितचेतसो ये

पश्यन्ति नानात्त्वमहो त्वयीशे ॥ ४ ॥

त्वमाद्यः पुरुषः पूर्णस्त्वमनन्तो निराश्रयः ।

सृजसि त्वं च भूतानि भूतैरेवात्ममायया ॥ ५ ॥

त्वया सृष्टमिदं विश्वं सचराचरमोजसा ।

कथं न पालयस्येतत् ज्वलदाकस्मिकाग्निना ॥ ६ ॥

विनाशमेष्यति जगत् त्वया सृष्टमिदं प्रभो ।

न जानीमो वयं तत्र कारणं तद्विचिन्त्यताम् ॥ ७ ॥

कोऽयं वह्निरपूर्वोऽयमुत्थितः परितो ज्वलन् ।

तेनोद्विग्नमिदं विश्वं ससुरासुरमानवम् ॥ ८ ॥

तस्य त्वं शमनोपायं विचारय महामते ।

न चेदद्य भविष्यन्ति लोका भस्मावशेषिताः ॥ ९ ॥

इति श्रीमाहेश्वरतन्त्रान्तर्गता श्री ब्रह्मा स्तुतिः ।

sri brahma stuti maheshwara tantre