Skip to main content
पडताळणी प्रलंबित

श्री विधिमानसहंसा स्तोत्रम्

पापिषु प्रथमतो गणनीयं

पुण्यवज्जनसुदूरगतं माम् ।

नागराजमिव पङ्कजचक्षु-

-र्वाणि पाहि विधिमानसहंसे ॥ १ ॥

मांसरक्तमलपूर्णशरीरे

पूतिगन्धनिलयेऽस्थिरवर्ये ।

आत्मबुद्धिमचलां दधतं मां

वाणि पाहि विधिमानसहंसे ॥ २ ॥

मोहलोभमुखरोगविशीर्णं

जन्ममृत्युभयतप्तहृदब्जम् ।

शान्तिदान्तिमुखमातृविहीनं

वाणि पाहि विधिमानसहंसे ॥ ३ ॥

वेदशीर्षपरिशीलनशून्यं

पादपद्मनमनेऽप्यलसं ते ।

पाणिपङ्कजलसच्छुकबाले

वाणि पाहि विधिमानसहंसे ॥ ४ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्री विधिमानसहंसा स्तोत्रम् ॥

sri vidhi manasa hamsa stotram