Skip to main content
पडताळणी प्रलंबित

श्री गौरी नवरत्नमालिका स्तवः

वाणीं जितशुकवाणी मलिकुलवेणीं भवाम्बुधिद्रोणिं ।

वीणाशुकशिशुपाणिं नतगीर्वाणीं नमामि शर्वाणीम् ॥ १ ॥

कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीम् ।

लोचनविजितकुरङ्गीं मातङ्गीं न्ॐइ शङ्करार्धाङ्गीम् ॥ २ ॥

कमलां कमलजकान्तां कलसारसदत्तकान्तकरकमलां ।

करयुगलविधृतकमलां विमलाङ्कमलाङ्कचूडसकलकलाम् ॥ ३ ॥

सुन्दरहिमकरवदनां कुन्दसुरदनां मुकुन्दनिधिसदनां ।

करुणोज्जीवितमदनां सुरकुशलायासुरेषु कृतदमनाम् ॥ ४ ॥

अरुणाधरजितबिम्बां जगदम्बां गमनविजितकादम्बां ।

पालितसुतजनकदम्बां पृथुलनितम्बां भजे सहेरम्बाम् ॥ ५ ॥

शरणागतजनभरणां करुणावरुणालयाब्जचरणां ।

मणिमयदिव्याभरणां चरणाम्भोजातसेवकोद्धरणाम् ॥ ६ ॥

तुङ्गस्तनजितकुम्भां कृतपरिरम्भां शिवेन गुहडिंभां ।

दारितशुम्भनिशुम्भां नर्तितरम्भां पुरो विगतदम्भाम् ॥ ७ ॥

नतजनरक्षादीक्षां दक्षां प्रत्यक्षदैवताध्यक्षाम् ।

वाहीकृतहर्यक्षां क्षपितविपक्षां सुरेषु कृतरक्षाम् ॥ ८ ॥

धन्यां सुरवरमान्यां हिमगिरिकन्यान्त्रिलोकमूर्धन्यां ।

विहृतसुरद्रुमवन्यां वेद्मि विना त्वांनदेवतामन्याम् ॥ ९ ॥

एतां नवमणिमालां पठन्ति भक्त्येहा ये पराशक्त्या ।

तेषां वदने सदने नृत्यति वाणी रमा च परममुदा ॥ १० ॥

sri gauri navaratnamalika stava