Skip to main content
पडताळणी प्रलंबित

श्री चिदम्बरेश्वर स्तोत्रम्

कृपासमुद्रं सुमुखं त्रिनेत्रं

जटाधरं पार्वतीवामभागम् ।

सदाशिवं रुद्रमनन्तरूपं

चिदम्बरेशं हृदि भावयामि ॥ १ ॥

वाचामतीतं फणिभूषणाङ्गं

गणेशतातं धनदस्य मित्रम् ।

कन्दर्पनाशं कमलोत्पलाक्षं

चिदम्बरेशं हृदि भावयामि ॥ २ ॥

रमेशवन्द्यं रजताद्रिनाथं

श्रीवामदेवं भवदुःखनाशम् ।

रक्षाकरं राक्षसपीडितानां

चिदम्बरेशं हृदि भावयामि ॥ ३ ॥

देवादिदेवं जगदेकनाथं

देवेशवन्द्यं शशिखण्डचूडम् ।

गौरीसमेतं कृतविघ्नदक्षं

चिदम्बरेशं हृदि भावयामि ॥ ४ ॥

वेदान्तवेद्यं सुरवैरिविघ्नं

शुभप्रदं भक्तिमदन्तराणाम् ।

कालान्तकं श्रीकरुणाकटाक्षं

चिदम्बरेशं हृदि भावयामि ॥ ५ ॥

हेमाद्रिचापं त्रिगुणात्मभावं

गुहात्मजं व्याघ्रपुरीशमाद्यम् ।

श्मशानवासं वृषवाहनस्थं

चिदम्बरेशं हृदि भावयामि ॥ ६ ॥

आद्यन्तशून्यं त्रिपुरारिमीशं

नन्दीशमुख्यस्तुतवैभवाढ्यम् ।

समस्तदेवैः परिपूजिताङ्घ्रिं

चिदम्बरेशं हृदि भावयामि ॥ ७ ॥

तमेव भान्तं ह्यनुभातिसर्व-

-मनेकरूपं परमार्थमेकम् ।

पिनाकपाणिं भवनाशहेतुं

चिदम्बरेशं हृदि भावयामि ॥ ८ ॥

विश्वेश्वरं नित्यमनन्तमाद्यं

त्रिलोचनं चन्द्रकलावतंसम् ।

पतिं पशूनां हृदि सन्निविष्टं

चिदम्बरेशं हृदि भावयामि ॥ ९ ॥

विश्वाधिकं विष्णुमुखैरुपास्यं

त्रिलोचनं पञ्चमुखं प्रसन्नम् ।

उमापतिं पापहरं प्रशान्तं

चिदम्बरेशं हृदि भावयामि ॥ १० ॥

कर्पूरगात्रं कमनीयनेत्रं

कंसारिमित्रं कमलेन्दुवक्त्रम् ।

कन्दर्पगात्रं कमलेशमित्रं

चिदम्बरेशं हृदि भावयामि ॥ ११ ॥

विशालनेत्रं परिपूर्णगात्रं

गौरीकलत्रं हरिदम्बरेशम् ।

कुबेरमित्रं जगतः पवित्रं

चिदम्बरेशं हृदि भावयामि ॥ १२ ॥

कल्याणमूर्तिं कनकाद्रिचापं

कान्तासमाक्रान्तनिजार्धदेहम् ।

कपर्दिनं कामरिपुं पुरारिं

चिदम्बरेशं हृदि भावयामि ॥ १३ ॥

कल्पान्तकालाहितचण्डनृत्तं

समस्तवेदान्तवचोनिगूढम् ।

अयुग्मनेत्रं गिरिजासहायं

चिदम्बरेशं हृदि भावयामि ॥ १४ ॥

दिगम्बरं शङ्खसिताल्पहासं

कपालिनं शूलिनमप्रयेम् ।

नागात्मजावक्त्रपयोजसूर्यं

चिदम्बरेशं हृदि भावयामि ॥ १५ ॥

सदाशिवं सत्पुरुषैरनेकैः

सदार्चितं सामशिरः सुगीतम् ।

वैय्याघ्रचर्माम्बरमुग्रमीशं

चिदम्बरेशं हृदि भावयामि ॥ १६ ॥

चिदम्बरस्य स्तवनं पठेद्यः

प्रदोषकालेषु पुमान् स धन्यः ।

भोगानशेषाननुभूय भूयः

सायुज्यमप्येति चिदम्बरस्य ॥ १७ ॥

इति श्रीचिदम्बरेश्वर स्तोत्रं सम्पूर्णम् ।

sri chidambareshwara stotram