Skip to main content
पडताळणी प्रलंबित

श्री गायत्री अष्टोत्तरशतनाम स्तोत्रम् २

अस्य श्रीगायत्र्यष्टोत्तरशत दिव्यनामस्तोत्र मन्त्रस्य ब्रह्माविष्णुमहेश्वरा ऋषयः ऋग्यजुस्सामाथर्वाणि छन्दांसि परब्रह्मस्वरूपिणी गायत्री देवता ओं तद्बीजं भर्गः शक्तिः धियः कीलकं मम गायत्रीप्रसाद सिद्ध्यर्थे जपे विनियोगः ।

तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला ।

स्यन्दनोपरिसंस्थाना धीरा जीमूतनिस्स्वना ॥ १ ॥

मत्तमातङ्गगमना हिरण्यकमलासना ।

धीजनोद्धारनिरता योगिनी योगधारिणी ॥ २ ॥

नटनाट्यैकनिरता प्रणवाद्यक्षरात्मिका ।

घोराचारक्रियासक्ता दारिद्र्यच्छेदकारिणी ॥ ३ ॥

यादवेन्द्रकुलोद्भूता तुरीयपदगामिनी ।

गायत्री गोमती गङ्गा गौतमी गरुडासना ॥ ४ ॥

गेया गानप्रिया गौरी गोविन्दपरिपूजिता ।

गन्धर्वनगराकारा गौरवर्णा गणेश्वरी ॥ ५ ॥

गुणाश्रया गुणवती गुह्यका गणपूजिता ।

गुणत्रयसमायुक्ता गुणत्रयविवर्जिता ॥ ६ ॥

गुहावासा गुहाचारा गुह्या गन्धर्वरूपिणी ।

गार्ग्यप्रिया गुरुपथा गुह्यलिङ्गाङ्कधारिणी ॥ ७ ॥

सावित्री सूर्यतनया सुषुम्णानाडिभेदिनी ।

सुप्रकाशा सुखासीना सुव्रता सुरपूजिता ॥ ८ ॥

सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ।

सुधांशुबिम्बवदना सुस्तनी सुविलोचना ॥ ९ ॥

शुभ्रांशुनासा सुश्रोणी संसारार्णवतारिणी ।

सामगानप्रिया साध्वी सर्वाभरणभूषिता ॥ १० ॥

सीता सर्वाश्रया सन्ध्या सफला सुखदायिनी ।

वैष्णवी विमलाकारा माहेन्द्री मातृरूपिणी ॥ ११ ॥

महालक्ष्मीर्महासिद्धिर्महामाया महेश्वरी ।

मोहिनी मदनाकारा मधुसूदनसोदरी ॥ १२ ॥

मीनाक्षी क्षेमसम्युक्ता नगेन्द्रतनया रमा ।

त्रिविक्रमपदाक्रान्ता त्रिसर्वा त्रिविलोचना ॥ १३ ॥

सूर्यमण्डलमध्यस्था चन्द्रमण्डलसंस्थिता ।

वह्निमण्डलमध्यस्था वायुमण्डलसंस्थिता ॥ १४ ॥

व्योममण्डलमध्यस्था चक्रस्था चक्ररूपिणी ।

कालचक्रविधानज्ञा चन्द्रमण्डलदर्पणा ॥ १५ ॥

ज्योत्स्नातपेनलिप्ताङ्गी महामारुतवीजिता ।

सर्वमन्त्राश्रिता धेनुः पापघ्नी परमेश्वरी ॥ १६ ॥

चतुर्विंशतिवर्णाढ्या चतुर्वर्गफलप्रदा ।

मन्देहराक्षसघ्नी च षट्कुक्षिः त्रिपदा शिवा ॥ १७ ॥

जपपारायणप्रीता ब्राह्मण्यफलदायिनी ।

नमस्तेऽस्तु महालक्ष्मी महासम्पत्तिदायिनि ॥ १८ ॥

नमस्ते करुणामूर्ते नमस्ते भक्तवत्सले ।

गायत्रीं पूजयेद्यस्तु शतैरष्टोत्तरैः पृथक् ॥ १९ ॥

तस्य पुण्यफलं वक्तुं ब्रह्मणापि न शक्यते ।

प्रातःकाले च मध्याह्ने सायाह्ने च रघूत्तम ॥ २० ॥

ये पठन्तीह लोकेऽस्मिन् सर्वान् कामानवाप्नुयात् ।

पठनादेव गायत्री नाम्नामष्टोत्तरं शतम् ॥ २१ ॥

ब्रह्महत्यादि पापेभ्यो मुच्यते नात्र संशयः ।

दिने दिने पठेद्यस्तु गायत्रीस्तवमुत्तमम् ॥ २२ ॥

स नरो मुक्तिमाप्नोति पुनरावृत्तिवर्जितम् ।

पुत्रप्रदमपुत्राणां दरिद्राणां धनप्रदम् ॥ २३ ॥

रोगिणां रोगशमनं सर्वैश्वर्यप्रदायकम् ।

बहुना किमिहोक्तेन स्तोत्रं सर्वफलप्रदम् ॥ २४ ॥

इति श्रीविश्वामित्र प्रोक्तं श्री गायत्र्यष्टोत्तरशतनाम स्तोत्रम् ।

sri gayathri ashtottara sata nama stotram in hindi