Skip to main content
पडताळणी प्रलंबित

श्री गणेश कीलक स्तोत्रम्

दक्ष उवाच ।

गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् ।

मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ १ ॥

मुद्गल उवाच ।

कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः ।

आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २ ॥

तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः ।

भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ ३ ॥

समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् ।

सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥ ४ ॥

अस्य श्रीगणेशकीलकस्य शिव ऋषिः अनुष्टुप्छन्दः श्रीगणपतिर्देवता ओं गं योगाय स्वाहा ओं गं बीजं विद्याऽविद्याशक्तिगणपति प्रीत्यर्थे जपे विनियोगः ॥

छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् ।

एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ ५ ॥

ततो ध्यायेद्गणेशानं ज्योतीरूपधरं परम् ।

मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥ ६ ॥

शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते ।

विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ ७ ॥

एवं ध्यात्वा गणेशानं मानसैः पूजयेत्पृथक् ।

पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ ८ ॥

एकविंशतिवारं तु जपं कुर्यात्प्रजापते ।

ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत् ॥ ९ ॥

रूपं बलं श्रियं देहि यशो वीर्यं गजानन ।

मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥ १० ॥

यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः ।

तदा त्वं तान्निहत्य स्म करोषि वीर्यसम्युतान् ॥ ११ ॥

तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः ।

शापैश्च तान् सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ १२ ॥

शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो ।

ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ १३ ॥

चराचरं जगत्सर्वं सत्ताहीनं यदा भवेत् ।

त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ १४ ॥

तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप ।

स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ १५ ॥

ब्रह्माणि योगहीनानि जातानि स्मरणेन ते ।

यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ १६ ॥

इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो ।

सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥ १७ ॥

तथा मन्त्रा गणेशान वीर्यहीना बभूविरे ।

स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान् कुरुष्व ते ॥ १८ ॥

सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो ।

मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ १९ ॥

उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः ।

सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः ॥ २० ॥

गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने ।

स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २१ ॥

गणेशकीलकमिदं कथितं ते प्रजापते ।

शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम् ॥ २२ ॥

यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम् ।

स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् ॥ २३ ॥

एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा ।

स सर्वफलहीनश्च जायते नात्र संशयः ॥ २४ ॥

सर्वसिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् ।

पुरानेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत् ॥ २५ ॥

विष्णुब्रह्मादयो देवा मुनयो योगिनः परे ।

अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते ॥ २६ ॥

ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः ।

गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह ॥ २७ ॥

सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु ।

गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥ २८ ॥

दक्ष उवाच ।

ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् ।

ब्रह्माण्डं स ददर्शैव तन्मे वद कुतूहलम् ॥ २९ ॥

पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते ।

अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ ३० ॥

मुद्गलवाच ।

विमानस्थः स्वयं राजा कृपया तान् ददर्श ह ।

गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥ ३१ ॥

स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे ।

योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ ३२ ॥

एतत्ते कथितं सर्वमैलस्य चरितं शुभम् ।

यः शृणोति स वै मर्त्यः भुक्तिं मुक्तिं लभेद्ध्रुवम् ॥ ३३ ॥

इति श्रीमुद्गलमहापुराणे पञ्चमेखण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्याये श्रीगणेशकीलकस्तोत्रं सम्पूर्णम् ।

sri ganesha kilaka stotram