Skip to main content
पडताळणी प्रलंबित

श्री दुर्गा चन्द्रकला स्तुतिः

वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे ।

हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥ १ ॥

अभ्यर्थनेन सरसीरुहसम्भवस्य

त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् ।

विश्वेश्वरी विपदपाकरणे पुरस्तात्

माता ममास्तु मधुकैटभयोर्निहन्त्री ॥ २ ॥

प्राङ्निर्जरेषु निहतैर्निजशक्तिलेशैः

एकीभवद्भिरुदिताऽखिललोकगुप्त्यै ।

सम्पन्नशस्त्रनिकरा च तदायुधस्थैः

माता ममास्तु महिषान्तकरी पुरस्तात् ॥ ३ ॥

प्रालेयशैलतनया तनुकान्तिसम्पत्

कोशोदिता कुवलयच्छविचारुदेहा ।

नारायणी नमदभीप्सितकल्पवल्ली

सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री ॥ ४ ॥

विश्वेश्वरीति महिषान्तकरीति यस्याः

नारायणीत्यपि च नामभिरङ्कितानि ।

सूक्तानि पङ्कजभुवा च सुरर्षिभिश्च

दृष्टानि पावकमुखैश्च शिवां भजे ताम् ॥ ५ ॥

उत्पत्तिदैत्यहननस्तवनात्मकानि

संरक्षकाण्यखिलभूतहिताय यस्याः ।

सूक्तान्यशेषनिगमान्तविदः पठन्ति

तां विश्वमातरमजस्रमभिष्टवीमि ॥ ६ ॥

ये वैप्रचित्तपुनरुत्थितशुम्भमुख्यैः

दुर्भिक्षघोरसमयेन च कारितासु ।

आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः

तैरम्बिका समभिरक्षतु मां विपद्भ्यः ॥ ७ ॥

सूक्तं यदीयमरविन्दभवादि दृष्टं

आवर्त्य देव्यनुपदं सुरथः समाधिः ।

द्वावप्यवापतुरभीष्टमनन्यलभ्यं

तामादिदेवतरुणीं प्रणमामि मूर्ध्ना ॥ ८ ॥

माहिष्मतीतनुभवं च रुरुं च हन्तुं

आविष्कृतैर्निजरसादवतारभेदैः ।

अष्टादशाहतनवाहतकोटिसङ्ख्यैः

अम्बा सदा समभिरक्षतु मां विपद्भ्यः ॥ ९ ॥

एतच्चरित्रमखिलं लिखितं हि यस्याः

सम्पूजितं सदन एव निवेशितं वा ।

दुर्गं च तारयति दुस्तरमप्यशेषं

श्रेयः प्रयच्छति च सर्वमुमां भजे ताम् ॥ १० ॥

यत्पूजनस्तुतिनमस्कृतिभिर्भवन्ति

प्रीताः पितामहरमेशहरास्त्रयोऽपि ।

तेषामपि स्वकगुणैर्ददती वपूंषि

तामीश्वरस्य तरुणीं शरणं प्रपद्ये ॥ ११ ॥

कान्तारमध्यदृढलग्नतयाऽवसन्नाः

मग्नाश्च वारिधिजले रिपुभिश्च रुद्धाः ।

यस्याः प्रपद्य चरणौ विपदस्तरन्ति

सा मे सदाऽस्तु हृदि सर्वजगत्सवित्री ॥ १२ ॥

बन्धे वधे महति मृत्युभये प्रसक्ते

वित्तक्षये च विविधे य महोपतापे ।

यत्पादपूजनमिह प्रतिकारमाहुः

सा मे समस्तजननी शरणं भवानी ॥ १३ ॥

बाणासुरप्रहितपन्नगबन्धमोक्षः

तद्बाहुदर्पदलनादुषया च योगः ।

प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादात्

सा मे शिवा सकलमप्यशुभं क्षिणोतु ॥ १४ ॥

पापः पुलस्त्यतनयः पुनरुत्थितो मां

अद्यापि हर्तुमयमागत इत्युदीतम् ।

यत्सेवनेन भयमिन्दिरयाऽवधूतं

तामादिदेवतरुणीं शरणं गतोऽस्मि ॥ १५ ॥

यद्ध्यानजं सुखमवाप्यमनन्तपुण्यैः

साक्षात्तमच्युत परिग्रहमाश्ववापुः ।

गोपाङ्गनाः किल यदर्चनपुण्यमात्राः

सा मे सदा भगवती भवतु प्रसन्ना ॥ १६ ॥

रात्रिं प्रपद्य इति मन्त्रविदः प्रपन्नान्

उद्बोध्य मृत्युवधिमन्यफलैः प्रलोभ्य ।

बुद्ध्वा च तद्विमुखतां प्रतनं नयन्तीं

आकाशमादिजननीं जगतां भजे ताम् ॥ १७ ॥

देशकालेषु दुष्टेषु दुर्गाचन्द्रकलास्तुतिः ।

सन्ध्ययोरनुसन्धेया सर्वापद्विनिवृत्तये ॥ १८ ॥

इति श्रीमदपय्यदीक्षितविरचिता दुर्गाचन्द्रकलास्तुतिः ॥

sri durga chandrakala stuti in devanagari