Skip to main content
पडताळणी प्रलंबित

श्री काली कर्पूर स्तोत्रम्

कर्पूरं मध्यमान्त्य स्वरपररहितं सेन्दुवामाक्षियुक्तं

बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति ।

तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः

स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम् ॥ १ ॥

ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि

द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् ।

जित्वा वाचामधीशं धनदमपि चिरं मोहयन्नम्बुजाक्षि

वृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबाणावतंसे ॥ २ ॥

ईशो वैश्वानरस्थः शशधरविलसद्वामनेत्रेण युक्तो

बीजं ते द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये जपन्ति ।

द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति

सृक्कद्वन्द्वास्रधाराद्वयधरवदने दक्षिणे कालिकेति ॥ ३ ॥

ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथोऽधः

सव्येऽभीतिं वरं च त्रिजगदघहरे दक्षिणे कालिके च ।

जप्त्वैतन्नाम ये वा तव विमलतनुं भावयन्त्येतदम्ब

तेषामष्टौ करस्थाः प्रकटितरदने सिद्धयस्त्र्यम्बकस्य ॥ ४ ॥

वर्गाद्यं वह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्चयुग्मं

लज्जाद्वन्द्वं च पश्चात् स्मितमुखितदधष्ठद्वयम्योजयित्वा ।

मातर्ये त्वां जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं

ते लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति ॥ ५ ॥

प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं

त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति ।

तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे

वाग्देवी देवि मुण्डस्रगतिशयलसत्कण्ठ पीनस्तनाढ्ये ॥ ६ ॥

गतासूनां बाहुप्रकरकृतकाञ्चीपरिलस-

-न्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयनाम् ।

श्मशानस्थे तल्पे शवहृदि महाकालसुरत-

-प्रसक्तां त्वां ध्यायन् जननि जडचेता अपि कविः ॥ ७ ॥

शिवाभिर्घोराभिः शवनिवहमुण्डाऽस्थि निकरैः

परं सङ्कीर्णायां प्रकटितचितायां हरवधूम् ।

प्रविष्टां सन्तुष्टामुपरिसुरतेनाति युवती

सदा त्वां ध्यायन्ति क्वचिदपि न तेषां परिभवः ॥ ८ ॥

वदामस्ते किं वा जननि वयमुच्चैर्जडधियो

न धाता नापीशो हरिरपि न ते वेत्ति परमम् ।

तथापि त्वद्भक्तिर्मुखरयति चास्माकमसिते

तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९ ॥

समन्तादापीनस्तनजघनदृग्यौवनवती

रतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् ।

विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः

समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः ॥ १० ॥

समाः स्वस्थीभूतां जपति विपरीतां यदि सदा

विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् ।

तदा तस्य क्षोणीतलविहरमाणस्य विदुषः

कराम्भोजे वश्या हरवधु महासिद्धि निवहाः ॥ ११ ॥

प्रसूते संसारं जननि जगतीं पालयति च

समस्तं क्षित्यादि प्रलयसमये संहरति च ।

अतस्त्वां धाताऽपि त्रिभुवनपतिः श्रीपतिरपि

महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥ १२ ॥

अनेके सेवन्ते भवदधिकगीर्वाणनिवहान्

विमूढास्ते मातः किमपि न हि जानन्ति परमम् ।

समाराध्यामाद्यां हरिहरविरिञ्च्यादिविबुधैः

प्रपन्नोऽस्मि स्वैरं रतिरसमहानन्दनिरताम् ॥ १३ ॥

धरित्री कीलालं शुचिरपि समीरोऽपि गगनं

त्वमेका कल्याणी गिरिशरमणी कालि सकलम् ।

स्तुतिः का ते मातस्तव करुणया मामगतिकं

प्रसन्ना त्वं भूया भवमननुभूयान्मम जनुः ॥ १४ ॥

श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः

सहस्रं त्वर्काणां निजगलितवीर्येण कुसुमम् ।

जपंस्त्वत् प्रत्येकं मनुमपि तव ध्याननिरतो

महाकालि स्वैरं स भवति धरित्री परिवृढः ॥ १५ ॥

गृहे सम्मार्जन्या परिगलित वीर्यं हि चिकुरं

समूलं मध्याह्ने वितरति चितायां कुजदिने ।

समुच्चार्य प्रेम्णा मनुमपि सकृत् कालि सततं

गजारूढो याति क्षितिपरिवृढः सत्कविवरः ॥ १६ ॥

सुपुष्पैराकीर्णं कुसुमधनुषोमन्दिरमहो

पुरो ध्यायन् ध्यायन् यदि जपति भक्तस्तव मनुम् ।

सगन्धर्वश्रेणीपतिरपि कवित्वामृतनदी

नदीनः पर्यन्ते परमपदलीनः प्रभवति ॥ १७ ॥

त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां

महाकालेनोच्चैर्मदनरसलावण्यनिरताम् ।

समासक्तो नक्तं स्वयमपि रतानन्दनिरतो

जनो यो ध्यायेत्त्वां जननि किल सस्यात् स्मरहरः ॥ १८ ॥

सलोमास्थि स्वैरं पललमपि मार्जारमसिते

परं चौष्ट्रं मैषं नरमहिषयोश्छागमपि वा ।

बलिं ते पूजायामपि वितरतां मर्त्यवसतां

सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति ॥ १९ ॥

वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो

दिवा मातर्युष्मच्चरणयुगल ध्यान निपुणः ।

परं नक्तं नग्नो निधुवन विनोदेन च मनुं

जपेल्लक्षं सम्यक् स्मरहरसमानः क्षितितले ॥ २० ॥

इदं स्तोत्रं मातस्तव मनुसमुद्धारण जनुः

स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् ।

निशार्धे वा पूजासमयमधि वा यस्तु पठति

प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१ ॥

कुरङ्गाक्षीबृन्दं तमनुसरति प्रेमतरलं

वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः ।

रिपुः कारागारं कलयति च तं केलिकलया

चिरं जीवन्मुक्तः स भवति च भक्तः प्रतिजनुः ॥ २२ ॥

इति श्रीमहाकालविरचितं श्री काली कर्पूर स्तोत्रम् ।

sri kali karpura stotram